Download Class 9 Languages Practice Worksheets
Review targeted academic worksheets with the CBSE Class 9 Sanskrit Practice Worksheet Set 05. Built according to official educational standards for the 2026-27 term, these downloadable Class 9 Languages resources support effective daily practice and detailed self-evaluation for Sanskrit.
Access Sanskrit Practice Papers and Solutions
View or download the dedicated CBSE Class 9 Sanskrit Practice Worksheet Set 05 resource below. Engaging with these practice papers under focused study conditions ensures continuous academic progress and mastery of the 2026-27 curriculum for Sanskrit.
खण्डः (क) अपठित - अवबोधनम्
Question 1. अधोलिखितं अनुच्छेदं पठित्वा निर्देशानुसारं अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि लिखत-
भारतीयेषु पुराणेषु सर्वदेवमयी गौरित्युद्घोषित मास्ते । माता तु उत्पन्नस्य बालकं त्रिवर्षपर्यन्तमेव दुग्धं पाययति तदनन्तरं तु आजीवनं दुग्धं वयं गोरेव लभामहे । अतएव गौः मानवसमाजस्य धात्री अस्ति । अथर्ववेदे कथितमस्ति यत् गोमातुः शरीरे सर्वे देवाः निवसन्ति । आर्यसमाजस्य जनकः स्वामी दयानंदः 'गौ करुणानिधिः' इत्यस्मिन् पुस्तिकायाम् गोमहत्वं व्यज्ञापयत् । गोदुग्धं अमृतमिव भवति सर्वे जानन्ति एव गोमूत्रे "नाइट्रोक्स सल्फर, अमोनिया गैस ,तांबा, लोहा, आदयः तत्वाः भवन्ति । गोमूत्रेण असाध्याः रोगाः नश्यन्ति । पंचगव्यैः (दुग्ध, घृत, दधि, गोमय, गोमूत्र ) बहूनि उपचाराणि भवन्ति । अद्यापि भारतीयाः सर्वेषु धार्मिककार्येषु गवामेव दानं कुर्वन्ति अतएव गौः भारतस्य महत्वपूर्णा सम्पत्तिर्वर्तते । तस्याः गोसम्पत्तेः सुरक्षा भारतीयानामस्माकमावश्यकं कर्तव्यं वर्तते । यतोहि वयं जानीमः एव - 'गावो विश्वस्य मातरम्' ।
I. एकपदेन उत्तरत-
(i) बहूनि उपचाराणि कैः भवन्ति ?
(ii) 'गौ करुणानिधिः' पुस्तिकायाम् गोमहत्वं कः व्यज्ञापयत् ?
(iii) असाध्याः रोगाः केन नश्यन्ति ?
(iv) गौः मानवसमाजस्य का अस्ति ?
II. पूर्णवाक्येन उत्तरत-
(i) अथर्ववेदे किं कथितम् अस्ति ?
(ii) भारतीयेषु पुराणेषु किम् उद्घोषितमास्ते ?
III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i) गोमूत्रेण असाध्याः रोगाः नश्यन्ति । अस्मिन् वाक्ये विशेषणपदम् किम् ?
(a) गोमूत्रेण
(b) असाध्याः
(c) रोगाः
(d) नश्यन्ति
(ii) पुस्तिकायाम् पदे का विभक्तिः ?
(a) द्वितीया
(b) तृतीया
(c) सप्तमी
(d) सम्बोधन
(iii) 'निवसन्ति ' इति क्रियापदस्य किं कर्तृपदं अनुच्छेदे प्रयुक्तम् ?
(a) अथर्ववेदे
(b) गोमातुः
(c) शरीरे
(d) देवाः
(iv) साध्याः इत्यस्य किं विलोमपदं अनुच्छेदे प्रयुक्तम् ?
(a) असाध्यायाः
(b) असाध्याः
(c) धात्री
(d) गोमय,
IV. अस्य गद्यांशस्य समुचितं शीर्षकं किम् ?
(a) 'गौ करुणानिधिः'
(b) गोपालकः
(c) गोमहिमा
(d) गोमातुः शरीरे
Answer:
I. एकपदेन उत्तरत:
(i) पञ्चगव्यैः
(ii) स्वामी दयानन्दः
(iii) गोमूत्रेण
(iv) धात्री
II. पूर्णवाक्येन उत्तरत:
(i) अथर्ववेदे कथितम् अस्ति यत् गोमातुः शरीरे सर्वे देवाः निवसन्ति।
(ii) भारतीयेषु पुराणेषु 'सर्वदेवमयी गौः' इति उद्घोषितम् आस्ते।
III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरम्:
(i) (b) असाध्याः
(ii) (c) सप्तमी
(iii) (d) देवाः
(iv) (b) असाध्याः
IV. समुचितं शीर्षकम्:
(c) गोमहिमा
In simple words: गाय सम्पूर्ण मानव जाति के लिए माता के समान कल्याणकारी है, इसलिए भारतीय संस्कृति में गाय का अत्यधिक धार्मिक और चिकित्सकीय महत्व माना गया है।
Exam Tip: एकपदेन उत्तर वाले प्रश्नों में केवल एक शब्द ही लिखें और पूर्णवाक्येन उत्तर देते समय गद्यांश से सटीक वाक्य चुनकर व्याकरण के अनुसार शुद्ध लिखें।
खण्डः 'ख' रचनात्मकं कार्यम्
Question 2. संगणककक्षायां प्रवेशं प्राप्तुं प्रधानाचार्यं प्रति एकं प्रार्थनापत्रं । लिखिते प्रार्थनापत्रे रिक्तस्थानानि उचितपदैः पूरयत्-
देववाणी भवनम्
तिथिः ................
