Download CBSE Class 12 Sanskrit Core Question Papers
Explore authentic exam materials through the CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22. Tailored for Class 12 learners, utilizing these Sanskrit Core previous year papers ensures thorough preparation and strengthens time management skills before final CBSE evaluations.
Access CBSE Question Papers and Solutions
Navigate directly to the solved Sanskrit Core question papers using the digital viewer below. Each practice set includes detailed solutions, allowing students to instantly cross-check their work and identify areas requiring further revision.
खण्डः ‘क’
अपठितांश-अवबोधनम् - 10 अङ्काः
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। [10 Marks]
अद्यत्वे अस्माकं शान्तिप्रिये भारतवर्षे गंभीरा आतंकवाद-समस्या वर्तते। प्रतिदिनम् आतंकवादिनः अनेकान् निरीहान् जनान् व्यापादयन्ति। जम्मूकाश्मीरे नियुक्ताः भारतीयसैनिकाः स्वदेशस्य रक्षायै प्राणान् अपि समर्पयन्ति। काश्मीरे नियुक्त - सैनिकानां भार्याः आशङ्किताः भवन्ति, यत् न जाने कदा तासां पतिः संघर्षे वीरगतिं प्राप्नुयात्। अस्माकं प्रतिवेशिना पाकिस्तानदेशेन आतंकवादिभ्यः अस्त्रशस्त्राणि धनादीनि च प्रदीयन्ते। केचन अपरिपक्वबुद्धयः युवकाः प्रतिवेशिदेशस्य मिथ्याप्रचारैः भ्रान्ताः सन्तः हिंसामार्गम् अनुगच्छन्ति। “हिंसामाध्यमेन न कस्याः अपि समस्यायाः समाधानं प्राप्तुं शक्यते” इति प्रधानमन्त्रिणा मुहुः मुहुः कथ्यते। वस्तुतः सम्पूर्णः विश्वः एव आतंकवादस्य समस्यया ग्रस्तः वर्तते न केवलं भारतवर्षः एव, अतः विश्वस्य प्रमुखैः राष्ट्राध्यक्षैः एतस्य आतंकवादस्य समूलनाशाय कश्चन उपायः यथाशीघ्रं चिन्तनीयः।
(अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) अद्यत्वे भारतवर्षे का समस्या वर्तते? [1 Mark]
Answer: आतंकवाद-समस्या
Teacher's Note:
a) गद्यांशस्य प्रथमे वाक्ये "गंभीरा आतंकवाद-समस्या वर्तते" इति उत्तरम् अस्ति।
b) 'का' इति प्रश्ने स्त्रीलिङ्गे प्रथमाविभक्तौ उत्तरं लेखनीयम्।
(ii) के अनेकान् निरीहान् जनान् व्यापादयन्ति? [1 Mark]
Answer: आतंकवादिनः
Teacher's Note:
a) "प्रतिदिनम् आतंकवादिनः अनेकान् निरीहान् जनान् व्यापादयन्ति" इति वाक्ये उत्तरम् अस्ति।
b) 'के' इति प्रश्ने प्रथमा-बहुवचने उत्तरं लेखनीयम्।
(iii) भारतीयसैनिकाः कस्य रक्षायै प्राणान् समर्पयन्ति? [1 Mark]
Answer: स्वदेशस्य
Teacher's Note:
a) "भारतीयसैनिकाः स्वदेशस्य रक्षायै प्राणान् अपि समर्पयन्ति" इति वाक्ये उत्तरम् अस्ति।
b) 'कस्य' इति प्रश्ने षष्ठीविभक्तौ उत्तरं लेखनीयम्।
(आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) [4 Marks]
(i) सैनिकानां भार्याः किमर्थं आशङ्किताः भवन्ति? [2 Marks]
Answer: सैनिकानां भार्याः आशङ्किताः भवन्ति यत् न जाने कदा तासां पतिः संघर्षे वीरगतिं प्राप्नुयात्।
Teacher's Note:
a) 'संघर्षे वीरगतिं प्राप्नुयात्' इति मुख्यः अंशः उत्तरे अवश्यं लेखनीयः।
b) पूर्णवाक्येन उत्तरं देयम्, केवलम् एकं पदं न।
(ii) कीदृशाः युवकाः हिंसामार्गम् अनुगच्छन्ति? [2 Marks]
Answer: केचन अपरिपक्वबुद्धयः युवकाः प्रतिवेशिदेशस्य मिथ्याप्रचारैः भ्रान्ताः सन्तः हिंसामार्गम् अनुगच्छन्ति।
Teacher's Note:
a) 'अपरिपक्वबुद्धयः' 'मिथ्याप्रचारैः भ्रान्ताः' इति पदद्वयम् उत्तरे आवश्यकम्।
b) 'कीदृशाः' इति प्रश्ने युवकानां विशेषणानि लेखनीयानि।
(iii) प्रधानमन्त्रिणा मुहुः मुहुः किं कथ्यते? [2 Marks]
Answer: "हिंसामाध्यमेन न कस्याः अपि समस्यायाः समाधानं प्राप्तुं शक्यते" इति प्रधानमन्त्रिणा मुहुः मुहुः कथ्यते।
Teacher's Note:
a) उद्धरणचिह्नयोः मध्ये स्थितं सम्पूर्णं वाक्यम् उत्तरे लेखनीयम्।
b) 'इति प्रधानमन्त्रिणा मुहुः मुहुः कथ्यते' इति योजयित्वा पूर्णवाक्यं भवति।
(इ) अस्य अनुच्छेदस्य द्वित्रिशब्दात्मकं समुचितं शीर्षकं लिखत। [1 Mark]
Answer: आतंकवाद-समस्या / आतंकवादः
Teacher's Note:
a) गद्यांशस्य मुख्यः विषयः आतंकवादस्य समस्या अस्ति।
b) अङ्कयोजनानुसारं विषयानुकूलम् अन्यत् शीर्षकम् अपि स्वीक्रियते।
(ई) यथानिर्देशम् उत्तरत : (केवलं प्रश्नत्रयम्) [3 Marks]
(i) ‘आतंकवादिनः’ इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्? [1 Mark]
(A) वर्तते
(B) व्यापादयन्ति
(C) समर्पयन्ति
(D) प्रदीयन्ते
Answer: (B) व्यापादयन्ति
Teacher's Note:
a) "आतंकवादिनः ... जनान् व्यापादयन्ति" इति वाक्ये कर्ता 'आतंकवादिनः', क्रिया 'व्यापादयन्ति'।
b) कर्तृपदं क्रियापदं च प्रथमपुरुष-बहुवचने स्तः।
(ii) ‘भारतवर्षे’ इति पदस्य विशेषणपदं चिनुत - [1 Mark]
(A) शान्तिप्रिये
(B) संघर्षे
(C) अद्यत्वे
(D) जम्मूकाश्मीरे
Answer: (A) शान्तिप्रिये
Teacher's Note:
a) "शान्तिप्रिये भारतवर्षे" इति पदयोः लिङ्ग-विभक्ति-वचनानि समानानि सन्ति।
b) विशेषणं विशेष्यस्य गुणं बोधयति।
(iii) ‘प्रदीयन्ते’ इति क्रियापदस्य कर्तृपदं चिनुत - [1 Mark]
(A) भारतीयसैनिकाः
(B) मिथ्याप्रचारैः
(C) पाकिस्तानदेशेन
(D) भार्या
Answer: (C) पाकिस्तानदेशेन
Teacher's Note:
a) "पाकिस्तानदेशेन ... अस्त्रशस्त्राणि धनादीनि च प्रदीयन्ते" इति कर्मवाच्यस्य वाक्यम् अस्ति।
b) कर्मवाच्ये कर्ता तृतीयाविभक्तौ भवति, अतः 'पाकिस्तानदेशेन' कर्तृपदम्।
(iv) ‘वारं - वारम्’ इति पदस्य पर्यायपदं गद्यांशात् चिनुत - [1 Mark]
(A) समाधानम्
(B) अस्माकम्
(C) प्रतिदिनम्
(D) मुहुः मुहुः
Answer: (D) मुहुः मुहुः
Teacher's Note:
a) 'वारं वारम्' 'मुहुः मुहुः' इति द्वयोः अर्थः पुनः पुनः इति।
b) 'प्रतिदिनम्' इत्यस्य अर्थः प्रत्येकं दिनम् इति, अतः सः पर्यायः न।
खण्डः ‘ख’
रचनात्मक-कार्यम् - 15 अङ्काः
2. भवती स्वप्ना। भवत्याः विद्यालये आयोक्ष्यमाणे वार्षिकोत्सवे संस्कृतनाटकस्य मञ्चनं भविष्यति। अस्मिन्नवसरे स्वसख्यै श्रुतिकृते प्रेषिते निमन्त्रणपत्रे मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयित्वा पुनः लिखत। [5 Marks]
पत्रम्
प्रियसखि (i) ............!
