CBSE Class 9 Sanskrit Practice Worksheet Set 01

Download Class 9 Languages Practice Worksheets

Access comprehensive chapter-wise worksheets for Sanskrit using the CBSE Class 9 Sanskrit Practice Worksheet Set 01. Designed to align with the 2026-27 academic syllabus for Class 9 Languages, these printable practice sets help students reinforce key concepts and improve their overall exam readiness.

Access Sanskrit Practice Papers and Solutions

View or download the dedicated CBSE Class 9 Sanskrit Practice Worksheet Set 01 resource below. Engaging with these practice papers under focused study conditions ensures continuous academic progress and mastery of the 2026-27 curriculum for Sanskrit.

खण्डः 'क' - अपठित-अवबोधनम्

 

Question 1. अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
सर्वे जानन्ति यत् द्विसहस्रैकतमवर्षस्य गणतंत्रदिवसे गुजरातराज्ये विनाशकारिणा भूकंपेन महान् जनसंहारः अभवत्। गुजरातस्य अनेकेषु भागेषु भवनानि पूर्णतः भूमिसात् अभवन् सहस्रशः च जनाः मृत्युं प्राप्तवन्तः। अस्मिन् संकटकाले अनेकाः सामाजिक-संस्थाः विपद्ग्रस्तानां सहायतार्थं कार्ये रताः आसन्। भारतस्य केन्द्रीयशासनम् अपि पीडितेभ्यः बहुविधां सहायतां अयच्छत्। अस्मिन् कार्ये सैनिकाः अपि संलग्नाः आसन्। ये जनाः पतितानां भवनानाम् अधः जीविताः आसन् तान् येन केन प्रकारेण बहिः निष्कास्य चिकित्सालयेषु अनयन्। तत्र च तेषां चिकित्सा अभवत्। न केवलं भारतीयाः सैनिकाः जनता अपि सहायताकार्ये तत्पराः परं वैदेशिकाः अपि धनेन, अन्नेन, वस्त्रैः परिश्रमेण च सहायतां कृत्वा "वसुधैव कुटुम्बकम्" इति सूक्तिं सार्थकाम् अकुर्वन्।
I. एकपदेन उत्तरत।
(i) कुत्र महान् संहारः अभवत् ?
(ii) काः सहायतार्थं कार्ये रताः आसन् ?
II. पूर्णवाक्येन उत्तरत।
(i) महान् जनसंहारः कदा अभवत् ?
(ii) केन्द्रीयशासनम् केभ्यः सहायताम् अयच्छत् ?
III. निर्देशानुसारम् उत्तरत -
(i) प्राप्तवन्तः इति क्रियापदस्य कर्तृपदं किम् ?
(अ) मृत्युं
(ब) जनाः
(स) च
(द) सहस्रशः
(ii) 'गुजरातस्य अनेकेषु भागेषु ......' अत्र विशेषणपदं किम् ?
(अ) अनेकेषु
(ब) भूमिसात्
(स) भागेषु
(द) गुजरातस्य
(iii) 'व्यस्ताः' इत्यर्थे अत्र किं पदं प्रयुक्तम् ?
(अ) रताः
(ब) कार्ये
(स) कृत्वा
(द) सार्थकं
(iv) 'उपरि' इति कस्य पदस्य विलोमपदम् ?
(अ) अधः
(ब) येन
(स) केन
(द) बहिः
IV. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
Answer:
I. एकपदेन उत्तरम् -
(i) गुजरातराज्ये
(ii) सामाजिक-संस्थाः

II. पूर्णवाक्येन उत्तरम् -
(i) द्विसहस्रैकतमवर्षस्य (2001) गणतन्त्रदिवसे भीषणभूकम्पकारणात् महान् जनसंहारः सञ्जातः।
(ii) भारतस्य केन्द्रीयप्रशासनेन भूकम्पपीडितेभ्यः जनेभ्यः विविधा साहाय्यराशिः सामग्री च प्रदत्ता।

III. निर्देशानुसारम् उत्तरम् -
(i) (ब) जनाः
(ii) (अ) अनेकेषु
(iii) (अ) रताः
(iv) (अ) अधः

IV. समुचितं शीर्षकम् -
गुजरातस्य भूकम्पविभीषिका (अथवा वसुधैव कुटुम्बकम्)
In simple words: अनुच्छेदे गुजराते सञ्जातस्य भूकम्पस्य तत्र कृतानां साहाय्यकार्याणां च वर्णनं कृतम्।

Exam Tip: In reading comprehension, locate grammatical subjects and verbs directly within the text to answer grammar-based questions accurately.