1................................ प्रधानाचार्यवर्याः
2 ....................................,
सविनयं निवेदयामि यत् अहं 3..................... कक्षायां 90 प्रतिशतअंकान् गृहीत्वा उत्तीर्णः जातः । अधुना अहं 4................................ प्रवेष्टुम् इच्छामि । गणितविषये तु 5................ सर्वदा शतप्रतिशतम् 6.................. गृह्यन्ते । अद्यत्वे सर्वेषु कार्येषु 7.................... अनिवार्यम् । कृपया महम् 8.................. प्रदाय 9................. माम् अनुगृह्णन्तु । 10...................
प्रार्थी
अ. ब. स.
मंजूषा - मान्याः, सधन्यवादम्, आदरणीयाः, स्वीकृतिं, अंकाः, संगणककक्षायां, दशम, मया, संगणकम्, भवन्तः
Answer:
1. आदरणीयाः
2. मान्याः
3. दशम
4. संगणककक्षायां
5. मया
6. अंकाः
7. संगणकम्
8. स्वीकृतिं
9. भवन्तः
10. सधन्यवादम्
In simple words: कंप्यूटर कक्षा में प्रवेश की अनुमति के लिए प्रधानाचार्य जी को पत्र लिखते समय दिए गए मंजूषा के उचित शब्दों से रिक्त स्थानों को भरा गया है।
Exam Tip: पत्र-लेखन में मंजूषा से शब्द भरते समय वाक्य के लिंग, वचन और कारक का ध्यान अवश्य रखें ताकि पत्र व्याकरण की दृष्टि से सही रहे।
Question 3. मंजूषायां प्रदत्त-शब्दानां सहायतया चित्रं दृष्ट्वा चत्वारि वाक्यानि संस्कृतेन लिखत्-
मंजूषा - क्रीडन्ति, पादकन्दुकम्, पक्षिणः, आनन्दवर्धकः, शशकः, वृक्षाः, कूर्दति, पठति, वातावरणं, केका, सावधानाः
अथवा
स्वविद्यालये भवता/भवत्या प्रथमवारं संस्कृतनाटकस्य आयोजनं कृतम् । स्वमनोदशां वर्णयन् पंच वाक्यानि संस्कृतेन मंजूषापदसहायतया लिखतु ।
मंजूषा - मार्गदर्शननेन, चित्तं, व्याकुलं, अभिनयं, अतीव, साधु, आत्मविश्वासः, जागृतः, करतलध्वनिं, प्रसन्नाः, आदेशेन
Answer:
चित्रवर्णनम्:
(i) अस्मिन् चित्रे बालकाः पादकन्दुकम् क्रीडन्ति।
(ii) उपवने अनेके वृक्षाः सन्ति तथा वृक्षे एकः वानरः कूर्दति।
(iii) उद्याने एका बालिका शान्तचित्तेन पुस्तकं पठति।
(iv) उपवनस्य वातावरणं अतीव आनन्दवर्धकः अस्ति, तृणे च एकः शशकः दृश्यते।
अथवा (संस्कृतनाटकस्य आयोजनम्):
(i) गुरोः मार्गदर्शनेन आदेशेन च वयं विद्यालये संस्कृतनाटकस्य सफलम् आयोजनम् अकुर्म।
(ii) कार्यक्रमस्य आरम्भे मम चित्तं किञ्चित् व्याकुलं आसीत्।
(iii) मञ्चे सर्वे छात्राः अतीव साधु अभिनयं कृतवन्तः।
(iv) बालकानाम् अभिनयं दृष्ट्वा उपस्थिताः दर्शकाः शिक्षकाः च प्रसन्नाः अभवन्।
(v) दर्शकानां करतलध्वनिं श्रुत्वा मम मनसि दृढः आत्मविश्वासः जागृतः।
In simple words: चित्र को देखकर मंजूषा के शब्दों की मदद से छोटे और स्पष्ट संस्कृत वाक्य बनाए गए हैं।
Exam Tip: चित्रवर्णन में कर्ता और क्रिया के पुरुष तथा वचन का मेल सही रखें; सरल वाक्यों के निर्माण से गलतियों की सम्भावना न्यूनतम हो जाती है।
खण्डः 'ग' अनुप्रयुक्त व्याकरणम्
Question 4. अधोलिखितप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायां लिखत ।
(i) 'ज'वर्णस्य उच्चारणस्थानं किम् अस्ति ?
