CBSE Class 10 Sanskrit Worksheet Set 02

Class 10 Languages Practice Sheet: CBSE Class 10 Sanskrit Worksheet Set 02

Access comprehensive chapter-wise worksheets for Sanskrit using the CBSE Class 10 Sanskrit Worksheet Set 02. Designed to align with the 2026-27 academic syllabus for Class 10 Languages, these printable practice sets help students reinforce key concepts and improve their overall exam readiness.

Download Sanskrit Worksheet PDF with Answers

View or download the dedicated CBSE Class 10 Sanskrit Worksheet Set 02 resource below. Engaging with these practice papers under focused study conditions ensures continuous academic progress and mastery of the 2026-27 curriculum for Sanskrit.

खण्डः 'क' (अपठितावबोधनम् - 15 अंकाः)

 

Question 1. अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत -
अनुच्छेदः - धन्यं तत् राष्ट्रं यस्य शिक्षकाः सततं चिन्तने पठने पाठने विद्यार्थिनां दिग्दर्शने च निरताः सन्ति। राष्ट्रनिर्माणस्य कार्ये अहनिशं संलग्नेभ्यः एतेभ्यः शिक्षकेभ्यः नमः।

I. एकपदेन उत्तरत -
क) कः राष्ट्रस्य निर्माता भवति?
Answer: शिक्षकः (शिक्षकाः)
ख) केभ्यः प्रेरणां गृहीत्वा विद्यार्थिनः उच्चादर्शान् पालयन्ति?
Answer: शिक्षकेभ्यः

II. पूर्णवाक्येन उत्तरत -
क) सद्गुरुः किं करोति?
Answer: सद्गुरुः विद्यार्थिनां दिग्दर्शनं करोति तथा च चिन्तने, पठने, पाठने च सततं निरतः भवति।
ख) कीदृशम् राष्ट्रं धन्यम्?
Answer: यस्य राष्ट्रस्य शिक्षकाः सततं चिन्तने पठने पाठने विद्यार्थिनां दिग्दर्शने च निरताः सन्ति, तत् राष्ट्रं धन्यम् अस्ति।

III. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
Answer: शिक्षकाणां महत्त्वम् (राष्ट्रनिर्मातारः शिक्षकाः)

IV. भाषिककार्यम् -
क) 'सन्ति' इति क्रियापदस्य किं कर्तृपदम् ?
अ) शिक्षकाः ब) विद्यार्थिनां स) नमः द) राष्ट्रं
Answer: अ) शिक्षकाः
ख) 'निरताः' अत्र कः प्रत्ययः प्रयुक्तः ?
अ) क्त ब) क्तवतु स) मतुप् द) शानच्
Answer: अ) क्त
ग) 'एतेभ्यः शिक्षकेभ्यः' अत्र किं विशेष्यपदम् ?
Answer: शिक्षकेभ्यः
घ) 'ये' इतिपदम् केभ्यःप्रयुक्तम् ?
अ) विद्यार्थिभ्यः ब) देशवासिभ्यः स) शिक्षकेभ्यः द) एतेभ्यः
Answer: स) शिक्षकेभ्यः
In simple words: एषः गद्यांशः शिक्षकाणां महत्त्वं वर्णयति। शिक्षकाः राष्ट्रस्य निर्मातारः सन्ति।

Exam Tip: एकपदेन उत्तरं लिखन् केवलं एकं पदम् एव लिखत, पूर्णवाक्ये च संपूर्णं वाक्यं लिखत येन पूर्णाः अंकाः प्राप्यन्ते।

 

Question 2. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत -
प्रातः काले समुत्थाय इष्टं नत्वा गुरुन् तथा।
नित्यकर्माणि सम्पाद्य यः पठेत् सः सुखी भवेत्।।

एकपदेन उत्तरत -
(क) कदा जागरणीयम् ?
Answer: प्रातः काले
(ख) आदौ कं नमनीयम् ?
Answer: इष्टं गुरुन् च (इष्टम्)

पूर्णवाक्येन उत्तरत -
कः सुखी भवेत् ?
Answer: यः प्रातः काले समुत्थाय इष्टं गुरुन् च नत्वा नित्यकर्माणि सम्पाद्य पठति सः सुखी भवेत्।

