CBSE Class 10 Sanskrit Worksheet Set 05

Official Class 10 Languages Worksheets: Sanskrit

Explore structured practice materials through the CBSE Class 10 Sanskrit Worksheet Set 05. Tailored for Class 10 learners, utilizing these Languages worksheets ensures thorough preparation and strengthens problem-solving accuracy before final school evaluations.

Solved Practice Worksheets for Languages

Access the complete worksheet PDF for Class 10 Languages below. Regular practice with these targeted academic tasks builds familiarity with standard question patterns and helps secure higher marks in final school examinations.

खण्डः (क) अपठित - अवबोधनम् (12 अंकाः)

अधोलिखितं अनुच्छेदं पठित्वा निर्देशानुसारं अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि लिखत-
देशभक्तिः पराजिता जाता। हल्दीघाटी युद्धं समाप्तं अभवत्। मेवाडाधिपतिः महाराणाप्रतापः पराजितः जातः। सम्पूर्णरूपेण संकटमापतितम्। मेवाडाधिपतिः महाराणाप्रतापः अरण्ये कतिपयैः विश्वासपात्रैः भटैः सह संकटापन्ने काले विचारमग्नः शिलायाम् उपविष्टः अस्ति। स्वदेशस्य रक्षायै युध्यमानस्य तस्य बहूनि वर्षाणि व्यतीतानि। हन्त! वराकस्य पार्श्वे सेनायाः भोजनसामग्र्याः च अभावः विद्यते। अधुना तु सः स्वकीयैः प्राणैरेव स्वदेशं स्वतन्त्रं कर्तुम् इच्छति। किन्तु महादानी भामाशाहस्य सहयोगेन विजयतां स्वदेशः इति भावेन च सः पुनः युद्धं कृत्वा स्वदेशं स्वतन्त्रं कृतवान्। सत्यमेवोक्तम् - वीरभोग्या वसुन्धरा

Question. एकपदेन उत्तरत-
(i) स्वदेशं कः स्वतन्त्रं कर्तुम् इच्छति ?
(ii) का पराजिता जाता ?
(iii) महाराणाप्रतापः कुत्र उपविष्टः अस्ति ?
(iv) वीरभोग्या का ?
Answer:
(i) महाराणाप्रतापः
(ii) देशसेना (or देशभक्तिः)
(iii) शिलायाम्
(iv) वसुन्धरा

Question. पूर्णवाक्येन उत्तरत-
(i) कस्य पार्श्वे सेनायाः भोजनसामग्र्याः च अभावः विद्यते ?
(ii) महाराणाप्रतापः कैः सह विचारमग्नः उपविष्टः अस्ति ?
Answer:
(i) वराकस्य (महाराणाप्रतापस्य) पार्श्वे सेनायाः भोजनसामग्र्याः च अभावः विद्यते।
(ii) महाराणाप्रतापः अरण्ये कतिपयैः विश्वासपात्रैः भटैः सह विचारमग्नः उपविष्टः अस्ति।

Question. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत -
(i) मेवाडाधिपतिः पदं कस्य विशेषणपदम् ?
(a) भटस्य
(b) प्रतापस्य
(c) वराहस्य
(d) वसुन्धरायाः
Answer: (b) प्रतापस्य

Question. हन्त ! पदे का विभक्तिः ?
(a) द्वितीया
(b) तृतीया
(c) प्रथमा
(d) सम्बोधन
Answer: (d) सम्बोधन

Question. 'इच्छति' इति क्रियापदस्य किं कर्तृपदं अनुच्छेदे प्रयुक्तम् ?
(a) सः
(b) सह
(c) युद्धं
(d) स्वदेशं
Answer: (a) सः

Question. भावः इत्यस्य किं विलोमपदं अनुच्छेदे प्रयुक्तम् ?
(a) विभावः
(b) प्रभावः
(c) अभावः
(d) स्वभावः
Answer: (c) अभावः

Question. अस्य गद्यांशस्य समुचितं शीर्षकं किम् ?
(a) देशभक्तिः पराजिता
(b) विजयतां स्वदेशः
(c) स्वतन्त्रतादिवसः
(d) जयहिन्दः
Answer: (b) विजयतां स्वदेशः