(a) कण्ठः
(b) दन्ताः
(c) तालुः
(d) मूर्धा
(ii) निम्नवर्णेषु कः वर्णः कण्ठ्यः अस्ति ?
(a) ग्
(b) च्
(c) ट्
(d) प्
(iii) प्रदत्तविकल्पेभ्यः उचितम् उत्तरम् चित्वा रिक्तस्थानं पूरयत ।
कार्यम् = क् + आ + ...... + य् + अ म्
(a) र्
(b) र
(c) र्य
(d) य
(iv) प्रदत्तविकल्पेभ्यः उचितम् उत्तरम् चित्वा वर्णसंयोजनं कुरु ।
ग् + अ + च् + छ् + अ + स् + इ
(a) गच्छसि
(b) गछ्छसि
(c) गच्छसी
(d) गच्छस्
Answer:
(i) (c) तालुः
(ii) (a) ग्
(iii) (a) र्
(iv) (a) गच्छसि
In simple words: संस्कृत वर्णमाला के उच्चारण स्थानों के नियमों तथा वर्ण विच्छेद एवं वर्ण संयोजन के नियमों के अनुसार सही विकल्प चुने गए हैं।
Exam Tip: 'इचुयशानां तालुः' और 'अकुहविसर्जनीयानां कण्ठः' जैसे उच्चारण सूत्रों को याद रखें; वर्णसंयोजन में हलन्त और स्वर की मात्रा का विशेष ध्यान रखें।
Question 5. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा संधिं संधिच्छेदं वा कुरुत् -
(i) सः प्रतिदिनं देवालयं गच्छति ।
(a) देवा + लयं
(b) देवाः + लयं
(c) देव + लयं
(d) देव + आलयं
(ii) रमेशः असत्यं न वदति ।
(a) रम + ऐषः
(b) रम + एषः
(c) रमा + ईशः
(d) रमा + एषः
(iii) अचिरेण + एव कालेन त्वया यशः अर्जितः।
(a) अचिरेणेव
(b) अचिरेणैव
(c) अचिरेणिव
(d) अचिरेणाइव
(iv) अतिथीनां गृहे सर्वदा सु + आगतं करणीयम्।
(a) सु + आगतं
(b) स्वागतं
(c) स्व + आगतं
(d) स्वा + गतं
(v) सूर्योदये सूर्यार्घ्यं अवश्यं दातव्यम्।
(a) सूर्यो + दये
(b) सूर्योदय + ऐ
(c) सूर्य + उदये
(d) सूर्योदय + अये
(vi) सुधे! कथं त्वं विलम्बादागता ?
(a) विलम्बा + दागता
(b) विलम्बादाग + ता
(c) विलम्बात + अगता
(d) विलम्बात् + आगता
(vii) वने मृगाश्चरन्ति ।
(a) मृगाः + चरन्ति
(b) मृगाश्च + रन्ति
(c) मृगाञ्चरन्त + इ
(d) मृगा + श्चरन्ति
(viii) अहं सम्प्रति जंगमदूरवाण्या वार्तालापे तत् + लीनः अस्मि ।
(a) तल्लीनः
(b) तत्लीनः
(c) तद्लीनः
(d) तलीनः
(ix) बालस्तत्र पठति ।
(a) बालस् + तत्र
(b) बालस्त + त्र
(c) बाल + स्तत्र
(d) बालः + तत्र
(x) विद्यार्थिनः ब्राह्ममुहूर्ते उत्तिष्ठन्ति ।
(a) विद्या + र्थिनः
(b) विद्या + अर्थिनः
(c) विद्यार्थि + नः
(d) विद्यार् + थीनः
Answer:
(i) (d) देव + आलयं
(ii) (c) रमा + ईशः
(iii) (b) अचिरेणैव
(iv) (b) स्वागतं
(v) (c) सूर्य + उदये
(vi) (d) विलम्बात् + आगता
(vii) (a) मृगाः + चरन्ति
(viii) (a) तल्लीनः
(ix) (d) बालः + तत्र
(x) (b) विद्या + अर्थिनः
In simple words: स्वर सन्धि, व्यञ्जन सन्धि और विसर्ग सन्धि के नियमों के अनुसार पदों का सही सन्धि अथवा सन्धि-विच्छेद किया गया है।
Exam Tip: सन्धि विच्छेद करते समय दोनों खण्डों के सार्थक अर्थ होने चाहिए, जैसे 'रमा + ईशः = रमेशः' और 'विद्या + अर्थिनः = विद्यार्थिनः'।
Question 6. अधोलिखितेषु उचितम्विभक्तिपदं चित्वा वाक्यपूर्तिं कुरुत् -
(i) ....................नाम किम् ?