 

खण्डः 'ख' - रचनात्मक-कार्यम्

 

Question 2. स्वसंस्कृताध्यापिकायाः वर्णनं कुर्वता मित्रं प्रति। लिखितं पत्रं पुनः लिखत।
(i) ....................
तिथिः ....................
प्रिय सखि योगिते
असीमस्नेहः।
अत्र कुशलं (ii) ___। अस्मिन् पत्रे (iii) ___ स्वकीयायाः संस्कृत अध्यापिकायाः वर्णनं (iv) ___। मम संस्कृत अध्यापिकायाः अभिधानम् (v) ___ इति अस्ति। तस्याः स्वभावः अतीव (vi) ___ वर्तते। सा स्वविषये अतीव (vii) ___ अस्ति। सा सदैव सत्यम् वदति, छात्राणाम् (viii) ___ च करोति। सा छात्रेषु स्निह्यति। सा मम (ix) ___अध्यापिका अस्ति। अहम् पुनः मिलित्वा विस्तरेण कथयिष्यामि।
सर्वेभ्यः (x) ___
तव प्रिया सखी
रमा
मञ्जूषा : तत्रास्तु, करोमि, दिल्लीतः, कविता शर्मा, विनम्र, मार्गदर्शनं, नमः, प्रिया, कुशला, अहम्
Answer:
(i) दिल्लीतः
(ii) तत्रास्तु
(iii) अहम्
(iv) करोमि
(v) कविता शर्मा
(vi) विनम्र
(vii) कुशला
(viii) मार्गदर्शनं
(ix) प्रिया
(x) नमः
In simple words: पत्रे मञ्जूषायाः पदानि उपयुक्तस्थानेषु संयोज्य शिक्षिकायाः गुणाः प्रदर्शिताः।

Exam Tip: Match the sender's place at the top and the salutation at the bottom before filling in context-specific vocabulary inside the body of the letter.

 

Question 3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृतेन लिखत-
मञ्जूषा : पुस्तकालये, उपविष्टः, मञ्चे, हस्ते, दृश्यन्ते, वार्तालापं, शिक्षकः, पुस्तकानि, परस्परम्, छात्राः, पठन्ति, पठन्ति, ध्यानेन, कुर्वन्ति।
अथवा
'परोपकारः' इति विषयम् अधिकृत्य पञ्चवाक्यानि लिखत-
मञ्जूषा - मानवजीवनस्य, परोपकारः, पुण्याय, सहायतया, सतां विभूतय, सज्जनानां शरीरः, चन्दनेन, जगतः सारभूतः, वृक्षाः, गच्छन्ति, फलानि, अपि।
Answer:
चित्रवर्णनम् -
1. इदं चित्रं विद्यालयस्य एकस्य समृद्धस्य पुस्तकालयस्य अस्ति।
2. पुस्तकालये अनेके छात्राः आसन्दिकासु उपविष्टाः दृश्यन्ते।
3. सर्वे छात्राः ध्यानेन मनोयोगेन च विविधानि पुस्तकानि पठन्ति।
4. अत्र शिक्षकः मञ्चे स्थित्वा शान्तिरक्षणाय छात्राणां निरीक्षणं करोति।
5. छात्राः परस्परं वार्तालापं न कुर्वन्ति, अपि तु स्वाध्यायम् आचरन्ति।

अथवा ('परोपकारः' इति विषये पञ्च वाक्यानि) -
1. परोपकारः मानवजीवनस्य सर्वोत्कृष्टः धर्मः सारभूतः च गुणः अस्ति।
2. वृक्षाः परोपकाराय एव अन्यान् मधुरैः फलैः तृप्तान् कुर्वन्ति।
3. सज्जनानां शरीरं धनं च सर्वदा दीनानां सहायतया भवति।
4. शास्त्रेषु कथितं यत् "परोपकाराय पुण्याय भवति" पापाय परपीडनम्।
5. सतां विभूतयः चन्दनेन इव जगति सर्वत्र शीतलतां शान्तिं च वितरन्ति।
In simple words: पुस्तकालयस्य शान्तवातावरणस्य तथा परोपकारस्य महत्त्वस्य पञ्चसु वाक्येषु वर्णनं कृतम्।

Exam Tip: Construct simple subject-verb agreements (कर्तृ-क्रिया समन्वयः) using present tense (लट् लकार) to minimize grammatical errors.