खण्डः (ख) रचनात्मकं कार्यम्

Question. संगणककक्षायां प्रवेशं प्राप्तुं प्रधानाचार्यं प्रति एकं प्रार्थनापत्रम्। लिखिते प्रार्थनापत्रे रिक्तस्थानानि उचितपदैः पूरयत्-
देववाणी भवनम्
तिथिः ....................
आदरणीयाः प्रधानाचार्यावर्याः!
...................................,
सविनयं निवेदयामि यत् अहं ...................... कक्षायां 90 प्रतिशतअंकान् ...................... उत्तीर्णः जातः। अधुना अहं ...................... प्रवेष्टुम् इच्छामि। गणितविषये तु ...................... सर्वदा शतप्रतिशतम् ...................... गृह्यन्ते। अद्यत्वे सर्वेषु कार्येषु ...................... अनिवार्यम्। कृपया मह्यम् ...................... प्रदाय ...................... माम् अनुगृह्णन्तु।
......................
प्रार्थी
अ. ब. स.
मंजूषा- सधन्यवादम्, स्वीकृतिं, अंकाः, संगणककक्षायां, दशम, मया, संगणकम्, भवन्तः, गृहीत्वा, मान्याः
Answer:
आदरणीयाः प्रधानाचार्यावर्याः!
मान्याः,
सविनयं निवेदयामि यत् अहं दशम कक्षायां 90 प्रतिशतअंकान् गृहीत्वा उत्तीर्णः जातः। अधुना अहं संगणककक्षायां प्रवेष्टुम् इच्छामि। गणितविषये तु मया सर्वदा शतप्रतिशतम् अंकाः गृह्यन्ते। अद्यत्वे सर्वेषु कार्येषु संगणकम् अनिवार्यम्। कृपया मह्यम् स्वीकृतिं प्रदाय भवन्तः माम् अनुगृह्णन्तु।
सधन्यवादम्

Question. मञ्जूषायां प्रदत्त-शब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृतेन लिखत-
मंजूषा- चटका, गमय, पुष्पाणि, प्रणमतः, गृहाणि, सूर्योदयः, विकसन्ति, ज्योतिः, बालिका, वृक्षौ
Answer:
(i) चित्रे सूर्योदयः भवति।
(ii) अत्र उद्याने बालकः बालिका च प्रणमतः।
(iii) उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(iv) वृक्षाणां शाखासु चटकाः तिष्ठन्ति।
(v) चित्रस्य पृष्ठभागे कानिचित् गृहाणि शोभन्ते।

खण्डः (ग) अनुप्रयुक्त व्याकरणम्

Question. अधोलिखितेषु वाक्येषु रेखांकित पदानां संधि विच्छेदं वा कुरुत -
(i) विद्यालयः भवनम् विशालः अस्ति।
(a) विद्या + आलयः
(b) विद्या + लयः
(c) विद्यालय + अः
(d) विद्य + आलयः
Answer: (a) विद्या + आलयः

Question. तत् + शरेण वृक्षः छिन्नः अभवत्।
(a) तच्छरेण
(b) तच्छरेण
(c) तच्छरेण
(d) तत्शरेण
Answer: (a) तच्छरेण

Question. सूर्योदये सूर्यार्घ्यं दातव्यम्।
(a) सूर्योदय + ए
(b) सूर्यो + दये
(c) सूर्य + दये
(d) सूर्य + उदये
Answer: (d) सूर्य + उदये

Question. धेनुः तृणम् + चरति
(a) तृणञ्चरति
(b) तृणश्चरति
(c) तृणमचरति
(d) तृणञ्चरति
Answer: (a) तृणञ्चरति

Question. देवेन्द्रः शक्रः तत्रागच्छत्।
(a) देवे + न्द्रः
(b) दे + वेन्द्रः
(c) देव + इन्द्रः
(d) देव + एन्द्रः
Answer: (c) देव + इन्द्रः