(a) त्वं
(b) तव
(c) त्वम्
(d) तुभ्यम्
(ii) गीता .............................अस्ति ।
(a) महाभारतस्याः
(b) महाभारतम्
(c) महाभारते
(d) महाभारताः
(iii) .......................................अत्र आगच्छ।
(a) बालकात्
(b) हे बालको
(c) हे बालकः
(d) हे बालक!
(iv) ............................ प्रमादं न करणीयम्।
(a) स्वाध्यायात्
(b) स्वाध्याया
(c) स्वाध्यायेन
(d) स्वाध्यायम्
(v) जयतु ............................ वन्दे मातरम्।
(a) भारतं
(b) भारतौ
(c) भारतस्य
(d) भारते
(vi) सदा वदाम ..................................... ?
(a) संस्कृतौ
(b) संस्कृतस्य
(c) संस्कृत
(d) संस्कृतम्
(vii) वने ......................... चरन्ति ।
(a) मृगौ
(b) मृगः
(c) मृगाः
(d) मृगा
(viii) माता ...................... गच्छति ।
(a) मंदिरं
(b) मंदिरः
(c) मंदिरेण
(d) मंदिरात्
(ix) ...................... आज्ञा हि अविचारणीया ।
(a) गुरुम्
(b) गुरौ
(c) गुरूः
(d) गुरूणाम्
(x) वृक्षात् ...................... पतन्ति ।
(a) पत्राः
(b) पत्राणि
(c) पत्रम्
(d) पत्राणाम्
Answer:
(i) (b) तव
(ii) (c) महाभारते
(iii) (d) हे बालक!
(iv) (a) स्वाध्यायात्
(v) (a) भारतं
(vi) (d) संस्कृतम्
(vii) (c) मृगाः
(viii) (a) मंदिरं
(ix) (d) गुरूणाम्
(x) (b) पत्राणि
In simple words: वाक्यों के अर्थ और कारक विभक्ति के नियमों के अनुसार उचित शब्द रूप चुनकर रिक्त स्थान भरे गए हैं।
Exam Tip: कारक चिह्नों को पहचानें; जैसे 'प्रमाद' के योग में पञ्चमी (स्वाध्यायात्) तथा क्रियापद 'चरन्ति' बहुवचन होने से कर्ता भी बहुवचन (मृगाः) होगा।
Question 7. अधः प्रदत्तः उचितैः धातु Spark/रूपैः रिक्तस्थानानि पूरयत् -
(i) त्वम् कुत्र ..................................... ?
(a) पठति
(b) पठतः
(c) पठसि
(d) पठामि
(ii) ते गुरुजनान् ................................ ।
(a) पूजयतु
(b) पूजयते
(c) पूज्यते
(d) पूज्यन्ते
(iii) बालकः तत्र ......................................।
(a) गच्छति
(b) गच्छतः
(c) गच्छन्ति
(d) गच्छसि
(iv) अमृतः प्रतिदिनं आचार्यप्रणामं ....................... ।
(a) कुर्वन्ति
(b) कुरुथ
(c) कुर्मः
(d) करोति
(v) पिता पुत्राय ..............................।
(a) क्रुध्यति
(b) क्रुध्यसि
(c) क्रुध्यन्ति
(d) क्रुध्यतः
(vi) अद्य अहं परीक्षां ..................... ?
(a) दास्यामि
(b) दास्यावः
(c) दास्यामः
(d) दास्या
(vii) वने रामसीतालक्ष्मणाः .................................. ।
(a) अवसत
(b) अवसताम्
(c) अवसन्
(d) अवसम्
(viii) माता जनकेन सह मंदिरं ............................ ।
(a) अगच्छ
(b) अगच्छन्
(c) अगच्छताम्
(d) अगच्छत्
(ix) पाचकः भोजनं ................................... ।
(a) पक्ष्यसि
(b) पक्ष्यति
(c) पक्ष्यामि
(d) पक्ष्यन्ति
(x) रामलक्ष्मणौ वने .....................................।
(a) अभ्रमत्
(b) अभ्रमन्
(c) अभ्रमताम्
(d) अभ्रमन्ति
Answer:
(i) (c) पठसि
(ii) (d) पूज्यन्ते
(iii) (a) गच्छति
(iv) (d) करोति
(v) (a) क्रुध्यति
(vi) (a) दास्यामि
(vii) (c) अवसन्
(viii) (d) अगच्छत्
(ix) (b) पक्ष्यति
(x) (c) अभ्रमताम्
In simple words: वाक्य के कर्ता के पुरुष (प्रथम, मध्यम, उत्तम) और वचन (एकवचन, द्विवचन, बहुवचन) के अनुसार क्रियापद का उचित रूप चुना गया है।
Exam Tip: कर्ता के अनुसार क्रिया निर्धारित करें; जैसे 'त्वम्' के साथ मध्यम पुरुष एकवचन (पठसि), 'अहम्' के साथ उत्तम पुरुष एकवचन (दास्यामि) तथा द्विवचन कर्ता के साथ द्विवचन क्रिया (अभ्रमताम्)।
Question 8. प्रदत्तविकल्पेभ्यः उचितम् पदं चित्वा रिक्तस्थानानि पूरयत -
(vi) बालकाः ............................... परितः क्रीडन्ति ?
