NCERT Class 9 Sanskrit Sharda Parishisht 01 Anvayah (अन्वयः) PDF Download

Class 9 Sanskrit Parishisht 01 Anvayah: NCERT Study Material

Review the NCERT Class 9 Sanskrit Sharda Parishisht 01 Anvayah (अन्वयः) PDF Download designed for Class 9 Sanskrit students. Published under the latest NCERT guidelines for 2026-27, this chapter-wise resource supports daily study and targeted revision.

Read and Download Parishisht 01 Anvayah

View or download the dedicated Parishisht 01 Anvayah resource below. This chapter-by-chapter structuring ensures easy navigation for daily study routines. For comprehensive exam preparation, pair this reading with our verified NCERT Solutions.

परिशिष्टम् १ - अन्वयः

सामान्यतः श्लोकेषु कर्तृपदं कर्मपदं तृतीयादिविभक्त्यन्तं पदं क्रियापदं विशेषणादिकं च छन्दसः अनुगुणं पूर्वापरं भवितुमर्हति। तेन पठितारः पदानां मध्ये परस्परं सम्बन्धं (अन्वयं) कल्पयितुं कदाचित् कष्टम् अनुभवन्ति। अतः श्लोकेषु विद्यमानानां पदानां परस्परं सम्बन्धं सरलरूपेण ज्ञातुं कश्चन क्रमः ज्ञातव्यः। तदनन्तरमेव श्लोकस्य अर्थमवगन्तुं शक्यते।

श्लोकान्वयविधिः

  1. दण्डान्वयविधिः
  2. खण्डान्वयविधिः

एतयोः विध्योः ज्ञानेन छात्राः श्लोके विद्यमानानां पदानां सम्बन्धं ज्ञात्वा श्लोकस्य अर्थं भावं च अवगन्तुं शक्नुवन्ति।

दण्डान्वयः (दण्डवत् अन्वयः दण्डान्वयः) -

आद्ये विशेषणं योज्यं विशेष्यं तदनन्तरम्।
क्त्वा-णमुल्-ल्यप्-प्रभृत्येवं पूर्वं दण्डान्वये भवेत्॥

कर्तृपदं कर्मपदं क्रियापदं चेति प्राथमिकी वाक्यरचनाशैली वर्तते। अस्मिन् अन्वयक्रमे विशेषणानि क्रमशः तत्तत्पदस्य पूर्वं प्रयुक्तानि भवन्ति। कर्तृपदस्य विशेषणं कर्तृपदात् पूर्वं, कर्मपदस्य विशेषणं कर्मपदात् पूर्वम् इति क्रमशः विधानं भवति। यदि श्लोकेषु अव्ययानि कृदन्तपदानि वा सन्ति तर्हि तानि केन पदेन सह सम्बद्धानि इति ज्ञात्वा तत्र प्रयोक्तव्यानि। तृतीयादीनि विभक्त्यन्तानि पदानि अपि केन पदेन सह सम्बद्धानि इति ज्ञात्वा तानि पदानि पूर्वं वा परं वा योजनीयानि। ततः परं सर्वान्ते क्रियापदं लिखेत्। कदाचित् कर्तृपदं क्रियापदं वा श्लोकेषु न दृश्यते तदा अस्माभिः विचिन्त्य तत् पदं योजनीयम्। आहत्य पदानां परस्परम् अन्वयः एव दण्डान्वयस्य क्रमः भवति। तदेव श्लोकरूपेण उक्तम् -

शिक्षक की टिप्पणी

a) अन्वय की दो विधियाँ हैं: दण्डान्वय और खण्डान्वय; यहाँ पहले दण्डान्वय समझाया गया है।
b) दण्डान्वय का क्रम याद रखिए: विशेषण अपने विशेष्य से पहले, कर्ता, फिर कर्म, और क्रियापद सबसे अन्त में।
c) श्लोक में कर्ता या क्रिया न दिखे तो उसे सोचकर जोड़ना पड़ता है।

यथा - शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषस्स विद्वान्।
सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्॥

पदच्छेदः

शास्त्राणि, अधीत्य, अपि, भवन्ति, मूर्खाः, यः, तु, क्रियावान्, पुरुषः, सः, विद्वान्, सुचिन्तितं, च, औषधम्, आतुराणां, न, नाममात्रेण, करोति, अरोगम्॥