भाषिककार्यम् -
(क) नत्वा इति पदे कः प्रत्ययः ?
(अ) क्त्वा (ब) तुमुन् (स) त्वा (द) ल्यप्
Answer: (अ) क्त्वा
(ख) पठेत् इति पदे कः लकारः ?
(अ) लट् (ब) लङ् (स) लोट् (द) विधिलिङ्
Answer: (द) विधिलिङ्
In simple words: यः जनः प्रातः शीघ्रं उत्थाय देवं गुरुं च नमस्करोति, स्वकार्याणि कृत्वा पठति, सः सदा सुखी भवति।

Exam Tip: 'नत्वा' इति पदे क्त्वा प्रत्ययः अस्ति। प्रत्यय-प्रकरणे धातूनां मूलरूपं प्रत्ययं च सम्यक् स्मरत।

 

खण्डः 'ख' (रचनात्मकं कार्यम् - 15 अंकाः)

 

Question 3. पत्रलेखनम् - भवान् रायगढ़ नगरस्य वास्तव्यः उमानाथः । भवतः मित्रम् परमानन्दः दिल्ली नगरे वसति । तं परीक्षायाम् सफलतायाै वर्धापनपत्रं मञ्जूषायाः सहायतया लिखत -
मञ्जूषा - उमानाथः, अपश्यम्, महती, आगतः, छात्रवृत्तिम्, तुभ्यम्, परमानन्दः, अभिन्नहृदयं, तत्रास्तु, रायगढ़नगरतः

(1).................
दिनांकः 02.12.2013
प्रिय मित्र !
(2)................. ।
अत्र कुशलं (3)................. ।
अद्यैव तव परिणामः (4)................. । तव सफलताम् ज्ञात्वा मम मनसि (5)................. प्रसन्नता जाता । मम एषा प्रसन्नता अधिकतरता जाता यदा अहम् तव नाम योग्यता सूचौ (6)................. । त्वया सप्त-शतानि अंकाः प्राप्ताः । त्वं निश्चित-रूपेण (7)................. प्राप्स्यसि । त्वया परिवारस्य विद्यालयस्य च नाम उज्ज्वलीकृतम् ।
अस्याम् उज्ज्वल सफलतायाम् अहम् (8)................. हार्दिकं वर्धापनम् यच्छामि उज्ज्वल-भविष्याय च कामये । मातृपितृचरणेषु प्रणामाः ।
तव (9)................. मित्रम्
(10).................

Answer:
(1) रायगढ़नगरतः
(2) परमानन्द
(3) तत्रास्तु
(4) आगतः
(5) महती
(6) अपश्यम्
(7) छात्रवृत्तिम्
(8) तुभ्यम्
(9) अभिन्नहृदयं
(10) उमानाथः
In simple words: एतत् पत्रं मित्राय परीक्षायां सफलतायाः अभिनन्दनार्थं लिखितम् अस्ति।

Exam Tip: पत्रलेखने मञ्जूषायाः शब्दान् उचितस्थाने पूरयितुं वाक्यस्य अर्थं लिङ्गं च अवश्यं ध्यानपूर्वकं पठन्तु।

 

Question 4. चित्रवर्णनम् - अधोप्रदत्तं चित्रं मञ्जूषायाः सहायतया पञ्चवाक्येषु वर्णयत -
मञ्जूषा - f f}pfØdk] f=pfØdk] cl;kukfu] dkjpkydk%] tuk%] fookne~] ,rr~ fp=e~] jktekxZ%] okgukfu] vu sd e~] Hkoukfu] lfUr] vu sd s o `{kk%] clpkyd%] uxje~
(द्विचक्रीका, त्रिचक्रीका, बसयानानि, कारचालकाः, जनाः, विवादम्, एतत् चित्रम्, राजमार्गः, वाहनानि, अनेके, भवनानि, सन्ति, अनेके वृक्षाः, बसचालकः, नगरम्)
Answer:
1. एतत् चित्रं एकस्य व्यस्तस्य नगरस्य राजमार्गस्य अस्ति।
2. राजमार्गे अनेकानि वाहनानि यथा द्विचक्रीका, त्रिचक्रीका, बसयानानि च चलन्ति।
3. मार्गे कारचालकाः बसचालकाः च स्ववाहनानि चालयन्ति।
4. चित्रे अनेके जनाः राजमार्गस्य पार्श्वे गच्छन्तः दृश्यन्ते।
5. मार्गस्य उभयतः अनेके वृक्षाः विशालानि भवनानि च सन्ति।