सप्रेम नमो नमः।
अत्र (ii) ............ तत्रास्तु। अस्माकं (iii) ............ वार्षिकोत्सवः वसन्तपञ्चमीपर्वणः अवसरे आयोक्ष्यते। अत्र महाकवि-कालिदासेन (iv) ............ अभिज्ञानशाकुन्तलस्य चतुर्थाङ्कस्य (v) ............ छात्रैः प्रस्तोष्यते। अयम् अङ्कः संस्कृतसाहित्यस्य रत्नभूतः अस्ति। अहमपि शकुन्तलायाः (vi) ............ (निर्वक्ष्यामि)। अस्माभिः प्रतिदिनं नाटकस्य (vii) ............ क्रियते। एतद् दृष्ट्वा त्वं नूनम् (viii) ............ आनुभविष्यसि। अस्मिन् दिने त्वया अवश्यमेव अत्र (ix) ............। परिवारे सर्वेभ्यः मम प्रणामाञ्जलिः निवेदनीया।
तव प्रियसखी।
(x) ............।
मञ्जूषा
आनन्दम्, श्रुते!, कुशलम्, विद्यालयस्य, आगन्तव्यम्, भूमिकाम्, विरचितस्य, मञ्चनम्, स्वप्ना, पूर्वाभ्यासः।
Answer:
प्रियसखि (i) श्रुते!
सप्रेम नमो नमः।
अत्र (ii) कुशलम् तत्रास्तु। अस्माकं (iii) विद्यालयस्य वार्षिकोत्सवः वसन्तपञ्चमीपर्वणः अवसरे आयोक्ष्यते। अत्र महाकवि-कालिदासेन (iv) विरचितस्य अभिज्ञानशाकुन्तलस्य चतुर्थाङ्कस्य (v) मञ्चनम् छात्रैः प्रस्तोष्यते। अयम् अङ्कः संस्कृतसाहित्यस्य रत्नभूतः अस्ति। अहमपि शकुन्तलायाः (vi) भूमिकाम् (निर्वक्ष्यामि)। अस्माभिः प्रतिदिनं नाटकस्य (vii) पूर्वाभ्यासः क्रियते। एतद् दृष्ट्वा त्वं नूनम् (viii) आनन्दम् आनुभविष्यसि। अस्मिन् दिने त्वया अवश्यमेव अत्र (ix) आगन्तव्यम्। परिवारे सर्वेभ्यः मम प्रणामाञ्जलिः निवेदनीया।
तव प्रियसखी।
(x) स्वप्ना।
Teacher's Note:
a) प्रत्येकं शुद्धपदाय अर्धः अङ्कः अस्ति, अतः सर्वं पत्रं पूरयित्वा पुनः लेखनीयम्।
b) रिक्तस्थानस्य पूर्वापरपदानि पठित्वा पदं चेतव्यम्, यथा 'कालिदासेन विरचितस्य', 'नाटकस्य पूर्वाभ्यासः क्रियते'।
c) सम्बोधने 'श्रुते!', पत्रस्य अन्ते प्रेषिकायाः नाम 'स्वप्ना' लेखनीयम्।
3. (क) प्रदत्तचित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया अथवा स्वतन्त्ररूपेण संस्कृतेन पञ्चवाक्यानि लिखत। [5 Marks]
मञ्जूषा
वृक्षारोपणम्, छात्राः, वातावरणम्, विद्यालये, भवति, स्वच्छम्, वायुं, मिलति, प्राणवायुः, करणीयम्, वृक्षान्, आरोपयन्ति।
[Figure: श्वेत-श्याम-छायाचित्रम्। चतस्रः बालिकाः श्वेतवस्त्राणि धृत्वा भूमौ उपविष्टाः सन्ति, ताः मृत्तिकायां लघुं पादपं रोपयन्ति। परितः तृणानि पादपाः च दृश्यन्ते।]
Answer:
1. अस्मिन् चित्रे छात्राः वृक्षारोपणं कुर्वन्ति।
2. ताः विद्यालये वृक्षान् आरोपयन्ति।
3. वृक्षैः वातावरणं स्वच्छं भवति।
4. वृक्षेभ्यः अस्मभ्यं प्राणवायुः मिलति।
5. वृक्षाः वायुं शुद्धं कुर्वन्ति।
6. अतः वृक्षारोपणं सर्वैः करणीयम्।
Teacher's Note:
a) अङ्कयोजनानुसारं छात्राः चित्रं दृष्ट्वा पञ्च वाक्यानि लिखन्ति, प्रत्येकं शुद्धवाक्याय एकः अङ्कः अस्ति।
b) मञ्जूषायाः पदानि विभक्तिपरिवर्तनं कृत्वा अपि प्रयोक्तुं शक्यन्ते, स्वतन्त्ररूपेण अपि वाक्यानि रचयितुं शक्यन्ते।
c) सर्वाणि वाक्यानि चित्रेण सम्बद्धानि भवेयुः।
अथवा
(ख) मञ्जूषायां प्रदत्तशब्दानां सहायतया निम्नलिखितं विषयम् आदाय पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत : [5 Marks]
विषयः - ‘भारतदेशः’
मञ्जूषा
आर्यावर्तः, प्राचीनं, प्रसिद्धः, नाम, देशस्य, सनातनी संस्कृतिः, विभिन्नपर्वाणि, जनाः, उल्लासपूर्वकं, भागं, प्रसिद्धाः, नद्यः, गृह्णन्ति, सन्ति, विश्वगुरुः, पुरा, पर्वताः, सागराः, आसीत्।
Answer: भारतदेशः
1. अस्माकं देशस्य प्राचीनं नाम आर्यावर्तः आसीत्।
2. पुरा भारतदेशः विश्वगुरुः इति प्रसिद्धः आसीत्।
3. अस्य सनातनी संस्कृतिः विश्वे प्रसिद्धा अस्ति।
4. अत्र प्रसिद्धाः पर्वताः नद्यः सागराः च सन्ति।
5. अत्र विभिन्नपर्वाणि भवन्ति।
6. जनाः उल्लासपूर्वकं पर्वसु भागं गृह्णन्ति।
Teacher's Note:
a) अङ्कयोजनानुसारं प्रदत्तविषये संस्कृतेन पञ्चवाक्यमितः अनुच्छेदः लेखनीयः।
b) सर्वाणि वाक्यानि विषयेण सम्बद्धानि व्याकरणदृष्ट्या शुद्धानि च भवेयुः।
c) मञ्जूषायाः पदानां विभक्तिं परिवर्त्य अपि वाक्यनिर्माणं कर्तुं शक्यते।
4. (क) मञ्जूषायां प्रदत्तशब्दानां सहायतया अधोलिखितायां-लघुकथायां रिक्तस्थानानि पूरयित्वा कथां पुनः लिखत। [5 Marks]
नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः सुविख्यातः (i) ............ अपि च आसीत्। देशविदेशेषु तस्य (ii) ............ प्रसृता। एकदा तस्य समीपे (iii) ............ युवकौ आगच्छताम्। तौ तस्य सहायकौ भवितुम् इच्छतः स्म। नागार्जुनः उभाभ्याम् अपि एकम् एकं वस्तु (iv) ............ उक्तवान् - श्वः अनेन रसायनं निर्माय (v) ............। तेनैव भवतोः परीक्षा भविष्यति, एकस्य चयनमपि (vi) ............। अन्यस्मिन् दिने एकः रसायनं (vii) ............ आनीतवान्। द्वितीयः अवदत् - कृपया क्षम्यताम्। मया मार्गे एकः वृद्धः रोगी (viii) ............। तं चिकित्सालयं नीत्वा सेवां कृतवान्। अतः (ix) ............ समय एव न लब्धः। सः रुग्णः नागार्जुनेन एव मार्गे (x) ............ स्थापितः आसीत्। अतः द्वितीयः एव युवकः परीक्षायां सफलः जातः।
मञ्जूषा
रसायननिर्माणार्थं, वैद्यः, दत्वा, निर्माय, करिष्यामि, आनेतव्यम्, कीर्तिः, दृष्टः, परीक्षायै, द्वौ।
Answer:
नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः सुविख्यातः (i) वैद्यः अपि च आसीत्। देशविदेशेषु तस्य (ii) कीर्तिः प्रसृता। एकदा तस्य समीपे (iii) द्वौ युवकौ आगच्छताम्। तौ तस्य सहायकौ भवितुम् इच्छतः स्म। नागार्जुनः उभाभ्याम् अपि एकम् एकं वस्तु (iv) दत्वा उक्तवान् - श्वः अनेन रसायनं निर्माय (v) आनेतव्यम्। तेनैव भवतोः परीक्षा भविष्यति, एकस्य चयनमपि (vi) करिष्यामि। अन्यस्मिन् दिने एकः रसायनं (vii) निर्माय आनीतवान्। द्वितीयः अवदत् - कृपया क्षम्यताम्। मया मार्गे एकः वृद्धः रोगी (viii) दृष्टः। तं चिकित्सालयं नीत्वा सेवां कृतवान्। अतः (ix) रसायननिर्माणार्थं समय एव न लब्धः। सः रुग्णः नागार्जुनेन एव मार्गे (x) परीक्षायै स्थापितः आसीत्। अतः द्वितीयः एव युवकः परीक्षायां सफलः जातः।
Teacher's Note:
a) प्रत्येकं शुद्धपदाय अर्धः अङ्कः अस्ति।
b) रिक्तस्थानस्य समीपस्थानि पदानि ध्यानेन पठनीयानि, यथा 'युवकौ' इत्यनेन 'द्वौ', 'आनीतवान्' इत्यनेन 'निर्माय' सूच्यते।
c) 'कीर्तिः प्रसृता' इत्यत्र स्त्रीलिङ्गस्य मेलनं द्रष्टव्यम्।
अथवा
(ख) अधोलिखित-संवादे मञ्जूषातः संवादवाक्यं चित्वा रिक्तस्थानानि पूरयत : [5 Marks]
आचार्या - भो उमे! जानासि यद् अस्माकं देशस्य प्राचीनं नाम किम् आसीत्?
उमा - महोदये! (i) ............।
आचार्या - शोभनम्। आर्यावर्तस्य अर्थोऽस्ति - आर्याणां स्थानम्। अत्र आर्यशब्दस्य अर्थः कः अस्ति?
उमा - (ii) ............।
आचार्या - शोभनम् उमे! अत्र सर्वे एव श्रेष्ठाः जनाः अवसन्। अधुना वद - अस्माकं देशस्य नाम भारतम् कस्य नाम्ना जातम्?
उमा - (iii) ............।
आचार्या - शोभनम् - ऋषभदेवस्य पुत्रः चक्रवर्ती राजा भरतः आसीत्। एकोऽपरः भरतः कस्य पुत्रः आसीत्?
उमा - महोदये! (iv) ............।
आचार्या - बहुशोभनम् , राज्ञः दशरथस्य चत्वारः पुत्राः आसन् - रामः, लक्ष्मणः, भरतः, शत्रुघ्नश्च। रामेण सह वनम् एतेषु कः गतवान्?
उमा - महोदये! (v) ............।
मञ्जूषा
राज्ञः भरतस्य नाम्ना भारतं नाम जातम्।
रामेण सह लक्ष्मणः वनं गतवान्।
आर्यशब्दस्य अर्थः श्रेष्ठः भवति।
अस्माकं देशस्य प्राचीनं नाम आर्यावर्तः आसीत्।
अपरः भरतः महाराज-दशरथस्य पुत्रः आसीत्।
Answer:
(i) अस्माकं देशस्य प्राचीनं नाम आर्यावर्तः आसीत्।
(ii) आर्यशब्दस्य अर्थः श्रेष्ठः भवति।
(iii) राज्ञः भरतस्य नाम्ना भारतं नाम जातम्।
(iv) अपरः भरतः महाराज-दशरथस्य पुत्रः आसीत्।
(v) रामेण सह लक्ष्मणः वनं गतवान्।
Teacher's Note:
a) प्रत्येकं रिक्तस्थानस्य पूर्वं आचार्यया पृष्टः प्रश्नः ध्यानेन पठनीयः, उत्तरं तेन सह सङ्गच्छेत।
b) 'कस्य नाम्ना जातम्?' इत्यस्य उत्तरं 'भरतस्य नाम्ना', 'कः गतवान्?' इत्यस्य उत्तरं 'लक्ष्मणः' अस्ति।
c) प्रत्येकं वाक्यं मञ्जूषातः शुद्धरूपेण पूर्णं लेखनीयम्।
खण्डः ‘ग’
अनुप्रयुक्त-व्याकरणम् - 20 अङ्काः
5. अधोलिखित-वाक्येषु रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (केवलम् प्रश्नचतुष्टयम्) [4 Marks]
(i) वेदमनूच्य आचार्योऽन्तेवासिनम् अनुशास्ति। [1 Mark]
Answer: आचार्यः + अन्तेवासिनम् (अङ्कयोजना 'आचार्यो + अन्तेवासिनम्' इति अपि स्वीकरोति)
Teacher's Note:
a) अत्र विसर्गसन्धिः पूर्वरूपसन्धिः च अस्ति - अः + अ = ओऽ।
b) सन्धिच्छेदे अवग्रहस्य (ऽ) स्थाने 'अ' लेखनीयः।
(ii) वनगमननिवृत्तिः पार्थिवस्य + एव तावत्। [1 Mark]
Answer: पार्थिवस्यैव
Teacher's Note:
a) अ + ए = ऐ इति वृद्धिसन्धिः।
b) 'पार्थिवस्यएव' इति अशुद्धं रूपं न लेखनीयम्।
(iii) वैवस्वतो मनुः + नाम माननीयो मनीषिणाम्। [1 Mark]
Answer: मनुर्नाम
Teacher's Note:
a) इकारात् उकारात् वा परस्य विसर्गस्य घोषवर्णे परे 'र्' भवति (विसर्गसन्धिः)।
b) 'र्' नकारस्य उपरि रेफरूपेण लिख्यते - मनुर्नाम।
(iv) न वयं शिवगणास्तादृशाः। [1 Mark]
Answer: शिवगणाः + तादृशाः
Teacher's Note:
a) विसर्गस्य तकारे परे 'स्' भवति (विसर्गसन्धिः)।
b) सन्धिच्छेदे 'स्' स्थाने पुनः विसर्गः लेखनीयः।
(v) तदाहं तु जीवन्नपि मृतः भविष्यामि। [1 Mark]
Answer: जीवन् + अपि
Teacher's Note:
a) ह्रस्वस्वरात् परस्य 'न्' इत्यस्य स्वरे परे द्वित्वं भवति (ङमुडागमः): जीवन् + अपि = जीवन्नपि।
b) सन्धिच्छेदे एकः एव 'न्' लेखनीयः।
(vi) इति + उक्त्वा ऋतध्वजः तूष्णीम् अतिष्ठत्। [1 Mark]
Answer: इत्युक्त्वा
Teacher's Note:
a) इ + उ = यु इति यण्सन्धिः।
b) 'इ' इत्यस्य स्थाने 'य्' भवति, अतः 'इत्युक्त्वा' इति रूपम्।
6. अधोलिखित-वाक्येषु रेखाङ्कितपदानाम् उचितं समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) यानि अनवद्यानि कर्माणि तानि सेवितव्यानि। [1 Mark]
(A) न अवद्यानि
(B) न वद्यानि
(C) न अनवद्यानि
(D) अन् वद्यानि
Answer: (A) न अवद्यानि
Teacher's Note:
a) अत्र नञ्तत्पुरुषसमासः अस्ति - न अवद्यानि = अनवद्यानि।
b) स्वरात् पूर्वं 'न' इत्यस्य स्थाने 'अन्' भवति।
(ii) धैर्यसागरः लक्ष्मणः केन क्षोभितः? [1 Mark]
(A) धैर्येण सागरः
(B) धैर्याय सागरः
(C) धैर्यस्य सागरः
(D) धैर्यात् सागरः
Answer: (C) धैर्यस्य सागरः
Teacher's Note:
a) अत्र षष्ठीतत्पुरुषसमासः अस्ति।
b) धैर्यस्य सागरः इव यः सः धैर्यसागरः, अतः षष्ठीविभक्तिः उचिता।
(iii) दुष्टः उरगेण क्षता अंगुलीव त्याज्यः। [1 Mark]
(A) उरगेनक्षता
(B) उरगक्षता
(C) उरगाक्षता
(D) उरगेक्षता
Answer: (B) उरगक्षता
Teacher's Note:
a) अत्र तृतीयातत्पुरुषसमासः अस्ति - उरगेण क्षता = उरगक्षता।