 

खण्डः 'ग' - अनुप्रयुक्त व्याकरणम्

 

Question 4. उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत-
(i) सः .................... पुत्रः अस्ति।
(अ) राज्ञः
(ब) राजा
(स) राज्ञे
(द) राजानम्
(ii) .................... परमात्मनः अंशः अस्ति।
(अ) आत्मानम्
(ब) आत्मा
(स) आत्मना
(द) आत्मने
(iii) किम् .................... नाम राधिका अस्ति?
(अ) भवान्
(ब) भवती
(स) भवत्याः
(द) भवतः
(iv) .................... छात्रः चित्रं पश्यति।
(अ) गच्छन्
(ब) गच्छत्
(स) गच्छन्ती
(द) गच्छन्तः
(v) एकः .................... राजसभाम् आगच्छत्।
(अ) विद्वांसः
(ब) विद्वान्
(स) विदुषः
(द) विद्वांसौ
(vi) कंसः मथुरायाः .................... आसीत्।
(अ) राजा
(ब) राजानम्
(स) राज्ञा
(द) राज्ञः
Answer:
(i) (अ) राज्ञः (सम्बन्धे षष्ठी विभक्तिः)
(ii) (ब) आत्मा (प्रथमा एकवचनम्)
(iii) (स) भवत्याः (स्त्रीलिङ्गे षष्ठी एकवचनम्)
(iv) (अ) गच्छन् (विशेषणपदम् - पुंल्लिङ्गे प्रथमा एकवचनम्)
(v) (ब) विद्वान् (प्रथमा एकवचनम्)
(vi) (अ) राजा (प्रथमा एकवचनम्)
In simple words: वाक्येषु कारकनियमानुसारं शुद्धरूपाणां चयनं विहितम्।

Exam Tip: Ensure masculine and feminine possessive forms like 'भवतः' (masculine) and 'भवत्याः' (feminine) are selected according to gender context.

 

Question 5. उचितसंख्यापदं चित्वा रिक्तस्थानानि पूरयत।
(i) .................... बालेषु माता स्निह्यति। (त्रि)
(ii) .................... सूर्यस्य उदयः पूर्वस्यां दिशि भवति। (एक)
(iii) मम गृहे .................... बालिकाः सन्ति। (चतुर्)
(iv) कालाः .................... भवन्ति। (त्रि)
(v) व्याकरणे तस्य .................... मित्राणि सन्ति। (पञ्चन्)
(vi) मम मस्तके .................... नेत्रे स्तः। (द्वि)
Answer:
(i) त्रिषु (सप्तमी बहुवचने पुंल्लिङ्गे)
(ii) एकस्य (षष्ठी एकवचने पुंल्लिङ्गे)
(iii) चतस्रः (स्त्रीलिङ्गे प्रथमा बहुवचने)
(iv) त्रयः (पुंल्लिङ्गे प्रथमा बहुवचने)
(v) पञ्च (नपुंसकलिंगे प्रथमा बहुवचने)
(vi) द्वे (नपुंसकलिंगे प्रथमा द्विवचने)
In simple words: संख्याशब्दानां लिङ्ग-विभक्ति-वचनानि विशेष्यपदानुसारेण प्रयुक्तानि।

Exam Tip: Number words from 1 to 4 change according to gender; feminine forms like 'चतस्रः' and 'तिस्रः' are frequently tested.

 