(a) वृक्षः
(b) वृक्षम्
(c) वृक्षस्य
(d) वृक्षे
(vii) बालकः ...........................सह विद्यालयं गच्छति।
(a) मित्रस्य
(b) मित्रम्
(c) मित्रात्
(d) मित्रेण
(viii) ओ३म् ......................... स्वाहा ।
(a) इन्द्रेन
(b) इन्द्राभिः
(c) इन्द्रस्य
(d) इन्द्राय
(ix) मूषकः ......................बिभेति ।
(a) विडालात्
(b) विडालेन
(c) विडालस्य
(d) विडाले
(x) तस्मै श्री .............................नमः ।
(a) गुरुम्
(b) गुरूवे
(c) गुरुवे
(d) गुरवे
Answer:
(vi) (b) वृक्षम्
(vii) (d) मित्रेण
(viii) (d) इन्द्राय
(ix) (a) विडालात्
(x) (d) गुरवे
In simple words: उपपद विभक्ति के नियमों के अनुसार विशिष्ट शब्दों (परितः, सह, स्वाहा, भी, नमः) के साथ निश्चित विभक्तियों का प्रयोग किया जाता है।
Exam Tip: प्रमुख उपपद विभक्तियाँ याद रखें: 'परितः' के योग में द्वितीया, 'सह' के योग में तृतीया, 'नमः' और 'स्वाहा' के योग में चतुर्थी तथा 'भी' (डरना) के योग में पञ्चमी विभक्ति लगती है।
Question 9. प्रदत्तविकल्पेभ्यः उचितम् पदं चित्वा रिक्तस्थानानि पूरयत -
(a) छात्राः जन्तुशालां गम् + तुमुन् इच्छन्ति ।
(a) गच्छतुम्
(b) गच्छितुम्
(c) गमितुम्
(d) गन्तुम्
(b) छात्रः नत्वा गुरुं प्रणमति ।
(a) नम् + क्त्वा
(b) नम् + ल्यप्
(c) नम् + शतृ
(d) नम् + क्त
(c) सज्जनाः विचार्य एव कार्यं कुर्वन्ति ।
(a) वि + चर् + र्य
(b) वि + चर् + य
(c) वि + चार् + ल्यप्
(d) वि + चर् + ल्यप्
(d) अर्जुनः योद्धुम् उद्यतः अस्ति ।
(a) युध् + तुमुन्
(b) युध् + उम्
(c) युध् + शतृ
(d) युध् + शानच्
(e) प्रणवः गम् + क्त्वा फलानि आनयति ।
(a) गच्छितुम्
(b) गत्वा
(c) गच्छित्वा
(d) गन्तुम्
(f) सर्पः उप + सृ + ल्यप् बालकं पश्यति ।
(a) उपसृत्य
(b) उपसृत्यप्
(c) उपसृत
(d) उपसृल्य
Answer:
(a) (d) गन्तुम्
(b) (a) नम् + क्त्वा
(c) (d) वि + चर् + ल्यप्
(d) (a) युध् + तुमुन्
(e) (b) गत्वा
(f) (a) उपसृत्य
In simple words: धातु और प्रत्ययों (क्त्वा, ल्यप्, तुमुन्) के संयोजन और वियोग के नियमों का प्रयोग करके सही पद चुने गए हैं।
Exam Tip: जब धातु से पूर्व उपसर्ग लगा हो तो 'क्त्वा' के स्थान पर 'ल्यप्' प्रत्यय जुड़ता है, जैसे 'वि + चर् + ल्यप् = विचार्य' और 'उप + सृ + ल्यप् = उपसृत्य'।
खण्डः 'घ' (पठित-अवबोधनम्)
Question 10. अधोलिखितं गद्यांशं पद्यांशं नाट्यांशं च पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
(अ) गद्यांशः
महर्षेः आरुणेः पुत्रः श्वेतकेतुः आसीत्। द्वादशवर्षीयं तं पुत्रं पिता आरुणिः उवाच- हे श्वेतकेतो! गुरुं प्रति गच्छ अध्ययनार्थं यतः सौम्य! अस्मत्कुलीनः अनधीत्य न भवति इति। सः पुत्रः आचार्यम् उपेत्य यावत् चतुर्विंशतिवर्षः अभवत् तावत् सः सर्वान् वेदान् सार्थान् अधीत्य पितुः सकाशम् आगच्छत्। सः च 'सर्वश्रेष्ठः अहम्' इति मन्यमानः उद्धतस्वभावः अभवत्।
प्रश्नाः-
I. एकपदेन उत्तरत।
(i) श्वेतकेतुः आचार्यम् उपेत्य किम् अधीतवान्?
