NCERT Class 9 Sanskrit Sharda Parishisht 02 Samasah (समासः) PDF Download

Read Parishisht 02 Samasah of NCERT Class 9 Sanskrit

Review the NCERT Class 9 Sanskrit Sharda Parishisht 02 Samasah (समासः) PDF Download designed for Class 9 Sanskrit students. Published under the latest NCERT guidelines for 2026-27, this chapter-wise resource supports daily study and targeted revision.

Parishisht 02 Samasah PDF Resource

Navigate directly to the Parishisht 02 Samasah section using the digital viewer below. Organizing your study sessions chapter-by-chapter allows for seamless offline review. Be sure to utilize the accompanying NCERT Solutions to verify your textbook answers.

परिशिष्टम् २ - समासः

समसनं समासः भवति। समसनं नाम सङ्क्षेपणम् इत्यर्थः। अर्थात् समासे अर्थयुक्तं पदद्वयं, पदत्रयम् अथवा अनेकपदं मिलित्वा एकं पदं भवति। यथा - 'महा' तथा 'पुरुष' इति अर्थयुक्तं पदद्वयम् अस्ति। तद् द्वयमपि मिलित्वा एकपदं भवति महापुरुषः इति। एवंविधानाम् अर्थवतां पदानाम् एकीभवनमेव समासः।

समासः सामान्यतः परस्परं सुबन्तानां मध्ये भवति। तथैव समासः युगपत् द्वयोः द्वयोः सुबन्तयोः मध्ये भवति। यथा - सीतायाः पतिः = सीतापतिः।

द्वन्द्वसमासे तु युगपत् बहूनां सुबन्तानां मध्ये समासः भवति। यथा - हरिश्च हरश्च गुरुश्च = हरिहरगुरवः।

परस्परम् अन्वितयोः (सम्बद्धयोः) सुबन्तयोः एव समासः भवति। यदि पदानां मध्ये परस्परम् अन्वयः (सम्बन्धः) न भवति तर्हि समासः अपि न भवति।

परस्परम् अन्वयस्य उदाहरणम् - सः राज्ञः पुत्रः (राजपुत्रः) गच्छति।

यत्र अन्वयः न भवति तत्र - भवति दर्शनं राज्ञः, पुत्रः कृषकस्य गच्छति। अत्र राज्ञः अन्वयः दर्शनम् इति पदेन सह भवति। पुत्रः इत्यस्य अन्वयः कृषकस्य इत्यनेन सह अस्ति। अतः अस्मिन् वाक्ये राज्ञः पुत्रः एतयोः मध्ये परस्परम् अन्वयः नास्ति अतः तयोः समासः अपि नास्ति।

[चित्र: बेंच पर बैठकर पुस्तक पढ़ती छात्रा, पाठ्यपुस्तक में देखें]

शिक्षक की टिप्पणी

a) समास का अर्थ है संक्षेप: दो या अधिक सार्थक पद मिलकर एक पद बन जाते हैं, जैसे महा + पुरुष = महापुरुषः।
b) समास केवल उन्हीं पदों में होता है जिनका आपस में अन्वय (सम्बन्ध) हो; इसलिए 'राज्ञः' और 'पुत्रः' पास-पास होकर भी दूसरे वाक्य में समास नहीं बनाते।
c) सामान्यतः समास दो पदों में होता है, पर द्वन्द्व समास में एक साथ कई पद जुड़ सकते हैं (हरिहरगुरवः)।

समासे पूर्वपदम् उत्तरपदम् इति द्विविधं भवति। पूर्वं प्रयुक्तं पदं पूर्वपदम् अनन्तरं प्रयुक्तं पूर्वपदम् उत्तरपदमिति। यथा - सीतापतिः इत्यत्र 'सीता' इति पूर्वं प्रयुक्तं, 'पतिः' इति अनन्तरं प्रयुक्तम्। अतः अत्र 'सीता' इति पूर्वपदं, 'पतिः' इति उत्तरपदं च भवति।

समासे कृते पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति। तदनन्तरं समस्तात् पदात् विभक्तिः योजनीया।

यथा - सीतायाः पतिः = सीता + ङस् + पति + सु = सीतापति (ङस् तथा सु एतयोः लोपः)