Question. अधोलिखितेषु वाक्येषु रेखांकित पदानां समासं विग्रहं वा प्रदत्त-विकल्पेभ्यः चित्वा लिखत-
(i) वानरयूथपतिः अचिन्तयत्
(a) वानर यूथपतिः
(b) वानरयूथ पतिः
(c) वानरस्ययूथ पतिः
(d) वानरयूथस्य पतिः
Answer: (d) वानरयूथस्य पतिः

Question. रामः पञ्चानां वटानां समाहारः इति स्थाने अवसत्।
(a) पञ्चवटः
(b) पञ्चवटम्
(c) पञ्चवटी
(d) पञ्चवटिन
Answer: (c) पञ्चवटी

Question. राजपुत्रः राजभवने निवसति।
(a) राजायाः पुत्रः
(b) राज्ञः पुत्रः
(c) राजस्य पुत्रः
(d) राज्ञस्य पुत्रः
Answer: (b) राज्ञः पुत्रः

Question. सरोवरे नीलानि कमलानि शोभन्ते।
(a) नीलकमलाः
(b) नीलकमलानि
(c) नीलकमलम्
(d) नीलकमले
Answer: (b) नीलकमलानि

Question. अहं सर्वं क्रियायाः कलापं पश्यामि।
(a) क्रियालापं
(b) क्रियालापम्
(c) क्रियाकलापम्
(d) कृतालापानि
Answer: (c) क्रियाकलापम्

Question. विचित्रस्वप्नः मया दृष्टः।
(a) विचित्रः स्वप्नः
(b) विचित्र स्वप्नः
(c) विचित्राणि स्वप्नः
(d) विचित्राः स्वप्नः
Answer: (a) विचित्रः स्वप्नः

Question. अधोलिखितेषु वाक्येषु रेखांकित पदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं उत्तरं प्रदत्त-विकल्पेभ्यः चित्वा लिखत-
(i) श्रद्धावान् छात्रः लभते ज्ञानम्।
(a) श्रद्धा + मतुप्
(b) श्रद्धा + मतूप्
(c) श्रद्धा + वान्
(d) श्रद्धा + आवाण
Answer: (a) श्रद्धा + मतुप्

Question. धनी दानेन शोभते।
(a) धन + ई
(b) धन + इन्
(c) धन + ईनी
(d) धन + नी
Answer: (b) धन + इन्

Question. सरलसंस्कृतेन व्यवहारः करणीयः
(a) कर + णीयः
(b) कृ + नीयः
(c) कृ + अनीयर्
(d) करण + ईयः
Answer: (c) कृ + अनीयर्

Question. मानवः समाज + ठक् प्राणी अस्ति।
(a) सामाजिकी
(b) समाजिक
(c) सामाजिकः
(d) सामाजिक
Answer: (c) सामाजिकः

Question. मांसाहारं न कृ + अनीयर्
(a) करणीया
(b) करणीयः
(c) करणम्
(d) करणीयम्
Answer: (d) करणीयम्

Question. प्रदत्तविकल्पेभ्यः उचितं अव्ययपदं चित्वा वाक्येषु पूरयत-
(i) मम विद्यालये संस्कृतनाटकं ................... भवति।
(a) अपि
(b) इव
(c) विगत
(d) अन्यत्र
Answer: (a) अपि

Question. स ................... न आगतः।
(a) ऐव
(b) तत्र
(c) अति
(d) एव
Answer: (d) एव

Question. ................... तक्षशिलायां आचार्यः चाणक्यः आसीत्।
(a) प्रथमम्
(b) पुरा
(c) विगत
(d) पुरा
Answer: (b) पुरा

Question. स ................... परिश्रमं न करोति।
(a) वृथा
(b) पृथा
(c) इव
(d) उच्चैः
Answer: (a) वृथा

Question. ज्ञानं ................... सुखं न भवति।
(a) वृथा
(b) पृथा
(c) विना
(d) बिना
Answer: (c) विना