अथवा (OR)

अनुच्छेदलेखनम् - मञ्जूषायां प्रदत्तशब्दानां सहायतया 'आणविकास्त्राणां प्रयोगः' इति विषयम् अधिकृत्य पञ्चसंस्कृतवाक्यानि लिखत ।
मञ्जूषा - इतस्ततः, विनाशाय, मानवता, आवश्यकं, सभ्यतायाः, परिवर्तनीयम्, विकलाङ्गाः
Answer:
1. आणविकास्त्राणां प्रयोगः समग्रविश्वस्य विनाशाय भवति।
2. एषा विनाशकारी प्रवृत्तिः मानवतायाः सभ्यतायाः च कृते अतीव हानिकरी अस्ति।
3. आणविकयुद्धस्य प्रभावेण अनेके निर्दोषाः जनाः विकलाङ्गाः भवन्ति।
4. अद्य इतस्ततः विनाशस्य वातावरणं दूरीकर्तुं आणविकप्रयोगस्य चिन्तनं परिवर्तनीयम् अस्ति।
5. विश्वशान्तये आणविकास्त्राणां प्रयोगस्य निषेधः अतीव आवश्यकं अस्ति।
In simple words: चित्रे नगरस्य मार्गस्य व्यस्तता दर्शिता अस्ति। अथवा आणविकशस्त्राणां प्रयोगः विश्वस्य कृते हानिकारकः अस्ति इति वर्णितम्।

Exam Tip: चित्रवर्णने लघुनि सरलादि वाक्यानि रचयत येन व्याकरणगताः अशुद्धयः न भवेयुः।

 

खण्डः 'ग' (अनुप्रयुक्तव्याकरणम् - 30 अंकाः)

 

Question 5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदम् वा कृत्वा लिखत -
क) एतत् कार्यं तु कुक्कुटोऽपि करोति।
ख) उभावपि मित्रे आस्ताम्।
ग) जगत् + नाथः सर्वान् रक्षति।
घ) अयं शोकः। (अयम् + शोकः)
Answer:
क) कुक्कुटोऽपि - कुक्कुटः + अपि (विसर्ग सन्धिः)
ख) उभावपि - उभौ + अपि (अयादि सन्धिः)
ग) जगत् + नाथः - जगन्नाथः (व्यञ्जन सन्धिः)
घ) अयम् + शोकः - अयं शोकः (अनुस्वार सन्धिः)
In simple words: अत्र सन्धिः सन्धिच्छेदः च कृतः अस्ति। विसर्ग-व्यञ्जन-स्वराणां नियमाः प्रयुक्ताः।

Exam Tip: सन्धि-प्रकरणे विसर्गस्य उत्वं तथा च वर्गीयप्रथमाक्षरस्य पञ्चमाक्षरपरिवर्तनं विशेषरूपेण अभ्यस्यत।

 

Question 6. अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां समास विग्रहं वा कोष्ठकात् उचितं पदं चित्वा लिखत -
क) तस्य पिता नीलः कण्ठः यस्य सः तस्य उपासकः आसीत् ।
क) नीलकण्ठस्य ख) नीलकण्ठः ग) नीलकण्ठः घ) नीलकण्ठस्याः
ख) माता च पिता च पूजायोग्यौ भवतः ।
क) पितरः ख) पितरौ ग) मातरौ घ) मातपितरः
ग) स्थितप्रज्ञः इव अविचलं शीतले जले तिष्ठामि ।
क) स्थितः प्रज्ञः ख) स्थितः प्रज्ञा इव ग) स्थिता प्रज्ञा यस्य सः घ) स्थितम् प्रज्ञम्
घ) प्रच्छन्नभाग्यः करुणया सह उच्चैः अक्रन्दत् ।
क) सहकरुणः ख) सकरुणम् ग) सकरुणः घ) सकरुणा
ङ) सर्वेषाम् महत्त्वं विद्यते यथासमयम् ।
क) समयम् अनतिक्रम्य ख) यथा समयम् ग) समयम् अतिक्रम्य घ) उचितम् समयम्
Answer:
क) ख) नीलकण्ठः (बहुव्रीहिः)
ख) ख) पितरौ (द्वन्द्वः)
ग) ग) स्थिता प्रज्ञा यस्य सः (बहुव्रीहिः विग्रहः)
घ) ख) सकरुणम् (अव्ययीभावः)
ङ) क) समयम् अनतिक्रम्य (अव्ययीभावः विग्रहः)
In simple words: अत्र समासानां वर्गीकरणं कृतम् अस्ति। द्वन्द्व-अव्ययीभाव-बहुव्रीहि-समासाः अत्र सन्ति।