b) समासे पूर्वपदस्य विभक्तिः लुप्यते।
(iv) स एव यथोचितं व्यवहरिष्यति। [1 Mark]
(A) उचितम् यथा
(B) यथा उचितम्
(C) उचितम् अनतिक्रम्य
(D) उचितं क्रम्य
Answer: (C) उचितम् अनतिक्रम्य
Teacher's Note:
a) अत्र अव्ययीभावसमासः अस्ति।
b) 'यथा' इत्यस्य अर्थः 'अनतिक्रम्य' भवति, अतः विग्रहः 'उचितम् अनतिक्रम्य'।
(v) परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः। [1 Mark]
(A) पतिः च पत्नी च
(B) पतिः पत्न्यौ च
(C) पती पत्न्यौ च
(D) पती च पत्नी च
Answer: (A) पतिः च पत्नी च
Teacher's Note:
a) अत्र इतरेतरद्वन्द्वसमासः अस्ति।
b) द्वयोः पदयोः द्विवचनं भवति, अतः 'पतिपत्न्यौ'; विग्रहे प्रत्येकं पदम् एकवचने 'च' सहितं लिख्यते।
(vi) नष्टात्मानोऽल्पबुद्धयः। [1 Mark]
(A) अल्पाः बुद्धयः
(B) अल्पा च बुद्धिः
(C) अल्पा च बुद्धिः च
(D) अल्पा बुद्धिः येषां ते
Answer: (D) अल्पा बुद्धिः येषां ते
Teacher's Note:
a) अत्र बहुव्रीहिसमासः अस्ति, यतः समस्तपदम् अन्यपदार्थं (जनान्) बोधयति।
b) बहुव्रीहेः विग्रहे 'यस्य/येषां ... सः/ते' इति प्रयोगः भवति।
7. अधोलिखित-वाक्येषु रेखाङ्कितपदानां समुचितं संयुक्तं विभक्तं वा प्रकृति-प्रत्यययोगं प्रदत्तविकल्पेभ्यः चिनुत। (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) शठः सहस्रैरपि शिक्ष्यमाणः। [1 Mark]
(A) शिक्ष् + शानच्
(B) शिक्ष् + मतुप्
(C) शिक्ष् + शतृ
(D) शिक्ष् + तव्यत्
Answer: (A) शिक्ष् + शानच्
Teacher's Note:
a) 'मान' अन्ते युक्तानि पदानि प्रायः शानच्-प्रत्ययान्तानि भवन्ति।
b) कर्मवाच्ये 'य' योजयित्वा 'शिक्ष्यमाणः' इति रूपं भवति।
(ii) वर्षाणि खलु वस्तव्यं चतुर्दश वने त्वया। [1 Mark]
(A) वस् + तव्यत्
(B) वस् + अनीयर्
(C) वस्त + व्यम्
(D) वस् + तव्यम्
Answer: (A) वस् + तव्यत्
Teacher's Note:
a) 'तव्य' अन्ते युक्तं पदं तव्यत्-प्रत्ययान्तं भवति, अर्थः 'करणीयम्' इति।
b) प्रत्ययस्य नाम 'तव्यत्' अस्ति, न तु 'तव्यम्'।
(iii) तदन्वये शुद्धमति प्रसूतः। [1 Mark]
(A) प्र + सू + क्तवतु
(B) प्र + सू + क्त
(C) प्र + सू + क्त्वा
(D) प्रसू + क्तिन्
Answer: (B) प्र + सू + क्त
Teacher's Note:
a) 'त' अन्ते युक्तं भूतकालिकं कृदन्तपदं क्त-प्रत्ययान्तं भवति।
b) क्तवतु-प्रत्यये 'वान्' भवति (यथा प्रसूतवान्), अतः (A) अशुद्धः।
(iv) राजाज्ञा पालनीया एव। [1 Mark]
(A) पालन + इया
(B) पालनी + या
(C) पालनी + टाप्
(D) पालनीय + टाप्
Answer: (D) पालनीय + टाप्
Teacher's Note:
a) 'पालनीय' इति अनीयर्-प्रत्ययान्तं पदम्, स्त्रीलिङ्गे टाप्-प्रत्ययेन 'पालनीया' भवति।
b) 'राजाज्ञा' स्त्रीलिङ्गं, अतः विशेषणम् अपि स्त्रीलिङ्गे।
(v) सिद्धोऽहं बल + मतुप् सुखी। [1 Mark]
(A) बलवान्
(B) बलमान्
(C) बलवतुम्
(D) बलमतुप्
Answer: (A) बलवान्
Teacher's Note:
a) अकारान्तात् शब्दात् परस्य मतुप्-प्रत्ययस्य 'म्' स्थाने 'व्' भवति, अतः बलवान्।
b) पुंलिङ्गे प्रथमा-एकवचने 'वान्' इति रूपं भवति।
(vi) सः यदा पञ्च-वार्षिकः जातः। [1 Mark]
(A) वर्ष + इन्
(B) वर्ष + ठक्
(C) वर्षा + इनि
(D) वार्ष + इक
Answer: (B) वर्ष + ठक्
Teacher's Note:
a) ठक्-प्रत्ययस्य 'ठ' स्थाने 'इक' भवति, आदिस्वरस्य च वृद्धिः भवति - वर्ष → वार्षिक।
b) 'वार्ष' इति मूलशब्दः न, मूलशब्दः 'वर्ष' अस्ति।
8. प्रदत्तविकल्पेभ्यः उचितम् उपपद-विभक्तिरूपं चिनुत। (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) ............ न प्रमदितव्यम्। [1 Mark]
(A) धर्मात्
(B) धर्मेण
(C) धर्मम्
(D) धर्मस्य
Answer: (A) धर्मात्
Teacher's Note:
a) 'प्रमद्' (प्रमादः) इति धातोः योगे पञ्चमीविभक्तिः भवति।
b) पाठे अपि "धर्मान्न प्रमदितव्यम्" इति प्रयोगः अस्ति।
(ii) हा धिक्! ............ अविज्ञायोपालभसे। [1 Mark]
(A) अस्माभिः
(B) वयम्
(C) अस्मान्
(D) अस्मभ्यम्
Answer: (C) अस्मान्
Teacher's Note:
a) 'धिक्' इति उपपदस्य योगे द्वितीयाविभक्तिः भवति।
b) 'अस्मान्' इति 'अस्मद्' शब्दस्य द्वितीया-बहुवचनम्।
(iii) अहम् अधुनैव ............ पारदभस्म ददामि। [1 Mark]
(A) त्वाम्
(B) युष्मान्
(C) तुभ्यम्
(D) यूयम्
Answer: (C) तुभ्यम्
Teacher's Note:
a) 'दा' (ददामि) धातोः योगे यस्मै दीयते तस्मिन् चतुर्थीविभक्तिः भवति।
b) 'तुभ्यम्' इति 'युष्मद्' शब्दस्य चतुर्थी-एकवचनम्।
(iv) कश्चन कापालिकः ............ समागतः। [1 Mark]
(A) सभायै
(B) सभायाम्
(C) सभायाः
(D) सभाम्
Answer: (B) सभायाम् (the marking scheme also accepts option (D) सभाम्)
Teacher's Note:
a) 'सभायां समागतः' (सभायां आगतः) इति अर्थे सप्तमी, 'सभां समागतः' इति गत्यर्थे द्वितीया अपि शुद्धा।
b) अङ्कयोजना (B) (D) इति विकल्पद्वयम् अपि स्वीकरोति।
(v) ............ अन्ते च वारि अमृतं भवति। [1 Mark]
(A) भोजनस्य
(B) भोजनेन
(C) भोजनात्
(D) भोजने
Answer: (A) भोजनस्य
Teacher's Note:
a) 'अन्ते' इति पदस्य योगे षष्ठीविभक्तिः भवति - भोजनस्य अन्ते।
b) कस्य अन्ते? इति प्रश्नेन षष्ठी स्पष्टा भवति।
9. अधोलिखित वाक्येषु वाच्यानुसारं कोष्ठकप्रदत्तशब्दैः रिक्तस्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) ध्रुवः ............ पिबति। (दुग्धं /दुग्धेन) [1 Mark]
Answer: दुग्धम् (ध्रुवः दुग्धं पिबति।)
Teacher's Note:
a) कर्तृवाच्ये कर्ता प्रथमायां, कर्म द्वितीयायां भवति।
b) 'पिबति' कर्तृवाच्यस्य क्रिया, अतः कर्म 'दुग्धम्'।
(ii) अस्माभिः ग्रामः ............। (गमिष्यते/गमिष्यति) [1 Mark]
Answer: गमिष्यते (अस्माभिः ग्रामः गमिष्यते।)
Teacher's Note:
a) कर्ता 'अस्माभिः' तृतीयायाम् अस्ति, अतः कर्मवाच्यम्।
b) कर्मवाच्ये क्रिया आत्मनेपदे कर्मानुसारं (ग्रामः - प्रथमपुरुष-एकवचनम्) भवति।
(iii) त्वं संस्कृत-गीतं ............। (गास्यसि/गास्यते) [1 Mark]
Answer: गास्यसि (त्वं संस्कृत-गीतं गास्यसि।)
Teacher's Note:
a) कर्ता 'त्वम्' प्रथमायाम् अस्ति, अतः कर्तृवाच्यम्।
b) कर्तृवाच्ये क्रिया कर्तुः पुरुषवचनानुसारं (मध्यमपुरुष-एकवचनम्) भवति।
(iv) ............ तीव्रं धाव्यते। (सोहनः/सोहनेन) [1 Mark]
Answer: सोहनेन (सोहनेन तीव्रं धाव्यते।)
Teacher's Note:
a) 'धाव्यते' भाववाच्यस्य क्रिया अस्ति।
b) भाववाच्ये कर्ता तृतीयाविभक्तौ भवति।
(v) छात्राभिः क्रीडा ............। (क्रीड्यते/क्रीडन्ति) [1 Mark]
Answer: क्रीड्यते (छात्राभिः क्रीडा क्रीड्यते।)
Teacher's Note:
a) कर्ता 'छात्राभिः' तृतीयायाम् अस्ति, अतः कर्मवाच्यम्।
b) कर्मवाच्ये धातोः 'य' युक्त्वा आत्मनेपदे क्रिया भवति - क्रीड्यते।
खण्डः ‘घ’
(i) पठितांशावबोधनम् - 25 अङ्काः
10. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत। [5 Marks]
वेदम् अनूच्य आचार्योऽन्तेवासिनम् अनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनम् आहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्। देवपितृ-कार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव।
(अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) [1 Mark]
(i) आचार्यः कम् अनुशास्ति? [½ Mark]
Answer: अन्तेवासिनम्
Teacher's Note:
a) "आचार्योऽन्तेवासिनम् अनुशास्ति" इति वाक्ये उत्तरम् अस्ति।
b) 'कम्' इति प्रश्ने द्वितीयाविभक्तौ उत्तरं लेखनीयम्।
(ii) कं चर? [½ Mark]
Answer: धर्मम्
Teacher's Note:
a) "धर्मं चर" इति वाक्ये उत्तरम् अस्ति।
b) अनुस्वारस्य स्थाने 'धर्मम्' इति पूर्णं रूपं लेखनीयम्।
(iii) कस्मात् मा प्रमदः? [½ Mark]
Answer: स्वाध्यायात्
Teacher's Note:
a) "स्वाध्यायान्मा प्रमदः" इत्यत्र 'स्वाध्यायात् + मा' इति सन्धिः अस्ति।
b) 'कस्मात्' इति प्रश्ने पञ्चमीविभक्तौ उत्तरं लेखनीयम्।
(आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) कम् अनूच्य आचार्यः अन्तेवासिनम् अनुशास्ति? [1 Mark]
Answer: वेदम् अनूच्य आचार्यः अन्तेवासिनम् अनुशास्ति।
Teacher's Note:
a) गद्यांशस्य प्रथमे वाक्ये उत्तरम् अस्ति।
b) सन्धिं विच्छिद्य 'आचार्यः अन्तेवासिनम्' इति लेखनं स्पष्टं भवति।
(ii) आचार्याय किम् आहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः? [1 Mark]
Answer: आचार्याय प्रियं धनम् आहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः।
Teacher's Note:
a) 'प्रियं धनम्' इति मुख्यं पदद्वयम् उत्तरे आवश्यकम्।
b) पूर्णवाक्येन उत्तरं देयम्।
(iii) अतिथिः कः भवति? [1 Mark]
Answer: अतिथिः देवः भवति।
Teacher's Note:
a) "अतिथिदेवो भव" इति वाक्यस्य आधारेण उत्तरम्।
b) 'अतिथिदेवः' इत्यस्य अर्थः 'अतिथिः देवः यस्य सः' इति।
(इ) यथानिर्देशम् उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) ‘शिष्यम्’ इति पदस्य पर्यायपदं किं प्रयुक्तम्? [1 Mark]
Answer: अन्तेवासिनम्
Teacher's Note:
a) 'अन्तेवासी' इत्यस्य अर्थः गुरोः समीपे वसन् शिष्यः इति।
b) पर्यायपदम् अपि द्वितीया-एकवचने एव लेखनीयम्।
(ii) ‘आचार्यः’ इति कर्तृपदस्य क्रियापदं किम्? [1 Mark]
Answer: अनुशास्ति
Teacher's Note:
a) "आचार्योऽन्तेवासिनम् अनुशास्ति" इत्यत्र कर्ता 'आचार्यः', क्रिया 'अनुशास्ति'।
b) 'अनूच्य' इति अव्ययम् (ल्यबन्तम्) अस्ति, न तु मुख्यक्रिया।
(iii) ‘धनम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्? [1 Mark]
Answer: प्रियम्
Teacher's Note:
a) "प्रियं धनम्" इति पदयोः लिङ्ग-विभक्ति-वचनानि समानानि।
b) विशेषणं विशेष्यस्य गुणं बोधयति।
11. अधोलिखितं पद्यं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत। [5 Marks]
अल्पज्ञ एव पुरुषः प्रलपत्यजस्रं,
पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी।
कांस्यं यथा हि कुरुतेऽतितरां निनादं,
तद्वत् सुवर्णमिह नैव करोति नादम्॥
(अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) [1 Mark]
(i) कीदृशः पुरुषः अजस्रं प्रलपति? [½ Mark]
Answer: अल्पज्ञः
Teacher's Note:
a) "अल्पज्ञ एव पुरुषः प्रलपत्यजस्रम्" इति प्रथमपङ्क्तौ उत्तरम् अस्ति।
b) 'कीदृशः' इति प्रश्ने विशेषणपदं लेखनीयम्।
(ii) पाण्डित्यसम्भृतमतिः कीदृशः भवति? [½ Mark]
Answer: मितप्रभाषी
Teacher's Note:
a) "पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी" इति द्वितीयपङ्क्तौ उत्तरम् अस्ति।
b) 'मितप्रभाषी' इत्यस्य अर्थः अल्पं वदति यः सः।
(iii) सुवर्णं किं न करोति? [½ Mark]
Answer: नादम्
Teacher's Note:
a) "सुवर्णमिह नैव करोति नादम्" इति चतुर्थपङ्क्तौ उत्तरम् अस्ति।
b) 'किम्' इति कर्मविषयके प्रश्ने द्वितीयाविभक्तौ उत्तरं लेखनीयम्।
(आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) अतितरां निनादं किं करोति? [1 Mark]