सीतापति + सु = सीतापतिः। अत्र 'सीतापति' इति प्रातिपदिकं समस्तपदं च तस्मात् विभक्तिप्रत्ययः योजितः। तदा सीतापतिः इति रूपं भवति। एवमेव समासविषये सर्वत्र अवबोद्धव्यम्।

विग्रहवाक्यम् - वृत्त्यर्थस्य अवबोधकं वाक्यं विग्रहः। वृत्तिः नाम समासादिः। समासादेः अर्थं बोधयितुं यद् वाक्यम् उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते। यथा - 'राष्ट्रनायकः' इति समासः (समस्तपदम्)। 'राष्ट्रस्य नायकः' इति विग्रहवाक्यम्। अत्र 'राष्ट्र' इति पूर्वपदं 'नायकः' इति उत्तरपदम्।

विग्रहः द्विधा

  1. स्वपदविग्रहः - यदि समासस्य अर्थः समासे नाम समस्तपदे विद्यमानैः पदैः एव वर्णितः भवति तर्हि सः स्वपदविग्रहः भवति। तथा च - 'समासघटकपदसहितं वाक्यं स्वपदविग्रहः' इत्यर्थः। (स्वपदैः (समासपदैः) विग्रहः।
    यथा - सुदामा कृष्णसखा अस्ति। कृष्णस्य सखा कृष्णसखा इति स्वपदविग्रहः।
  2. अस्वपदविग्रहः - यदि समासस्य अर्थः समासे नाम समस्तपदे विद्यमानानि पदानि विहाय अन्यैः पदैः वर्णितः भवति तर्हि सः अस्वपदविग्रहः भवति। तथा च - 'समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः' इत्यर्थः। सामान्यतः अत्र एकं पदं समासघटकमेव भवति। नित्यसमासे अस्वपदविग्रहः भवति।

शिक्षक की टिप्पणी

a) समस्तपद और विग्रहवाक्य का अन्तर: 'राष्ट्रनायकः' समस्तपद है, 'राष्ट्रस्य नायकः' उसका विग्रहवाक्य।
b) 'सीतापतिः' बनने के चरण देखिए: विभक्तियाँ (ङस्, सु) हटती हैं, 'सीतापति' प्रातिपदिक बनता है, फिर अन्त में विभक्ति 'सु' जुड़कर 'सीतापतिः' बनता है।
c) स्वपदविग्रह में समास के अपने पद ही विग्रह में आते हैं (कृष्णस्य सखा); अस्वपदविग्रह में दूसरे पदों से अर्थ बताया जाता है, और नित्यसमास में यही होता है।

Official NCERT Textbook PDF: Class 9 Sanskrit Parishisht 02 Samasah

Class 9 Sanskrit Parishisht 02 Samasah Official E-Book

Access the official NCERT Textbook for Class 9 Sanskrit Parishisht 02 Samasah, updated for the current academic session. Recognized as the core reading material across schools nationwide, board evaluations rely entirely on this syllabus.

English Medium NCERT Textbooks for Class 9

Explore our exhaustive library of NCERT books in English Medium spanning all subjects in Class 9. Every chapter features comprehensive explanations followed by extensive end-of-chapter exercises.

Additional Study Resources for Class 9 Sanskrit

The Class 9 Sanskrit Parishisht 02 Samasah text is carefully engineered to build rock-solid foundational concepts. For an enriched academic journey, learners should pair this with our online NCERT Solutions and revision notes.

FAQs

Where can I download the latest NCERT Class 9 Sanskrit Sharda Parishisht 02 Samasah (समासः) PDF Download in PDF for 2026-27?

You can download the latest, teacher-verified PDF for NCERT Class 9 Sanskrit Sharda Parishisht 02 Samasah (समासः) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.

Does this Sanskrit book follow the latest NCERT rationalized syllabus?

Yes, our collection of Class 9 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.

Why is it better to download NCERT Class 9 Sanskrit Sharda Parishisht 02 Samasah (समासः) PDF Download chapter-wise?

Downloading chapter-wise PDFs for Class 9 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.

Are these NCERT books for Class 9 Sanskrit sufficient for scoring 100%?

NCERT books are the main source for NCERT exams. By reading NCERT Class 9 Sanskrit Sharda Parishisht 02 Samasah (समासः) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.