Question 6. प्रदत्तविकल्पेभ्यः उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत।
(vii) वयं भवन्तम् सेवफलानि .................... ।
(अ) याचे
(ब) याचामहे
(स) याचस्व
(द) याचावहै
(viii) आवाम् संस्कृतवाचनं .................... ।
(अ) कुर्याम्
(ब) कुर्याव
(स) कुर्याम
(द) कुर्यात्
(ix) अहं सिहं .................... ।
(अ) हनाव
(ब) हनाम
(स) हतम्
(द) हनानि
(x) ते सदा सुखिनः .................... ।
(अ) स्यात्
(ब) स्युः
(स) स्याः
(द) स्याम्
(xi) त्वं सदैव सुपाचकं अन्नं .................... ।
(अ) भक्षयेत्
(ब) भक्षयेत
(स) भक्षयेः
(द) भक्षयेयुः
(xii) वयं सततं .................... ।
(अ) मोदेय
(ब) मोदेवहि
(स) मोदेमहि
(द) मोदेरन्
Answer:
(vii) (ब) याचामहे (आत्मनेपद लट् लकारः, उत्तमपुरुष-बहुवचनम्)
(viii) (ब) कुर्याव (विधिलिङ् लकारः, उत्तमपुरुष-द्विवचनम्)
(ix) (द) हनानि (लोट् लकारः, उत्तमपुरुष-एकवचनम्)
(x) (ब) स्युः (विधिलिङ् लकारः, प्रथमपुरुष-बहुवचनम्)
(xi) (स) भक्षयेः (विधिलिङ् लकारः, मध्यमपुरुष-एकवचनम्)
(xii) (स) मोदेमहि (आत्मनेपद विधिलिङ् लकारः, उत्तमपुरुष-बहुवचनम्)
In simple words: कर्तृपदस्य पुरुषानुसारं वचनानुसारं च धातुरूपाणां समीचीनः प्रयोगः कृतः।

Exam Tip: Be mindful of Atmanepada and Vidhilin forms when matching dual subjects like 'आवाम्' (कुर्याव) and plural subjects like 'वयम्' (याचामहे, मोदेमहि).

 

Question 7. उचित-उपपदविभक्तीनां प्रयोगं रिक्तस्थानेषु कुरुत।
(xiii) .................... वामतः सुधा तिष्ठति।
(अ) माम्
(ब) मम
(स) मह्यम्
(द) मया
(xiv) उदारजनः .................... विश्वसिति।
(अ) दानेन
(ब) दानात्
(स) दाने
(द) दानस्य
(xv) .................... किं यः मातृभूमिं न सेवते।
(अ) सैनिके
(ब) सैनिकात्
(स) सैनिकस्य
(द) सैनिकेन
(xvi) .................... परं विश्रामं कुरु।
(अ) अध्यापनस्य
(ब) अध्यापनाय
(स) अध्यापनात्
(द) अध्यापने
(xvii) एतानि वस्त्राणि .................... अलम्।
(अ) शिशोः
(ब) शिशवः
(स) शिशुः
(द) शिशवे
(xviii) .................... समया गोमती नदी अस्ति।
(अ) लखनऊनगरात्
(ब) लखनऊनगरे
(स) लखनऊनगरम्
(द) लखनऊनगरस्य
Answer:
(xiii) (ब) मम ('वामतः' योगे षष्ठी विभक्तिः)
(xiv) (स) दाने ('विश्वस्' धातोः योगे सप्तमी विभक्तिः)
(xv) (द) सैनिकेन ('किम्' योगे तृतीया विभक्तिः)
(xvi) (स) अध्यापनात् ('परम्' योगे पञ्चमी विभक्तिः)
(xvii) (द) शिशवे (पर्याप्तार्थे 'अलम्' योगे चतुर्थी विभक्तिः)
(xviii) (स) लखनऊनगरम् ('समया' योगे द्वितीया विभक्तिः)
In simple words: उपपदविभक्तेः नियमानुसारं सम्बन्धितपदानां विभक्तिनिर्धारणं कृतम्।

Exam Tip: Remember: 'अलम्' in the sense of prohibition takes the third case (तृतीया), but in the sense of sufficiency/competence it takes the fourth case (चतुर्थी).

 