Answer: अतितरां निनादं कांस्यं करोति।
Teacher's Note:
a) "कांस्यं यथा हि कुरुतेऽतितरां निनादम्" इति तृतीयपङ्क्तौ उत्तरम् अस्ति।
b) 'कुरुते' स्थाने प्रश्नानुसारं 'करोति' इति क्रियापदं प्रयोक्तव्यम्।
(ii) मितप्रभाषी कः भवति? [1 Mark]
Answer: पाण्डित्यसम्भृतमतिः मितप्रभाषी भवति।
Teacher's Note:
a) 'पाण्डित्यसम्भृतमतिस्तु' इति पदे सन्धिं विच्छिद्य 'पाण्डित्यसम्भृतमतिः' लेखनीयम्।
b) पूर्णवाक्येन उत्तरं देयम्।
(iii) अल्पज्ञः पुरुषः किं करोति? [1 Mark]
Answer: अल्पज्ञः पुरुषः अजस्रं प्रलपति।
Teacher's Note:
a) 'प्रलपत्यजस्रम्' इति पदस्य सन्धिविच्छेदः 'प्रलपति + अजस्रम्'।
b) 'अजस्रम्' इत्यस्य अर्थः निरन्तरम् इति।
(इ) यथानिर्देशम् उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) ‘पुरुषः’ इति पदस्य कृते विशेषणपदं किं प्रयुक्तम्? [1 Mark]
Answer: अल्पज्ञः
Teacher's Note:
a) "अल्पज्ञ एव पुरुषः" इत्यत्र 'अल्पज्ञः' पुरुषस्य विशेषणम्।
b) विशेषणं विशेष्यस्य समानलिङ्ग-विभक्ति-वचनं भवति।
(ii) ‘बहुभाषी’ इति पदस्य विलोमपदं किं प्रयुक्तम्? [1 Mark]
Answer: मितप्रभाषी
Teacher's Note:
a) 'बहुभाषी' (अधिकं वदति) इत्यस्य विपरीतार्थः 'मितप्रभाषी' (अल्पं वदति)।
b) विलोमपदं पद्ये यथा प्रयुक्तं तथैव लेखनीयम्।
(iii) ‘सुवर्णम्’ इति कर्तृपदस्य क्रियापदं किम् अस्ति? [1 Mark]
Answer: करोति
Teacher's Note:
a) "सुवर्णमिह नैव करोति नादम्" इत्यत्र कर्ता 'सुवर्णम्', क्रिया 'करोति'।
b) 'कुरुते' इति क्रिया 'कांस्यम्' इत्यस्य अस्ति, अतः सा न लेखनीया।
12. अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत। [5 Marks]
ऋतध्वजः - प्रथमं तु सखीवचनं श्रोष्यावः। तदनु स्वयमेव कुलगुरुं पितरौ च सभाजयितुं गमिष्यावः।
कुण्डला - परस्परप्रीतिमतोः भवतोः उपदेशस्य नास्ति कोऽपि अवकाशः, तदापि सखीस्नेहः मां भाषयति - भर्त्रा सदैव भार्या भर्तव्या रक्षितव्या च। यतो हि धर्मार्थकामसंसिद्धये यथा भार्या भर्तुः सहायिनी भवति तथा न कोऽपि अन्यः। परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः। पतिः यदि प्रभूतं धनम् अर्जयित्वा गृहमानयति, तत्खलु पत्न्यभावे कुपात्रेषु दीयमानं क्षयमेति।
ऋतध्वजः - लक्ष्म्याः रक्षार्थं पत्न्याः सहयोगः अनिवार्यः।
मदालसा - कुण्डले! लक्ष्मीपूजायां न मे प्रवृत्तिः। यदि लक्ष्मीः पूज्या प्रिया च अतिथिवर्यस्य, तदा इदानीमेव मे नमस्कारः।
(अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) [1 Mark]
(i) प्रथमं तु किं श्रोष्यावः? [½ Mark]
Answer: सखीवचनम्
Teacher's Note:
a) ऋतध्वजस्य प्रथमे वाक्ये "प्रथमं तु सखीवचनं श्रोष्यावः" इति उत्तरम् अस्ति।
b) अनुस्वारस्य स्थाने 'सखीवचनम्' इति पूर्णं रूपं लेखनीयम्।
(ii) पतिपत्न्यौ किं साधयतः? [½ Mark]
Answer: त्रिवर्गम्
Teacher's Note:
a) "परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः" इति वाक्ये उत्तरम् अस्ति।
b) त्रिवर्गः इत्यस्य अर्थः धर्मः अर्थः कामः च।
(iii) भार्या कस्य सहायिनी भवति? [½ Mark]
Answer: भर्तुः
Teacher's Note:
a) "यथा भार्या भर्तुः सहायिनी भवति" इति वाक्ये उत्तरम् अस्ति।
b) 'कस्य' इति प्रश्ने षष्ठीविभक्तौ उत्तरं लेखनीयम्।
(आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) तदनु स्वयमेव किमर्थं गमिष्यावः? [1 Mark]
Answer: तदनु स्वयमेव कुलगुरुं पितरौ च सभाजयितुं गमिष्यावः।
Teacher's Note:
a) 'किमर्थम्' इति प्रश्नस्य उत्तरं 'सभाजयितुम्' (तुमुन्-प्रत्ययान्तम्) अस्ति।
b) 'कुलगुरुं पितरौ च' इति उभयम् उत्तरे लेखनीयम्।
(ii) तदापि सखीस्नेहः मां किं भाषयति? [1 Mark]
Answer: तदापि सखीस्नेहः मां भाषयति यत् भर्त्रा सदैव भार्या भर्तव्या रक्षितव्या च। यतो हि धर्मार्थकामसंसिद्धये यथा भार्या भर्तुः सहायिनी भवति तथा न कोऽपि अन्यः। परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः। पतिः यदि प्रभूतं धनम् अर्जयित्वा गृहमानयति, तत्खलु पत्न्यभावे कुपात्रेषु दीयमानं क्षयमेति।
Teacher's Note:
a) अङ्कयोजनानुसारं 'यत् भर्त्रा सदैव ...' इत्यतः '... क्षयमेति' पर्यन्तं कुण्डलायाः कथनम् उत्तरम् अस्ति।
b) मुख्यः भावः 'भर्त्रा सदैव भार्या भर्तव्या रक्षितव्या च' इति वाक्यम् अवश्यं लेखनीयम्।
(iii) पत्न्याः सहयोगः किमर्थम् अनिवार्यः? [1 Mark]
Answer: लक्ष्म्याः रक्षार्थं पत्न्याः सहयोगः अनिवार्यः।
Teacher's Note:
a) ऋतध्वजस्य द्वितीये कथने उत्तरम् अस्ति।
b) 'किमर्थम्' इति प्रश्नस्य उत्तरं 'लक्ष्म्याः रक्षार्थम्' अस्ति।
(इ) यथानिर्देशम् उत्तरत : (केवलं प्रश्नद्वयम्) [2 Marks]
(i) ‘सुपात्रेषु’ इति पदस्य विलोमपदं किं प्रयुक्तम्? [1 Mark]
Answer: कुपात्रेषु
Teacher's Note:
a) 'सु' (शोभनम्) इत्यस्य विपरीतः 'कु' (अशोभनम्) उपसर्गः अस्ति।
b) विलोमपदम् अपि सप्तमी-बहुवचने एव लेखनीयम्।
(ii) ‘पतिपत्न्यौ’ इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्? [1 Mark]
Answer: साधयतः
Teacher's Note:
a) "पतिपत्न्यौ त्रिवर्गं साधयतः" इत्यत्र कर्ता द्विवचने, क्रिया अपि प्रथमपुरुष-द्विवचने अस्ति।
b) कर्तृ-क्रिययोः वचनसाम्यं द्रष्टव्यम्।
(iii) ‘परस्परप्रीतिमतोः भवतोः’ इत्यनयोः पदयोः विशेषणपदं किम्? [1 Mark]
Answer: परस्परप्रीतिमतोः
Teacher's Note:
a) 'परस्परप्रीतिमतोः' इति पदं 'भवतोः' इत्यस्य गुणं बोधयति, अतः विशेषणम्।
b) 'भवतोः' विशेष्यम् अस्ति।
13. (क) अधोलिखितस्य पद्यस्य भावार्थं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत। [3 Marks]
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना।
आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी॥
भावार्थः
एकेन अपि (i) ............ विद्या सहितेन (ii) ............ च सम्पूर्णः वंशः तथैव प्रसन्नो भवति, यथा (iii) ............ रात्रिः प्रसन्ना भवति।
मञ्जूषा
चन्द्रेण, सुपुत्रेण, सज्जनेन।
Answer:
एकेन अपि (i) सुपुत्रेण विद्या सहितेन (ii) सज्जनेन च सम्पूर्णः वंशः तथैव प्रसन्नो भवति, यथा (iii) चन्द्रेण रात्रिः प्रसन्ना भवति।
Teacher's Note:
a) अङ्कयोजनानुसारं (i) (ii) इत्यत्र 'सुपुत्रेण' 'सज्जनेन' इति पदे परस्परं परिवर्त्य अपि लेखितुं शक्यते।
b) 'साधुना' इत्यस्य भावः 'सज्जनेन', 'शर्वरी' इत्यस्य भावः 'रात्रिः' अस्ति।
c) भावार्थं पूरयित्वा सम्पूर्णः पुनः लेखनीयः।
अथवा
(ख) प्रदत्तभावत्रयात् शुद्धं भावार्थं चित्वा लिखत। [3 Marks]
(अ) ‘भोजने चामृतं वारि भोजनान्ते विषप्रदम्’। [1 Mark]
(i) भोजनस्य मध्ये जलं अमृततुल्यं तथा भोजनस्य अन्ते विषतुल्यं भवति।
(ii) भोजनस्य मध्ये जलं विषतुल्यं तथा अन्ते अमृतम् इव भवति।
(iii) भोजनस्य मध्ये अन्ते च जलं विषयुक्तं भवति।
Answer: (i) भोजनस्य मध्ये जलं अमृततुल्यं तथा भोजनस्य अन्ते विषतुल्यं भवति।
Teacher's Note:
a) 'भोजने' = भोजनस्य मध्ये, 'अमृतम्' = अमृततुल्यम्, 'विषप्रदम्' = विषतुल्यम्।
b) (ii) विकल्पे अर्थः विपरीतः अस्ति, अतः सः अशुद्धः।
(आ) ‘मया दृढं परीक्षितोऽसि’। [1 Mark]
(i) मया त्वं परीक्ष्यसे।
(ii) अहं तव कठिनपरीक्षां कृतवान्।
(iii) मया पूर्वं त्वं दृष्टः असि।
Answer: (ii) अहं तव कठिनपरीक्षां कृतवान्।
Teacher's Note:
a) 'दृढं परीक्षितः' = कठिनपरीक्षा कृता, भूतकालः अस्ति।
b) (i) विकल्पे वर्तमानकालः अस्ति, अतः सः अशुद्धः।
(इ) ‘युधिष्ठिरस्य एषा एव चिन्तनसरणिः’। [1 Mark]
(i) तस्य ईदृशी प्रवृत्तिः नासीत्।
(ii) ज्येष्ठ-पाण्डुपुत्रस्य ईदृशी एव विचारधारा।
(iii) युधिष्ठिरस्य कुलपरंपरा ईदृशी एव।
Answer: (ii) ज्येष्ठ-पाण्डुपुत्रस्य ईदृशी एव विचारधारा।
Teacher's Note:
a) 'युधिष्ठिरः' = ज्येष्ठपाण्डुपुत्रः, 'चिन्तनसरणिः' = विचारधारा।
b) 'कुलपरंपरा' इति अर्थः मूले नास्ति, अतः (iii) अशुद्धः।
14. अधोलिखित-श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानानि मञ्जूषाप्रदत्त-शब्दानां सहायतया पूरयत। [3 Marks]
अक्षोभ्यः क्षोभितः केन लक्ष्मणो धैर्यसागरः।
येन रुष्टेन पश्यामि शताकीर्णमिवाग्रतः॥
अन्वयः
केन (i) ............ अक्षोभ्यः लक्ष्मणः (ii) ............ येन रुष्टेन (iii) ............ इव अग्रतः पश्यामि।
मञ्जूषा
शताकीर्णम्, क्षोभितः, धैर्यसागरः।
Answer:
केन (i) धैर्यसागरः अक्षोभ्यः लक्ष्मणः (ii) क्षोभितः येन रुष्टेन (iii) शताकीर्णम् इव अग्रतः पश्यामि।
Teacher's Note:
a) 'धैर्यसागरः' 'अक्षोभ्यः' च लक्ष्मणस्य विशेषणे स्तः, 'क्षोभितः' इति क्रियारूपं पदम्।
b) 'शताकीर्णमिवाग्रतः' इत्यस्य सन्धिविच्छेदः 'शताकीर्णम् + इव + अग्रतः'।
c) अन्वयं पूरयित्वा सम्पूर्णः पुनः लेखनीयः।
15. (क) ‘क’ स्तम्भस्य वाक्यानां ‘ख’ स्तम्भस्य उपयुक्तवाक्यैः सह मेलनं कुरुत। [4 Marks]
‘क’ स्तम्भः | ‘ख’ स्तम्भः
i. त्रिविधं नरकस्येदं | 1. वयं वा ननु तत् समम्।
ii. भरतो वा भवेद् राजा | 2. केवलं जन्महेतवः।
iii. स पिता पितरस्तासां | 3. करी च सिंहस्य बलं न मूषकः।
iv. पिको वसन्तस्य गुणं न वायसः | 4. द्वारं नाशनमात्मनः।
Answer:
i. त्रिविधं नरकस्येदं - 4. द्वारं नाशनमात्मनः।
ii. भरतो वा भवेद् राजा - 1. वयं वा ननु तत् समम्।
iii. स पिता पितरस्तासां - 2. केवलं जन्महेतवः।
iv. पिको वसन्तस्य गुणं न वायसः - 3. करी च सिंहस्य बलं न मूषकः।
Teacher's Note:
a) प्रत्येकं शुद्धमेलनाय एकः अङ्कः अस्ति।
b) 'पिको ... न वायसः' 'करी ... न मूषकः' इति उभयत्र समाना संरचना अस्ति, एतेन मेलनं सरलं भवति।
c) श्लोकस्य पूर्वार्धम् उत्तरार्धेन सह योजयित्वा स्मरणीयम्।
अथवा
(ख) अधोलिखित-वाक्येषु रेखाङ्कित-पदानां प्रसङ्गानुसारं शुद्धम् अर्थं मञ्जूषातः चित्वा लिखत। [4 Marks]
(i) असौ मया हतः शत्रुः।
(ii) विद्या ददाति विनयम् अत एव एवं भणसि।
(iii) नैकेनापि समं गता वसुमती।
(iv) त्यागाय संभृतार्थानाम् सत्याय मितभाषिणाम्।
मञ्जूषा
पृथ्वी, मारितः, अल्पभाषिणाम्, वदसि।
Answer:
(i) हतः - मारितः
(ii) भणसि - वदसि
(iii) वसुमती - पृथ्वी
(iv) मितभाषिणाम् - अल्पभाषिणाम्
Teacher's Note:
a) प्रत्येकं शुद्धार्थाय एकः अङ्कः अस्ति।
b) अर्थः मूलपदस्य समानलिङ्ग-विभक्ति-वचनः भवेत्, यथा 'मितभाषिणाम्' - 'अल्पभाषिणाम्' (षष्ठी-बहुवचनम्)।
खण्डः ‘घ’
(ii) संस्कृतसाहित्यस्य सामान्यपरिचयः - 10 अङ्काः
16. अधोलिखित-प्रश्नानाम् उत्तराणि लिखत। (केवलं प्रश्नत्रयम्) [3 Marks]
(i) ‘अनुशासनम्’ इति पाठः कस्मात् उपनिषदः संगृहीतः? [1 Mark]
Answer: तैत्तिरीयोपनिषदः
Teacher's Note:
a) 'अनुशासनम्' इति पाठः तैत्तिरीयोपनिषदः शिक्षावल्लीतः गृहीतः।
b) 'कस्मात्' इति प्रश्ने पञ्चमीविभक्तौ उत्तरं लेखनीयम्।
(ii) ‘प्रतिमानाटकम्’ इति ग्रन्थस्य रचयिता कः? [1 Mark]
Answer: महाकविः भासः