Question. अधोलिखितसंवादे रिक्तस्थानानि वाच्यानुसारं पूरयत-
राकेशः - प्रातःकाले भवान् किं करोति ?
राजेशः - मया पाठः ..........................
राकेशः - किं भ्रमणाय न गच्छति ?
राजेशः - न .......................... भ्रमणाय न गम्यते।
राकेशः - किं भवान् नित्यं व्यायामं अपि करोति ?
राजेशः - आम् ! मया नित्यं व्यायामं ..........................।
राकेशः - किं प्रातः मातरम् प्रणमति ?
राजेशः - आम् ! मया ..........................।
राकेशः - किं रात्रौ दूरदर्शनं पश्यति ?
राजेशः - न ! मया दूरदर्शनं न ..........................
मञ्जूषा- प्रणम्यते, मया, पठ्यते, क्रियते, दृश्यते
Answer:
राजेशः - मया पाठः पठ्यते
राजेशः - न मया भ्रमणाय न गम्यते।
राजेशः - आम् ! मया नित्यं व्यायामं क्रियते
राजेशः - आम् ! मया प्रणम्यते
राजेशः - न ! मया दूरदर्शनं न दृश्यते

Question. तव मित्रं कदा किं कार्यं करोति इति अङ्केषु दत्तं समयं संस्कृतशब्दैः लिखत -
सः प्रातः 5.00 वादने उत्तिष्ठति ।
ततः 7.30 वादने विद्यालयं गच्छति ।
अपराह्णे 3.15 वादने गृहम् आगच्छति ।
रात्रौ 9.45 वादने स्वपिति ।
Answer:
(i) 5.00 - पञ्चवादने
(ii) 7.30 - सार्धसप्तवादने
(iii) 3.15 - सपादत्रिवादने
(iv) 9.45 - पादोनदशवादने

खण्डः (घ) पठित - अवबोधनम्

Question. अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि लिखत -
राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत् - हे राजन् ! भवतः दानवीरतां आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि। देव ! रवि - शशि - तारा - मण्डलभूषितं जगत् एतत् कथम्इव पश्येयम् चक्षुर्हीनः। राजा उवाच - भगवन् ! भवन्मनोरथं पूरयित्वा आत्मानं अनुगृहीतं कर्तुम् इच्छामि।
एकपदेन उत्तरत-
(i) दानशीलतां परीक्षितुं कः अगच्छत् ?
(ii) देवाधिपतिः किम् धारयित्वा तत्पुरतः गत्वा अवदत् ?
Answer:
(i) शक्रः (देवाधिपतिः)
(ii) नेत्रहीनयाचकस्य रूपम्

Question. पूर्णवाक्येन उत्तरत- देवाधिपतिः किम् अवदत् ?
Answer: देवाधिपतिः अवदत् - "हे राजन् ! भवतः दानवीरतां आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि। देव ! रवि-शशि-तारा-मण्डलभूषितं जगत् एतत् कथम् इव पश्येयम् चक्षुर्हीनः।"

Question. यथानिर्देशं विकल्पेभ्यः चित्वा उत्तरत-
(i) शक्रः इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
(a) मण्डलभूषितं
(b) देव
(c) देवाधिपतिः
(d) अधिपतिः
Answer: (c) देवाधिपतिः

Question. 'अवदत्' इति पदस्य कृते किं कर्तृपदं प्रयुक्तम् ?
(a) शक्रः
(b) देव
(c) रवि
(d) अधिपतिः
Answer: (a) शक्रः

Question. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि लिखत -
अपूर्वः कोऽपि कोषोऽयं विद्यते तव भारति!
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ।।
एकपदेन उत्तरत्-
(i) विद्यायाः कोषः कीदृशः ?
(ii) व्ययतो का वृद्धिमायाति ?
Answer:
(i) अपूर्वः
(ii) कोषः (विद्याकोषः)

Question. पूर्णवाक्येन उत्तरत- सञ्चयात् किम् क्षयमायाति ?
Answer: सञ्चयात् विद्याकोषः क्षयम् आयाति।

Question. यथानिर्देशं उत्तरत -
(i) अस्मिन् श्लोके 'इदम्' इति सर्वनामपदस्य किं रूपं प्रयुक्तमस्ति ?
(a) अस्मिन्
(b) कोपि
(c) तव
(d) अयम्
Answer: (d) अयम्

Question. अस्मिन् श्लोके प्रयुक्त 'सञ्चयात्' पदे का विभक्तिः ?
(a) सप्तमी
(b) तृतीया
(c) पञ्चमी
(d) द्वितीया
Answer: (c) पञ्चमी