Exam Tip: अव्ययीभावसमासे 'यथा' शब्दस्य विग्रहे 'अनतिक्रम्य' पदस्य प्रयोगः तथा च द्वन्द्वसमासे 'पितरौ' इत्यस्य 'माता च पिता च' विग्रहः अतीव महत्त्वपूर्णः अस्ति।

 

Question 7. अधोलिखितवाक्येषु रेखाङ्कितेषु पदेषु प्रकृति-प्रत्ययोः विग्रहं कृत्वा कोष्ठकात् उचितं विकल्पं चित्वा लिखत -
(i) दैवगतिः खलु विचित्र + टाप् ।
क) विचित्रा ख) विचित्रता ग) विचित्रतम् घ) विचित्र
(ii) त्रैलोक्यं दह् + शतृ इव प्रचण्डज्वालः अग्निः परितः प्रसरति ।
क) दहतः ख) दहन्तः ग) दहन् घ) दहन्ती
(iii) किं ते महत् + त्व ?
क) महनीयता ख) माहात्म्यम् ग) महत्त्वम् घ) महानता
(iv) अहमेव जननी पक्षिणाम् ।
क) जनन + ङीप् ख) जनन + इन् ग) जन + नी घ) जन् + णिनि
(v) स्थापयता विधात्रा अहं पक्षीराज कृतः ।
क) स्था + णिच्छ् + शतृ ख) स्था + इन् ग) स्थाप् + यता घ) स्थापय + ता
Answer:
(i) क) विचित्रा (विचित्र + टाप्)
(ii) ग) दहन् (दह् + शतृ - पुंल्लिङ्ग प्रथमा एकवचनम्)
(iii) ग) महत्त्वम् (महत् + त्व)
(iv) क) जनन + ङीप् (or जनन् + ङीप्)
(v) क) स्था + णिच् + शतृ (तृतीया एकवचनम् - स्थापयता)
In simple words: अत्र कृदन्त-तद्धित-स्त्रीप्रत्ययानां प्रकृति-प्रत्यय-विभागः कृतः अस्ति।

Exam Tip: स्त्रीप्रत्यययोः 'टाप्' (आ) तथा च 'ङीप्' (ई) इत्येतयोः प्रयोगात् रूपाणि कथं सिध्यन्ति इति विशेषतया ध्यानेन पठत।

 

Question 8. अधोलिखितानां वाक्यानां रिक्तस्थानेषु मञ्जूषातः अव्ययपदानि चित्वा पूरयत -
मञ्जूषा - मा, यावत्, इति, कदापि, श्वः
(i) ............ शैलाः विद्यन्ते तावत् रामायणी कथा भविष्यति ।
(ii) 'अद्य एवमेव अभवत्' ............ सोऽवदत् ।
(iii) पुस्तकालयस्य उच्चैः ............ हस ।
(iv) ............ मम मातुलः अत्रैव खेलिष्यति ।
(v) वानराः तु ............ मांसं न खादन्ति ।
Answer:
(i) यावत् (यावत्... तावत् सहसम्बन्धः)
(ii) इति (कथनसमाप्तौ)
(iii) मा (निषेधार्थे)
(iv) श्वः (भविष्यत्काले)
(v) कदापि (सदा निषेधार्थे)
In simple words: अव्ययपदानि काल-निषेध-सम्बन्धवाचकत्वेन वाक्यानि पूरयन्ति।

Exam Tip: वाक्यस्य क्रियापदं भविष्यत्काले (यथा - खेलिष्यति) अस्ति चेत् 'श्वः' अव्ययस्य प्रयोगः सुकरः भवति।

 