(ii) अध्ययनं कृत्वा कः उद्धतस्वभावः अभवत्?
II. पूर्णवाक्येन उत्तरत
(i) श्वेतकेतुः कतिवर्षीयः भूत्वा पितुः सकाशम् आगच्छत्?
III. उचितम् उत्तरम् चित्वा लिखत-
(i) 'अधीत्य' इति पदस्य किम् विलोमपदम् गद्यांशे प्रयुक्तम्?
(a) सार्थान्
(b) अनधीत्य
(c) उपेत्य
(d) उद्धतः
(ii) सार्थान् इति पदस्य अनुच्छेडे विशेष्यपदम् किम्?
(a) ग्रन्थान्
(b) आचार्यान्
(c) सर्वान्
(d) वेदान्
(आ) पद्यांशः-
काष्ठादग्निर्जायते मथ्यमानाद्
भूमिस्तोयं खन्यमाना ददाति।
सोत्साहानां नास्त्यसाध्यं नराणां
मार्गारब्धाः सर्वयत्नाः फलन्ति॥
प्रश्नाः-
I. एकपदेन उत्तरत।
(i) कीदृशां नराणां कृते किमपि असाध्यं नास्ति?
(ii) कीदृशाः यत्नाः फलन्ति।
II. पूर्णवाक्येन उत्तरत।
अग्निः कीदृशात् काष्ठात् जायते?
III. उचितम् उत्तरम् चित्वा लिखत-
(i) 'फलन्ति' इति क्रियापदस्य कर्तृपदम् किम्?
(a) अग्निः
(b) भूमिः
(c) मार्गारब्धाः
(d) सर्वयत्नाः
(ii) 'जलम्' इति पदस्य पर्यायपदम् पद्यांशे किम् अस्ति?
(a) तोयम्
(b) वारि
(c) अम्बुदम्
(d) सलिलम्
(इ) नाट्यांशः-
रामः- मे शापितो न परिरक्षसि चेत् स्वराज्यम्।
भरतः- हन्त! अनुत्तरम् अभिहितम्। भवतु, समयतः ते राज्यं परिपालयामि।
रामः- वत्स! कः समयः?
भरतः- मम हस्ते निक्षिप्तं तव राज्यं चतुर्दशवर्षान्ते प्रतिग्रहीतुम् इच्छामि।
रामः- एवमस्तु।
भरतः- आर्य! अन्यमपि वरं हर्तुम् इच्छामि।
रामः- वत्स! किमिच्छसि? किमहं ददामि?
भरतः- पादोपभुक्ते तव पादुके मे एते प्रयच्छ।
प्रश्नाः-
I. एकपदेन उत्तरत।
(i) कः अन्यम् अपि वरं हर्तुम् इच्छति?
(ii) रामः भरतं किम् परिरक्षितुम् कथयति?
II. पूर्णवाक्येन उत्तरत।
(i) भरतः रामं किं दातुं प्रार्थितवान्।
III. उचितम् उत्तरम् चित्वा लिखत-
(i) 'ग्रहीतुम्' इति पदस्य किम् विलोमपदम् अत्र अस्ति?
(a) निक्षिप्तम्
(b) अभिहितम्
(c) प्रतिग्रहीतुम्
(d) हर्तुम्
(ii) अस्मिन् नाट्यांशे 'वत्स!' इति सम्बोधनपदम् कस्मै प्रयुक्तम्?
(a) सीतायै
(b) भरताय
(c) रामाय
(d) सुमन्त्राय
Answer:
(अ) गद्यांश-आधारित-उत्तराणि:
I. (i) सर्वान् वेदान्
(ii) श्वेतकेतुः
II. (i) श्वेतकेतुः चतुर्विंशतिवर्षः भूत्वा पितुः सकाशम् आगच्छत्।
III. (i) (b) अनधीत्य
(ii) (d) वेदान्
(आ) पद्यांश-आधारित-उत्तराणि:
I. (i) सोत्साहानाम्
(ii) मार्गारब्धाः
II. अग्निः मथ्यमानात् काष्ठात् जायते।
III. (i) (d) सर्वयत्नाः
(ii) (a) तोयम्
(इ) नाट्यांश-आधारित-उत्तराणि:
I. (i) भरतः
(ii) स्वराज्यम्
II. (i) भरतः रामं पादोपभुक्ते पादुके दातुं प्रार्थितवान्।
III. (i) (a) निक्षिप्तम्
(ii) (b) भरताय
In simple words: पठित पाठों के गद्यांश, पद्यांश और नाट्यांश को पढ़कर उन पर आधारित प्रश्नों के उत्तर संस्कृत में दिए गए हैं।
Exam Tip: भाषिक कार्य में कर्तृपद, क्रियापद, विशेषण-विशेष्य तथा विलोम शब्दों की पहचान अनुच्छेद के सन्दर्भ के अनुसार ही करें।
Question 11. अधोलिखितश्लोकयोः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत।
(क) स जातो येन जातेन याति वंशः समुन्नतिम्।