Question. अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानां उत्तराणि लिखत -
संगीता - अमूल्यः एषः पुस्तकानां संग्रहः।
रविः - संगीते! अयम् अस्माक विद्यालयस्य पुस्तकालयः।
संगीता - अहो! अत्र तु ग्रन्थचक्रिका अपि अस्ति।
रविः - आम्। अस्यां ग्रन्थचक्रिकायाम् अनेके संस्कृतग्रन्थाः स्थापिताः।
संगीता - (पठित्वा) वेदाः, रामायणं, महाभारतम्। कथमत्र गीता तु न दृश्यते।
रविः - अयि! गीता तु महाभारतस्य एव अंशः।
संगीता - आम्। स्मरामि।
एकपदेन उत्तरत-
(i) गीता कस्य अंशः ?
(ii) अमूल्यः केषां संग्रहः ?
Answer:
(i) महाभारतस्य
(ii) पुस्तकानाम्

Question. पूर्णवाक्येन उत्तरत- ग्रन्थचक्रिकायाम् के के संस्कृतग्रन्थाः स्थापिताः ?
Answer: ग्रन्थचक्रिकायाम् वेदाः, रामायणम्, महाभारतम् इत्यादयः संस्कृतग्रन्थाः स्थापिताः सन्ति।

Question. यथानिर्देशं विकल्पेभ्यः चित्वा उत्तरत-
(i) 'दृश्यते' इति क्रियापदस्य कर्तृपदं किम् ?
(a) वेदाः
(b) रामायणं
(c) महाभारतम्
(d) गीता
Answer: (d) गीता

Question. 'न' इत्यस्य किं विलोमपदं अनुच्छेदे प्रयुक्तम् ?
(a) आम्
(b) अहो
(c) अयि
(d) एव
Answer: (a) आम्

Question. अधोलिखितश्लोकयोः भावार्थं मञ्जूषातः समुचितपदानि चित्वा पूरयत्-
(क) कोऽनर्थफलः ? मानः, का सुखदा ? साधुजनमैत्री।
सर्वव्यसनविनाशे को दक्षः ? सर्वथा त्यागी ।।
भावार्थः- यस्य फलम् अनर्थः एव सः (1) ..........................। का सर्वदा सुखं ददाति ? सज्जनानां (2) ..........................। कः सर्वाः विपदः नाशयितुं चतुरः ? यः सर्वप्रकारेण त्यागी भवति।
मञ्जूषा - मानः, अभ्यासेन, मैत्री, मनः
Answer:
(1) मानः
(2) मैत्री

Question. (ख) असंश्यं महाबाहो ! मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय, वैराग्येण च गृह्यते ।।
भावार्थः- महाबाहो अर्जुन ! (1) .......................... निःसन्देहं चञ्चलम् अस्ति। अस्य उपरि नियन्त्रणं कठिनं परन्तु इदं वैराग्येण (2) .......................... च वशे आयाति।
मञ्जूषा - मानः, अभ्यासेन, मैत्री, मनः

Answer:
(1) मनः
(2) अभ्यासेन

Question. निम्नलिखितश्लोकस्य अन्वयं पूरयत -
(क) नास्ति विद्यासमं चक्षुः, नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं, नास्ति त्यागसमं सुखम् ।।
अन्वयः- विद्यासमं (1) .......................... न अस्ति, सत्यसमं (2) .......................... न अस्ति, रागसमं दुःखं न (3) .........................., त्यागसमं (4) .......................... न अस्ति।

Answer:
(1) चक्षुः
(2) तपः
(3) अस्ति
(4) सुखम्

Question. अधोलिखितवाक्येषु रेखांकितपदानां स्थाने विकल्पेभ्यः उचितं प्रश्नवाचकपदं प्रयुक्त प्रश्ननिर्माणं कुरुत-
(i) शिष्यः आचार्यात् पादम् आदत्ते।
(a) कस्य
(b) कुत्रतः
(c) कस्मात्
(d) कः
Answer: (c) कस्मात्