Question 8. अधोलिखितेषु वाक्येषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा प्रदत्तविकल्पेभ्यः चित्वा लिखत।
(xix) अनुजेन प्रतियोगितायां तीव्रं .................... (धाव् + क्त)
(अ) धावितः
(ब) धाविता
(स) धावितम्
(द) धाविताः
(xx) .................... कपयः वृक्षम् आरोहन्ति। (कूर्द् + शतृ)
(अ) कूर्दन्
(ब) कूर्दन्तः
(स) कूर्दन्तौ
(द) कूर्दन्तम्
(xxi) रमया एतत् कार्यम् आरब्धम्।
(अ) आ + रभ् + शतृ
(ब) आ + रभ् + शानच्
(स) आ + रभ् + क्त
(द) आ + रभ् + क्तवतु
(xxii) सैनिकाः देशाय किं न ....................। (कृ + क्तवतु)
(अ) कृतवन्तौ
(ब) कृतवान्
(स) कृतवती
(द) कृतवन्तः
(xxiii) कार्यं .................... परिश्रमी जनः प्रसीदति। (कृ + शतृ)
(अ) कुर्वत्
(ब) कुर्वन्तौ
(स) कुर्वन्
(द) कुर्वन्तम्
(xxiv) युष्माभिः वृद्धः प्रसीदति। (सेव् + शानच्)
(अ) सेवामानम्
(ब) सेवमाना
(स) सेवमानः
(द) सेवमानेन
Answer:
(xix) (स) धावितम् (भावे प्रयोगे नपुंसकलिंगम्)
(xx) (ब) कूर्दन्तः ('कपयः' बहुवचनानुसारम्)
(xxi) (स) आ + रभ् + क्त
(xxii) (द) कृतवन्तः ('सैनिकाः' बहुवचनानुसारम्)
(xxiii) (स) कुर्वन् ('परिश्रमी जनः' एकवचनानुसारम्)
(xxiv) (द) सेवमानेन ('युष्माभिः' तृतीयाविशेषणरूपेण)
In simple words: क्त, क्तवतु, शतृ, शानच् प्रत्ययानां लिङ्ग-वचनानुसारं संयोजनेन विच्छेदनेन च रूपाणि निष्पन्नानि।

Exam Tip: Participles like 'शतृ' and 'शानच्' function as adjectives, so their gender, number, and case must strictly agree with the noun they qualify.

 

खण्डः 'घ' - पठित-अवबोधनम्

 

Question 9. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि उत्तर-पुस्तिकायां लिखत।
'मुने ! न भर्तृसेवायाः अपरं कञ्चन धर्मं करोम्यहम्। तत्प्रसादेन एव मे एतादृशं विज्ञानम्। किञ्च इतः धर्मव्याधाख्यो कञ्चन मांसविक्रयिणं गत्वा एतत् पृच्छ। ततस्ते श्रेयो भविष्यति। त्वं च निरहङ्कारः भविष्यसि इति। एवं सर्वविदा पतिव्रतया अभिहितः गृहीतातिथिसत्कारः सः मुनिः तां प्रणम्य तद्गृहाद् निरगच्छत् ।
I. एकपदेन उत्तरत।
(i) मांसविक्रयिणः किम् नाम आसीत् ?
(ii) गृहिण्यां कस्य प्रसादेन एतादृशं विज्ञानम् आसीत् ?
II. पूर्णवाक्येन उत्तरत।
किं गृहीत्वा मुनिः गृहात् निरगच्छत् ?
III. भाषिक कार्यम् -
(i) "स मुनिः तां प्रणम्य ....................।" अत्र 'मुनिः' इति कर्तृपदस्य क्रियापदं किम् ?
(अ) सः
(ब) तद्गृहात्
(स) आगच्छति
(द) निरगच्छत्
(ii) 'सर्वज्ञा' इत्यर्थे गद्यांशे किं पदं प्रयुक्तम् ?
(अ) अभिहितः
(ब) पतिव्रतया
(स) सर्वविदा
(द) प्रणम्य
Answer:
I. एकपदेन उत्तरम् -
(i) धर्मव्याधः
(ii) भर्तृसेवायाः

II. पूर्णवाक्येन उत्तरम् -
मुनिः पतिव्रतया प्रदत्तम् अतिथिसत्कारं स्वीकृत्य तां प्रणम्य तस्याः गृहात् निरगच्छत्।

III. भाषिककार्यम् -
(i) (द) निरगच्छत्
(ii) (स) सर्वविदा
In simple words: पतिव्रतायाः उपदेशं प्राप्य मुनिः स्वाभिमानं त्यक्त्वा धर्मव्याधस्य समीपम् अगच्छत्।

Exam Tip: Always quote character names exactly as spelled in the source passage (e.g., 'धर्मव्याधः').