Question 9. (क) अधोलिखितवाक्ये रिक्तस्थाने किं पदं भविष्यति ?
क) मम समीपे ............ गृहाणि सन्ति ।
अ) चतुराः ब) चतस्रः स) चत्वारि द) चत्वारः
ख) सुनीता ............ बालिकासु प्रथमं स्थानं प्राप्तवती ।
अ) पञ्च ब) पञ्चभ्यः स) पञ्चसु द) पञ्चानाम्
ग) सर्वे जनाः ............ बसयानैः भ्रमणाय अगच्छन् ।
अ) त्रीणि ब) त्रिभिः स) त्रयः द) तिस्रः

(ख) कोष्ठके प्रदत्तशब्दे उचितविभक्तिं प्रयुज्य वाक्यपूर्तिं क्रियताम् -
क) भारतवर्षे ............ रत्नानि कथ्यन्ते । (त्रि)
ख) हस्ते ............ अङ्गुल्यः भवन्ति । (पञ्च)
ग) अस्माकं विद्यालयस्य बहिः ............ वृक्षाः आसन् । (चतुर्)
घ) मम हस्त-पादेषु ............ अङ्गुल्यः सन्ति । (20)

Answer:
(क)
क) स) चत्वारि (नपुंल्लिङ्ग विशेष्यं 'गृहाणि' इति कारणतः)
ख) स) पञ्चसु (सप्तमी बहुवचनं 'बालिकासु' इत्यनेन सह)
ग) ब) त्रिभिः (तृतीया बहुवचनं 'बसयानैः' इत्यनेन सह)
(ख)
क) त्रीणि
ख) पञ्च
ग) चत्वारः
घ) विंशतिः
In simple words: संख्याशब्दाः विशेष्यस्य लिङ्ग-वचन-विभक्त्यनुसारं प्रयुक्ताः भवन्ति।

Exam Tip: १ तः ४ पर्यन्तं संख्यानां रूपाणि त्रिषु लिङ्गेषु भिन्नानि भवन्ति, ५ तः परं समानरूपाणि भवन्ति। एतत् नियमं स्मरत।

 

Question 10. अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धं वर्तते । शुद्धं पदं चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत -
(i) सरोवरे कमलाः विकसन्ति ।
क) कमलः ख) कमलम् ग) कमलौ घ) कमलानि
(ii) अत्र मृगौ चरन्ति ।
क) मृगः ख) मृगाः ग) मृगान् घ) मृगैः
(iii) अहं दुग्धं पिबसि ।
क) वयम् ख) त्वम् ग) आवाम् घ) युवाम्
(iv) ह्यः होली पर्व अस्त । (ह्यः होली पर्व अस्ति)
क) आसीत् ख) सन्ति ग) अस्तु घ) आसन्
(v) पयः मधुरः भवति ।
क) मधुर ख) मधुरम् ग) मधुरा घ) मधुराणि
(vi) सर्वाः बालिकाः अत्र पठतः ।
क) पठन्ति ख) पठन्ति ग) पठिष्यति घ) अपठत्
Answer:
(i) घ) कमलानि (कमलशब्दः नपुंल्लिङ्गः अस्ति)
(ii) ख) मृगाः (क्रियापदं 'चरन्ति' इति बहुवचने अस्ति)
(iii) ख) त्वम् (पिबसि इति मध्यमपुरुषैकवचनस्य कर्तृपदम्)
(iv) क) आसीत् ('ह्यः' इत्युक्ते भूतकालः)
(v) ख) मधुरम् ('पयः' नपुंल्लिङ्गैकवचनं विशेष्यम् अस्ति)
(vi) क) पठन्ति ('बालिकाः' प्रथमपुरुषबहुवचनस्य क्रियापदम्)
In simple words: कर्तृ-क्रिया-सम्बन्धः तथा च लिङ्ग-वचन-संशोधनं कृत्वा शुद्धवाक्यानि लिखितानि।

Exam Tip: अशुद्धि-संशोधने सर्वदा कर्तृपदस्य पुरुषं वचनं तथा च क्रियापदस्य कालं (ह्यः/श्वः) विशेषरूपेण पश्यन्तु।

 

खण्डः 'घ' (पठितांश-अवबोधनम् - 30 अंकाः)

 

Question 11. अधोलिखितं गद्यांशं पद्यांशं नाट्यांशं च पठित्वा प्रदत्तप्रश्नानामुत्तराणि लिखत -