Question. विद्यया समं चक्षुः नास्ति।
(a) कया
(b) कस्य
(c) कस्मात्
(d) का
Answer: (a) कया

Question. दग्धाः मे घोटकाः।
(a) कस्य
(b) कस्याः
(c) के
(d) कथं
Answer: (a) कस्य

Question. कामात् क्रोधः अभिजायते।
(a) कस्य
(b) कुत्रतः
(c) कस्मात्
(d) कथं
Answer: (c) कस्मात्

Question. अधोलिखितवाक्यानि घटनाक्रमेण पुनः लेखनीयानि-
(i) एतेषां कलहो न वानराणां हिताय।
(ii) ते च सूपकाराः तम् आशु ताडयन्ति स्म।
(iii) नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म।
(iv) राजपुत्राः प्रासादे वानरैः क्रीडन्ति स्म।
(v) यूथपतेः वचनम् अप्रियं मत्वा कपयः प्राहसन्।
(vi) एषः कलहः नूनं भवतां विनाशकारणं भविष्यति।
(vii) अश्वाः प्राणत्राणाय इतस्ततः अधावन्।
(viii) सर्वे कपयः भयत्रस्ताः अभवन्।
Answer:
(i) नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म।
(ii) राजपुत्राः प्रासादे वानरैः क्रीडन्ति स्म।
(iii) एतेषां कलहो न वानराणां हिताय।
(iv) यूथपतेः वचनम् अप्रियं मत्वा कपयः प्राहसन्।
(v) एषः कलहः नूनं भवतां विनाशकारणं भविष्यति।
(vi) ते च सूपकाराः तम् आशु ताडयन्ति स्म।
(vii) अश्वाः प्राणत्राणाय इतस्ततः अधावन्।
(viii) सर्वे कपयः भयत्रस्ताः अभवन्।

Question. रेखांकितपदानां प्रसंगानुसारं उचितम् अर्थं चिनुत-
1. तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ?
(a) देयम्
(b) ग्राह्यम्
(c) कठिनम्
(d) अदेयम्
Answer: (c) कठिनम्

Question. कार्पण्यनिश्चितमतेः कः स्यात् पापादतरस्ततः।
(a) बुद्ध्या
(b) बुद्ध्यात्
(c) शुद्ध्या
(d) बुद्धिया
Answer: (a) बुद्ध्या

Question. कोऽन्धः ? योऽकार्ये रतः ?
(a) अलीनः
(b) कुलीनः
(c) लीनः
(d) अलिप्तः
Answer: (c) लीनः

Question. अपूर्वः कोऽपि कोषोऽयं विद्यते तव भारति
(a) लक्ष्मी
(b) सरस्वती
(c) काली
(d) दुर्गा
Answer: (b) सरस्वती

Free CBSE Practice Worksheets: Class 10 Languages Sanskrit

Practice Exercises for Class 10 Languages Sanskrit

Explore reliable practice questions for Sanskrit tailored for Class 10 Languages learners. Use these structured worksheets to evaluate exam preparedness and strengthen problem-solving skills throughout the 2026 academic session.

Step-by-Step Solutions and Practice Guidelines

Each worksheet draws directly from authorized standard textbooks to maintain academic accuracy. Evaluating your finished exercises against expert-verified solutions helps master the formal presentation standards expected in school evaluations.

Enhance Speed with Online Practice

Follow up your worksheet practice by attempting the interactive online MCQ tests for Sanskrit to evaluate your execution speed. All printable assignments and revision sheets on our platform are updated for the 2026 session and available free of charge.

FAQs

Where can I download the 2026-27 CBSE printable worksheets for Class 10 Languages Sanskrit?

You can download the latest chapter-wise printable worksheets for Class 10 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.

Are these Sanskrit Languages worksheets based on the new competency-based education (CBE) model?

Yes, Class 10 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.

Do the Class 10 Languages Sanskrit worksheets have answers?

Yes, we have provided solved worksheets for Class 10 Languages Sanskrit to help students verify their answers instantly.

Can I print these Sanskrit Languages test sheets?

Yes, our Class 10 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.

What is the benefit of solving chapter-wise worksheets for Languages Class 10 Sanskrit?

For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.