दण्डान्वयः - (केचन) शास्त्राणि अधीत्यापि मूर्खाः भवन्ति। यः क्रियावान् सः पुरुषः तु विद्वान् (भवति)। (यथा) सुचिन्तितम् औषधं नाममात्रेण आतुराणाम् अरोगं न करोति।

विवरणम् - अस्मिन् श्लोके 'केचन' इति शब्दः न प्रयुक्तः, 'शास्त्राणि अधीत्यापि मूर्खाः भवन्ति' इति वर्तते। तर्हि अत्र काचित् जिज्ञासा भवति यत् "शास्त्राणि अधीत्यापि के मूर्खाः भवन्ति" इति। तस्य उत्तरं यदि श्लोके विद्यते तर्हि तत् पदं पूर्वं स्थापनीयम्। परम् अस्मिन् श्लोके तु तत् पदं न प्रयुक्तम्। अतः अस्माभिः सुप्तं पदम् योजनीयम् (अध्याहार्यम्)। अत्र सुप्तं पदं 'केचन' इति भवितुमर्हति। तथैव "यस्तु क्रियावान् पुरुषस्स विद्वान्" इत्यत्र क्रियापदं किमपि न प्रयुक्तम्। किन्तु वाक्यस्य पूर्तये क्रियापदम् आवश्यकम्। अतः अत्रापि सुप्तं क्रियापदं किञ्चन योजनीयम् (अध्याहार्यम्)। तच्च 'भवति' इति क्रियापदं योजितम्। अनेन प्रकारेण 'यथा' इति शब्दस्यापि अध्याहारः कृतः। तेन श्लोकस्य पूर्णः अर्थः स्पष्टः भवति।

[चित्र: पुस्तक पढ़ती छात्रा, पाठ्यपुस्तक में देखें]

अत्र शिक्षकः प्रश्नोत्तरमाध्यमेनापि अन्वयं कर्तुं शक्नोति। प्रथमं पदच्छेदं कृत्वा तदनन्तरम् अध्यापकः प्रश्नं कुर्वन् श्लोके विद्यमानेभ्यः पदेभ्यः संख्यां प्रददाति। ततः परं छात्राः क्रमशः पदानि योजयित्वा अन्वयं कर्तुमर्हन्ति।

शिक्षक की टिप्पणी

a) उदाहरण में तीन चरण देखिए: पहले पदच्छेद, फिर दण्डान्वय, और अन्त में विवरण।
b) 'अध्याहार' का अर्थ है श्लोक में छूटे (सुप्त) पद को अर्थ पूरा करने के लिए जोड़ना; अन्वय में ऐसे पद कोष्ठक में लिखे गए हैं, जैसे (केचन), (भवति), (यथा)।
c) पदच्छेद में संधि खुलती है: शास्त्राण्यधीत्य = शास्त्राणि + अधीत्य और करोत्यरोगम् = करोति + अरोगम्।

Official NCERT Textbook PDF: Class 9 Sanskrit Parishisht 01 Anvayah

Chapter Textbook PDF for Class 9 Sanskrit

Download the certified NCERT Textbook for Class 9 Sanskrit Parishisht 01 Anvayah. Educational authorities and instructors recommend this e-textbook as the foundational reference for all terminal tests and school assessments.

Digital E-Book Collection for Class 9 Sanskrit

Browse our comprehensive suite of NCERT books in English Medium designed for Class 9 students, offering clear conceptual breakdowns and concluding practice problems.

Complete Your Chapter Preparation

The Class 9 Sanskrit Parishisht 01 Anvayah text is carefully engineered to build rock-solid foundational concepts. For an enriched academic journey, learners should pair this with our online NCERT Solutions and revision notes.

FAQs

Where can I download the latest NCERT Class 9 Sanskrit Sharda Parishisht 01 Anvayah (अन्वयः) PDF Download in PDF for 2026-27?

You can download the latest, teacher-verified PDF for NCERT Class 9 Sanskrit Sharda Parishisht 01 Anvayah (अन्वयः) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.

Does this Sanskrit book follow the latest NCERT rationalized syllabus?

Yes, our collection of Class 9 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.

Why is it better to download NCERT Class 9 Sanskrit Sharda Parishisht 01 Anvayah (अन्वयः) PDF Download chapter-wise?

Downloading chapter-wise PDFs for Class 9 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.

Are these NCERT books for Class 9 Sanskrit sufficient for scoring 100%?

NCERT books are the main source for NCERT exams. By reading NCERT Class 9 Sanskrit Sharda Parishisht 01 Anvayah (अन्वयः) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.