परिवर्तिनि संसारे मृतः को वा न जायते॥
भावार्थः- अयम् संसारः (i) ............................ अस्ति। अत्र प्रतिदिनम् अनेके जनाः जायन्ते (ii) ............................ च, परम् यस्य नरस्य (iii) ............................ वंशस्य गौरवं वर्धते, तस्य जन्म एव (iv) ............................ भवति।
(ख) वरमेको गुणी पुत्रो न च मूर्खशतान्यपि।
एकश्चन्द्रस्तमो हन्ति न च तारागणैरपि॥
भावार्थः- गुणवान् पुत्रः एकः एव सर्वेषु पुत्रेषु (v) ............................ भवति शतानि अपि (vi) ............................ पुत्राः न। यथा एकः एव चन्द्रमा (vii) ............................ नाशयति न तु (viii) ............................ तारकाणाम् समूहः।
मञ्जूषा - अन्धकारम्, परिवर्तनशीलः, मूर्खाः, जन्मना, सार्थकम्, श्रेष्ठः, म्रियन्ते, अनेकेषाम्
Answer:
(क)
(i) परिवर्तनशीलः
(ii) म्रियन्ते
(iii) जन्मना
(iv) सार्थकम्
(ख)
(v) श्रेष्ठः
(vi) मूर्खाः
(vii) अन्धकारम्
(viii) अनेकेषाम्
In simple words: श्लोक के भाव को समझते हुए मंजूषा में दिए गए उपयुक्त शब्दों से भावार्थ के रिक्त स्थानों की पूर्ति की गई है।
Exam Tip: भावार्थ रिक्त स्थान भरते समय पहले पूरे वाक्य का अर्थ समझें, जिससे सही पद का चयन स्वतः स्पष्ट हो जाता है।
Question 12. निम्नलिखित श्लोकयोः अन्वयं मञ्जूषातः समुचितं पदं चित्वा पूरयत।
(क) सुचिरेणापि कालेन यशः किञ्चिन्मयार्जितम्।
अचिरेणैव कालेन भरतेनाद्य सञ्चितम्॥
अन्वयः- मया (i) ............................ कालेन अपि किञ्चित् (ii) ............................ अर्जितम्, भरतेन (तु) (iii) ............................ अचिरेण कालेन एव (यशः) (iv) ............................।
(ख) गच्छन् पिपीलको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥
अन्वयः- पिपीलकः अपि (v) ............................ योजनानां शतानि (vi) ............................। अगच्छन् वैनतेयः (vii) ............................ पदम् अपि (viii) ............................ गच्छति।
Answer:
(क)
(i) सुचिरेण
(ii) यशः
(iii) अद्य
(iv) सञ्चितम्
(ख)
(v) गच्छन्
(vi) याति
(vii) अपि
(viii) एकम्
In simple words: श्लोकों के पदों को गद्य क्रम (अन्वय) के अनुसार व्यवस्थित करके रिक्त स्थानों को भरा गया है।
Exam Tip: अन्वय में श्लोक के मूल शब्दों को ही कर्ता, कर्म और क्रिया के क्रम में सजाया जाता है; श्लोक को ध्यानपूर्वक पढ़कर छूटे हुए शब्दों को भरें।
Question 13. रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(i) वयं पर्युषितम् अन्नम् न खादेम।
(ii) नरः अतिथीनां पूजकः स्यात्।
(iii) भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् आसीत्।
(iv) महान् भवितुम् सत्संगतिः अपेक्षिता।
Answer:
(i) वयं कीदृशम् अन्नम् न खादेम ?
(ii) नरः केषां पूजकः स्यात् ?
(iii) कुत्र पाटलिपुत्रनामधेयं नगरम् आसीत् ?
(iv) महान् भवितुम् का अपेक्षिता ?