 

Question 10. अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत ।
मेघश्यामोऽस्मि नो कृष्णो, महाकायो न पर्वत: ।
बलिष्ठोऽस्मि न भीमोऽस्मि, कोऽस्म्यहं नासिकाकरः।।
I. एकपदेन उत्तरत।
(i) महाकायः कः भवति?
(ii) भीमः कीदृशः भवति?
II. पूर्णवाक्येन उत्तरत।
गजस्य करः कः भवति?
III. निर्देशानुसारम् उत्तरत -
(i) 'श्वेतः' इत्यस्य पदस्य कः विपर्ययः अत्र प्रयुक्तः ?
(क) महाकायः
(ख) कृष्णः
(ग) भीमः
(घ) करः
(ii) श्लोके 'अस्मि' इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
(क) करः
(ख) गजः
(ग) अहम्
(घ) भीमः
Answer:
I. एकपदेन उत्तरम् -
(i) पर्वतः (अथवा गजः)
(ii) बलिष्ठः

II. पूर्णवाक्येन उत्तरम् -
गजस्य नासिका (शुण्डा) एव तस्य करः भवति।

III. निर्देशानुसारम् उत्तरम् -
(i) (ख) कृष्णः
(ii) (ग) अहम्
In simple words: प्रहेलिकायां गजस्य विशिष्टाङ्गानाम् आधारेण तस्य स्वरूपं प्रकाशितम्।

Exam Tip: In riddles (प्रहेलिका), split sandhi words like 'मेघश्यामोऽस्मि' (मेघश्यामः + अस्मि) to identify implicit subject pronouns ('अहम्').

 

Question 11. अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत -
भोज : साधु कुविन्द! साधु! कीदृशी लालित्यपूर्णा पदयोजना 'कवयामि वयामि यामि'
- धन्योऽसि त्वम्! अहमपि आत्मानं धन्यं मन्ये, यस्य राज्ये तन्तुवायाः, कुम्भकाराः, अयस्कराः, शिल्पिनः, श्रमिकाः अपि ललितां काव्यरचनां कुर्वन्ति।
(तन्तुवायं प्रति) भोः कविवर! गृहाण पुष्कलं स्वर्णमयं पारितोषिकम्। निजम् आवासम् च प्रयाहि। (मन्त्रिणं प्रति) पण्डितः लक्ष्मीधरः मम राजभवने वासयितव्यः, यावद् अपरा व्यवस्था न भवति।
(राजा तन्तुवायाय स्वर्णमुद्राः अर्पयति। तन्तुवायः पारितोषिकं प्राप्य प्रसन्नवदनः राजानम् अभिवाद्य गृहं प्रयाति)।
(1) एकपदेन उत्तरतः-
(i) पदयोजना कीदृशी आसीत् ?
(ii) राजा तन्तुवायाय किम् अर्पयति ?
(2) पूर्णवाक्येन उत्तरत :-
राजाभोजः आत्मानं कथं धन्यं मन्यते ?
(3) भाषिककार्यम् :-
(i) 'गृहाण' इति क्रियापदस्य कर्तृपदं किं भवितुम् अर्हति ?
(अ) कविवर
(ब) कुविन्दः
(स) अहम्
(द) त्वम्
(ii) 'गच्छ' इत्यर्थे किं पदं प्रयुक्तम् अत्र ?
(अ) गृहाण
(ब) प्रयाहि
(स) यामि
(द) प्रयाति
Answer:
(1) एकपदेन उत्तरम् -
(i) लालित्यपूर्णा
(ii) स्वर्णमुद्राः (स्वर्णमयं पारितोषिकम्)

(2) पूर्णवाक्येन उत्तरम् -
राजा भोजः स्वराज्ये श्रमजीविनाम् अपि सरसकाव्यरचननैपुण्यं विलोक्य आत्मानं धन्यं मन्यते।

(3) भाषिककार्यम् -
(i) (द) त्वम् (मध्यमपुरुष-लोट्लकारे कर्ता 'त्वम्' भवति)
(ii) (ब) प्रयाहि
In simple words: राजा भोजः तन्तुवायस्य कवित्वेन अतीव मुग्धः सन् तस्मै सुवर्णपुरस्कारम् अयच्छत्।

Exam Tip: For imperative verbs in the second person singular like 'गृहाण' and 'प्रयाहि', the understood grammatical subject is always 'त्वम्'.