Teacher's Note:
a) प्रतिमानाटकं भासस्य रामकथाधारितं नाटकम् अस्ति।
b) कालिदासेन सह भासस्य नाम न मिश्रणीयम्।
(iii) ‘दौवारिकस्य निष्ठा’ इति पाठस्य रचयिता कः? [1 Mark]
Answer: पं. अम्बिकादत्त-व्यासः
Teacher's Note:
a) 'दौवारिकस्य निष्ठा' इति पाठः अम्बिकादत्तव्यासस्य 'शिवराजविजयः' इति उपन्यासात् गृहीतः।
b) लेखकस्य पूर्णं नाम शुद्धं लेखनीयम्।
(iv) ‘भोजप्रबन्धः’ इति पुस्तकात् कः पाठः संगृहीतः? [1 Mark]
Answer: नैकेनापि समं गता वसुमती
Teacher's Note:
a) 'नैकेनापि समं गता वसुमती' इति पाठः बल्लालसेनस्य भोजप्रबन्धात् सङ्कलितः।
b) पाठस्य नाम उद्धरणचिह्नयोः मध्ये पूर्णं लेखनीयम्।
17. मञ्जूषायां प्रदत्तशब्दानां साहाय्येन रिक्तस्थानानि पूरयित्वा लिखत। (केवलं प्रश्नत्रयम्) [3 Marks]
मञ्जूषा
पद्यकाव्यम्, कादम्बरी, पदलालित्यम्, गद्यपद्यमयम्।
(i) दण्डिनः ............ प्रसिद्धमस्ति। [1 Mark]
Answer: पदलालित्यम् (दण्डिनः पदलालित्यं प्रसिद्धमस्ति।)
Teacher's Note:
a) "दण्डिनः पदलालित्यम्" इति उक्तिः प्रसिद्धा अस्ति।
b) 'प्रसिद्धम्' नपुंसकलिङ्गम्, अतः 'पदलालित्यम्' (नपुंसकलिङ्गम्) उचितम्।
(ii) छन्दोयुक्ता रचना ............ कथ्यते। [1 Mark]
Answer: पद्यकाव्यम् (छन्दोयुक्ता रचना पद्यकाव्यं कथ्यते।)
Teacher's Note:
a) छन्दोबद्धं काव्यं पद्यकाव्यम्, छन्दोरहितं गद्यकाव्यं भवति।
b) 'गद्यपद्यमयम्' चम्पूकाव्यस्य लक्षणम् अस्ति, अतः अत्र न।
(iii) प्रसिद्धः उपन्यासकारः बाणभट्टः ............ ग्रन्थस्य रचयिता अस्ति। [1 Mark]
Answer: कादम्बरी (प्रसिद्धः उपन्यासकारः बाणभट्टः कादम्बरी ग्रन्थस्य रचयिता अस्ति।)
Teacher's Note:
a) कादम्बरी बाणभट्टस्य प्रसिद्धा गद्यरचना अस्ति।
b) बाणभट्टस्य अन्या रचना 'हर्षचरितम्' अपि स्मरणीया।
(iv) ............ काव्यं चम्पूः कथ्यते। [1 Mark]
Answer: गद्यपद्यमयम् (गद्यपद्यमयम् काव्यं चम्पूः कथ्यते।)
Teacher's Note:
a) "गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते" इति चम्पूकाव्यस्य लक्षणम्।
b) चम्पूकाव्ये गद्यं पद्यं च उभयम् अपि भवति।
18. समुचितं मेलयत : [4 Marks]
i. नाटकस्य प्रारम्भे | 1. विदूषकः
ii. हास्योत्पादकः | 2. दश
iii. काव्येषु | 3. नान्दी
iv. रूपकस्य भेदाः | 4. नाटकं रम्यम्
Answer:
i. नाटकस्य प्रारम्भे - 3. नान्दी
ii. हास्योत्पादकः - 1. विदूषकः
iii. काव्येषु - 4. नाटकं रम्यम्
iv. रूपकस्य भेदाः - 2. दश
Teacher's Note:
a) नाटकस्य आरम्भे मङ्गलाचरणरूपेण नान्दी भवति, विदूषकः हास्यं जनयति।
b) "काव्येषु नाटकं रम्यम्" इति प्रसिद्धा उक्तिः, रूपकस्य दश भेदाः भवन्ति।
Please click the link below to download pdf file of CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22
Free study material for Sanskrit
Practice Exam Question Papers for Class 12 Sanskrit Core CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22
Download CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22 for Class 12 Sanskrit Core
Review authentic examination papers for Class 12 Sanskrit Core. Working through the CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22 allows learners to decode recurring question trends and familiarize themselves with official CBSE evaluation standards.
Master Marking Schemes and Time Management
Reviewing official papers clarifies the exact marking scheme and structural layout established by the CBSE, enabling students to structure answers for maximum score potential.
Offline Revision & Comprehensive Study Material
Download digital copies of these papers for convenient offline revision anywhere. Cross-check your completed steps against our expert solution guides to ensure complete accuracy.
FAQs
The CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22 is available for download on StudiesToday.com. It includes complete set with all sections so that Class 12 students can practice with the exact same paper that came in the CBSE exams.
Yes, the solutions for CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22 are prepared by subject matter experts as per official marking scheme. Class 12 students will understand the structure of answers and 'step-marks' methodology Sanskrit Core.
Solving previous year papers like CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22 is important to understand repeat themes and question difficulty levels of Sanskrit Core. It helps Class 12 students to test their time management skills too.
Yes, where applicable, CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22 is available in both English and Hindi mediums. All students from Class 12 can access Sanskrit Core study material in their preferred language.
No, all previous year question papers on StudiesToday, including CBSE Class 12 Sanskrit (Core) Question Paper 2026 Solved Code 22, are provided free of charge in mobile-friendly PDF.