In simple words: रेखांकित शब्दों के लिंग, वचन और विभक्ति के आधार पर 'किम्' शब्द के रूपों तथा प्रश्नवाचक अव्ययों (कीदृशम्, कुत्र आदि) का प्रयोग करके प्रश्न बनाए गए हैं।
Exam Tip: प्रश्ननिर्माण करने के बाद वाक्य के अन्त में प्रश्नवाचक चिह्न (?) अवश्य लगाएँ, अन्यथा अंक काटे जा सकते हैं।
Question 14. अधोलिखितवाक्यानि कथाक्रमेण संयोज्य लिखत।
(i) बालस्य रक्षायै नियुक्तः नकुलः बालकम् उपसरन्तम् एकं सर्पम् अपश्यत्।
(ii) एकदा राजा श्राद्धार्थं तं ब्राह्मणम् निमन्त्रितम् अकरोत्।
(iii) श्राद्धकार्यात् प्रतिनिवृत्तः ब्राह्मणः रक्तविलिप्तम् नकुलम् अपश्यत्।
(iv) उज्जयिन्याम् माधवः नाम विप्रः वसति स्म।
(v) गमनात् पूर्वम् ब्राह्मणः स्वपालितम् नकुलम् एकाकिनः बालस्य रक्षार्थम् नियुक्तम् अकरोत्।
(vi) रक्तविलिप्तम् नकुलं दृष्ट्वा ब्राह्मणः “अनेन मे बालकः खादितः” इति मत्वा तम् अमारयत्।
(vii) गृहस्य अन्तः गत्वा, बालकम् स्वस्थम् सर्पम् च हतं दृष्ट्वा सः अतीव दुःखी अभवत्।
(viii) सर्पं मारयन् नकुलः तस्य रक्तेन विलिप्तमुखः जातः।
Answer:
कथाक्रमानुसारं वाक्यानि:
1. (iv) उज्जयिन्याम् माधवः नाम विप्रः वसति स्म।
2. (ii) एकदा राजा श्राद्धार्थं तं ब्राह्मणम् निमन्त्रितम् अकरोत्।
3. (v) गमनात् पूर्वम् ब्राह्मणः स्वपालितम् नकुलम् एकाकिनः बालस्य रक्षार्थम् नियुक्तम् अकरोत्।
4. (i) बालस्य रक्षायै नियुक्तः नकुलः बालकम् उपसरन्तम् एकं सर्पम् अपश्यत्।
5. (viii) सर्पं मारयन् नकुलः तस्य रक्तेन विलिप्तमुखः जातः।
6. (iii) श्राद्धकार्यात् प्रतिनिवृत्तः ब्राह्मणः रक्तविलिप्तम् नकुलम् अपश्यत्।
7. (vi) रक्तविलिप्तम् नकुलं दृष्ट्वा ब्राह्मणः “अनेन मे बालकः खादितः” इति मत्वा तम् अमारयत्।
8. (vii) गृहस्य अन्तः गत्वा, बालकम् स्वस्थम् सर्पम् च हतं दृष्ट्वा सः अतीव दुःखी अभवत्।
In simple words: पंचतंत्र की नेवले और ब्राह्मण की प्रसिद्ध कथा की घटनाओं को उनके सही कालक्रम में व्यवस्थित किया गया है।
Exam Tip: कथाक्रम संयोजन में पूरी कहानी के कथानक को मन में याद रखें तथा सभी वाक्यों को सही क्रम संख्या के साथ पुनः लिखें।
Question 15. प्रसङ्गानुसारम् रेखाङ्कितपदानां उचितम् अर्थम् चित्वा लिखत-
(i) यदि सत्वरम् न गच्छामि तदा अन्यः कश्चित् श्राद्धार्थं वृतः भवेत्।
(a) शीघ्रम्
(b) शनैः
(c) सततम्
(d) सदैव
(ii) नक्तम् दधि न भुञ्जीत।
(a) प्रभाते
(b) सायंकाले
(c) मध्याह्ने
(d) रात्रौ
(iii) पञ्चेन्द्रियद्रव्याणि खं वायुः ज्योतिः आपो भूः इति।
(a) इन्द्रियम्
(b) सुखम्
(c) आकाशः
(d) 'ख' इति वर्णः
(iv) न दुष्टयानानि आरोहेत्।
(a) विकृतानि वाहनानि
(b) दुर्जनानाम् वाहनानि
(c) दूषितानि स्थानानि
(d) दुष्टैः सह यानानि
Answer:
(i) (a) शीघ्रम्
(ii) (d) रात्रौ
(iii) (c) आकाशः
(iv) (a) विकृतानि वाहनानि
In simple words: वाक्यों के प्रसंग के अनुसार रेखांकित कठिन संस्कृत शब्दों के समानार्थक शब्द चुने गए हैं।
Exam Tip: पाठ्यपुस्तक के शब्दार्थों का नियमित अभ्यास करें, जिससे परीक्षा में रेखांकित शब्दों के सही पर्याय चुनने में आसानी हो।
Free CBSE Practice Worksheets: Class 9 Languages Sanskrit
Daily Practice Questions for Class 9 Languages
Access structured practice worksheets for Sanskrit aligned with the 2026 CBSE curriculum. These downloadable exercises for Class 9 Languages help students build accuracy and reinforce core concepts for upcoming school tests.
Detailed Answers for Class 9 Languages Sanskrit
Built using official NCERT guidelines for Class 9 Languages, these practice sheets provide reliable academic support. Cross-reference your completed work with our detailed solutions to learn standard answer-writing formats for CBSE exams.
Complete Your Chapter Revision
Wrap up your chapter revision by testing your knowledge against standard objective question formats. Explore our full library of free, up-to-date printable assignments to maximize your academic results in upcoming CBSE evaluations.
FAQs
You can download the latest chapter-wise printable worksheets for Class 9 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.
Yes, Class 9 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.
Yes, we have provided solved worksheets for Class 9 Languages Sanskrit to help students verify their answers instantly.
Yes, our Class 9 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.
For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.