 

Question 12. अधोलिखितश्लोकयोः अन्वययोः रिक्तस्थानानि पूरयत -
( क ) जाह्नवीचन्द्रभागाजलैः पावितम् भानुजानर्मदावीचिभिर्लालितम्।
तुङ्गभद्राविपाशादिभिर्भावितम् भूतले भाति मेऽनारतं भारतम्।।
अन्वयः - जाह्नवीचन्द्रभागाजलैः (i)___ भानुजा-नर्मदा-वीचिभिः (ii)___ तुङ्गभद्रा (iii)___ भावितम् (iv)___ भारतम् (v)___ अनारतम् भाति।
( ख ) वेदभाषाभिसतं सकललालितं रम्यसंगीतसाहित्यसौहित्यभूः।
भारतीवल्लकीझङ्कृतैर्झङ्कृतं भूतले भाति मेऽनारतं भारतम्।।
अन्वयः - वेदभाषितं (i)___ लालितम् रम्यसंगीतसाहित्य (ii)___ भारती वल्लकी झङ्कृतैः (iii)___ मे (iv)___ भूतले (v)___ भाति।।
Answer:
( क )
(i) पावितम्
(ii) लालितम्
(iii) विपाशादिभिः
(iv) मे
(v) भूतले

( ख )
(i) सकल
(ii) सौहित्यभूः
(iii) झङ्कृतम्
(iv) भारतम्
(v) अनारतम्
In simple words: पावननदीभिः संस्कृतेन च सम्पन्नं भारतवर्षं पृथिव्यां निरन्तरं प्रकाशते इति श्लोकयोः अन्वयः विहितः।

Exam Tip: In poetic verses, identify the main subject ('भारतम्') and main predicate verb ('भाति') first, then position adjectives sequentially.

 

Question 13. रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
1 मित्रैः सह क्रीडित्वा अष्टावक्रः गृहम् प्रत्यावृत्तः।
2 अष्टावक्रस्य पिता शास्त्रार्थाय राजसभां गतः आसीत्।
3 अष्टावक्रं दृष्ट्वा पण्डिताः उच्चैः अहसन्।
4 राजसभायां मिथ्याज्ञानगर्विताः पण्डिताः आसन्।
5 राज्यं वंशपरम्पराप्राप्तम् अस्ति।
Answer:
1. कैः सह क्रीडित्वा अष्टावक्रः गृहम् प्रत्यावृत्तः ?
2. कस्य पिता शास्त्रार्थाय राजसभां गतः आसीत् ?
3. कम् दृष्ट्वा पण्डिताः उच्चैः अहसन् ?
4. कुत्र (अथवा कस्याम्) मिथ्याज्ञानगर्विताः पण्डिताः आसन् ?
5. राज्यं कीदृशम् अस्ति ?
In simple words: रेखाङ्कितपदानां लिङ्गविभक्तिवचनानि आधृत्य किम-शब्दस्य प्रश्नवाचकरूपाणि प्रयुक्तानि।

Exam Tip: Never forget to replace the final full stop with a question mark ('?') when constructing interrogative sentences.

 

Question 14. अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत -
(1) प्रसन्नः भोजः तस्मै कुविन्दाय प्रभूतं धनं दत्तवान्।
(2) भोजस्य अभिवादनं कृत्वा लक्ष्मीधरः तस्य राज्ये निवस्तुम् इच्छति।
(3) नगरे निरक्षरः न प्राप्तः अतः नगरपालः काव्यरचनाकौशलहीनं तन्तुवायम् आनयत्।
(4) राजा मन्त्रिणम् आदिशत् यत् सः विद्वान् अशिक्षितगृहे वासयितव्यः।
(5) राजा भोजः कलाप्रियः गुणज्ञः विद्वान् च आसीत्।
(6) परं सः तन्तुवायः सुन्दरकाव्यरचनाम् अकरोत्।
(7) लक्ष्मीधरः नाम विद्वान् भोजस्य राजसभाम् आगच्छत्।
(8) नृपः तन्तुवायस्य काव्येन प्रभावितः अभवत्।
(9) लक्ष्मीधरः भोजं प्रशंसन् तस्मै आशीर्वादम् अयच्छत्।
(10) राजा लक्ष्मीधराय आवासस्य व्यवस्थायै नगरपालम् आदिशत्।
Answer:
कथाक्रमानुसारं शुद्धक्रमः -
1. (5) राजा भोजः कलाप्रियः गुणज्ञः विद्वान् च आसीत्।
2. (7) लक्ष्मीधरः नाम विद्वान् भोजस्य राजसभाम् आगच्छत्।
3. (2) भोजस्य अभिवादनं कृत्वा लक्ष्मीधरः तस्य राज्ये निवस्तुम् इच्छति।
4. (9) लक्ष्मीधरः भोजं प्रशंसन् तस्मै आशीर्वादम् अयच्छत्।
5. (10) राजा लक्ष्मीधराय आवासस्य व्यवस्थायै नगरपालम् आदिशत्।
6. (4) राजा मन्त्रिणम् आदिशत् यत् सः विद्वान् अशिक्षितगृहे वासयितव्यः।
7. (3) नगरे निरक्षरः न प्राप्तः अतः नगरपालः काव्यरचनाकौशलहीनं तन्तुवायम् आनयत्।
8. (6) परं सः तन्तुवायः सुन्दरकाव्यरचनाम् अकरोत्।
9. (8) नृपः तन्तुवायस्य काव्येन प्रभावितः अभवत्।
10. (1) प्रसन्नः भोजः तस्मै कुविन्दाय प्रभूतं धनं दत्तवान्।
In simple words: कथायाः घटनाप्रवाहम् अनुसृत्य वाक्यानि क्रमिकरूपेण पुनर्विन्यस्तानि।

Exam Tip: Number each reordered sentence clearly from 1 to 10 matching the plot development from start to resolution.

 

Question 15. रेखाङ्कितशब्दानाम् अर्थान् विकल्पेभ्यः चित्वा लिखत।
क एतद् अवगत्य प्रेरितः स वेगेन आश्रमम् आगतावान्।
(1) गत्वा
(2) प्रत्यागतः
(3) ज्ञात्वा
ख जलमूलम् अन्विष्यता तेन कश्चन शब्दः श्रुतः।
(1) विशेषता
(2) नक्षत्र विज्ञाने
(3) अन्वेषणं कुर्वता
ग प्रतिध्वनिविज्ञानं विना संगीत साधनानां निर्माणं असाध्यं वर्तते।
(1) सहायकः
(2) असम्भवं
(3) रुग्णं
घ गम्भीराध्ययनं कृत्वा अभूतपूर्वाः सिद्धयः सम्प्राप्ताः।
(1) समापिताः
(2) लब्धाः
(3) समीपे
ङ सप्तवर्षीयः सन् छात्रः पञ्चविद्याः अधीतवान्।
(1) ध्यानेन
(2) अनुसृत्य
(3) पठितवान्
Answer:
क. (3) ज्ञात्वा ('अवगत्य' इत्यर्थः ज्ञात्वा)
ख. (3) अन्वेषणं कुर्वता ('अन्विष्यता' इत्यर्थः अन्वेषणं कुर्वता)
ग. (2) असम्भवं ('असाध्यम्' इत्यर्थः असम्भवम्)
घ. (2) लब्धाः ('सम्प्राप्ताः' इत्यर्थः लब्धाः/प्राप्ताः)
ङ. (3) पठितवान् ('अधीतवान्' इत्यर्थः पठितवान्)
In simple words: पाठ्यपुस्तकानुसारेण रेखाङ्कितशब्दानां यथार्थाः पर्यायार्थाः प्रदर्शिताः।

Exam Tip: Read the entire sentence context to choose the exact contextual synonym rather than relying solely on literal translation.

Sanskrit Printable Worksheets and Exercises for Class 9 Languages

Practice Exercises for Class 9 Languages Sanskrit

Explore reliable practice questions for Sanskrit tailored for Class 9 Languages learners. Use these structured worksheets to evaluate exam preparedness and strengthen problem-solving skills throughout the 2026 academic session.

Step-by-Step Solutions and Practice Guidelines

Each worksheet draws directly from authorized standard textbooks to maintain academic accuracy. Evaluating your finished exercises against expert-verified solutions helps master the formal presentation standards expected in school evaluations.

Enhance Speed with Online Practice

Wrap up your chapter revision by testing your knowledge against standard objective question formats. Explore our full library of free, up-to-date printable assignments to maximize your academic results in upcoming CBSE evaluations.

FAQs

Where can I download the 2026-27 CBSE printable worksheets for Class 9 Languages Sanskrit?

You can download the latest chapter-wise printable worksheets for Class 9 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.

Are these Sanskrit Languages worksheets based on the new competency-based education (CBE) model?

Yes, Class 9 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.

Do the Class 9 Languages Sanskrit worksheets have answers?

Yes, we have provided solved worksheets for Class 9 Languages Sanskrit to help students verify their answers instantly.

Can I print these Sanskrit Languages test sheets?

Yes, our Class 9 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.

What is the benefit of solving chapter-wise worksheets for Languages Class 9 Sanskrit?

For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.