(i) गद्यांश - कृतयुगं त्रेतायुगं कलियुगंचेति चत्वारि युगानि । चतुर्णां युगानां समूहः एव महायुगम् । एकसप्ततिमहायुगानाम् एकं मन्वन्तरम् । एकः कल्पः एव ब्रह्मणः एकं दिनं मन्यते । ब्रह्मणः आयुः शतं वर्षाणि । मम कलनस्य आधारः सूर्य एव ।

I. एकपदेन उत्तरत -
क) कः ब्रह्मणः एकं दिनं मन्यते?
Answer: कल्पः (एकः कल्पः)
ख) चतुर्णां युगानां समूहः किं भवति ?
Answer: महायुगम्

II. पूर्णवाक्येन उत्तरत -
कानि चत्वारि युगानि ?
Answer: कृतयुगं, त्रेतायुगं, द्वापरयुगं, कलियुगं च इति चत्वारि युगानि सन्ति।

III. भाषिककार्यम् -
(i) 'मम' इति सर्वनाम पदं कस्मै प्रयुक्तम् ?
क) सूर्याय ख) कालाय ग) ब्रह्मणाए घ) युगाय
Answer: ख) कालाय (कालः स्वपरिचयं ददाति)
(ii) 'युगानाम्' इति पदस्य विशेषण पदं किम् ?
क) चत्वारि ख) चतुर्णाम् ग) समूहः घ) शतम्
Answer: ख) चतुर्णाम्

(ii) पद्यांश -
R;DRok /keZi znk a okp a i#"kk a ;ks·H;qnhj; sr ~ A
ifjR;T; Qya iDo a Hk q³ ~Drs·iDo a foe w (त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।)

I. एकपदेन उत्तरत -
क) विमूढधीः कीदृशं फलं त्यजति ?
Answer: पक्वं फलं
ख) अपक्वं फलं कः खादति ?
Answer: विमूढधीः (मूर्खः)

II. पूर्णवाक्येन उत्तरत -
मूढः पुरुषः कीदृशीं वाणीं वदति ?
Answer: मूढः पुरुषः धर्मप्रदां वाणीं त्यक्त्वा परुषां (कठोरां) वाणीं वदति।

III. भाषिककार्यम् -
क) पद्यांशे 'मधुरम्' इत्यस्य किं विलोमपदं प्रयुक्तम् ?
अ) धर्मप्रदाम् ब) कोमलाम् स) परुषाम् द) शीतलाम्
Answer: स) परुषाम्
ख) 'वाचनम्' इत्यस्य विशेषणं किमस्ति ?
अ) धर्मप्रदाम् ब) पक्वम् स) हितम् द) धर्मः
Answer: अ) धर्मप्रदाम्

(iii) नाट्यांश -
अश्वत्थामा- रे दुष्ट भीम! त्वम् अद्य वध्योऽसि मया । (विलोक्य) अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च ? इदानीं किं करवाणि ? आः दृष्टम्, अस्मिन् विषमे समये ब्रह्मास्त्रम् एव मे शरणम् । मोचयामि अस्त्रम् । (ध्यानं नाटयति ब्रवीति च) इदम् अपाण्डवाय ।
श्रीकृष्णः- पार्थ, पश्य, पश्य । एतद् विमुच्यते ब्रह्मास्त्रं द्रोणपुत्रेण! त्रैलोक्यं दहन् इव प्रचण्डज्वालः अग्निः परितः प्रसरति। अर्जुन! अर्जुन! त्वमपि मुञ्च ब्रह्मास्त्रम् एतत् निवारयितुम् ।

I. एकपदेन उत्तरत -
क) अश्वत्थामा अद्य कः वध्यः अस्ति ?
Answer: भीमः
ख) विषमे समये द्रोणपुत्रस्य किं शरणम् ?
Answer: ब्रह्मास्त्रम्

II. पूर्णवाक्येन उत्तरत -
द्रोणपुत्रस्य ब्रह्मास्त्रविमोचनेन कः परिणामः भवति ?
Answer: द्रोणपुत्रस्य ब्रह्मास्त्रविमोचनेन त्रैलोक्यं दहन् इव प्रचण्डज्वालः अग्निः सर्वतः प्रसरति।

III. भाषिककार्यम् -
(i) 'पार्थ' इति सम्बोधनं कस्मै प्रयुक्तम् ?
क) भीमाय ख) युधिष्ठिराय ग) अर्जुनाय घ) द्रोणपुत्राय
Answer: ग) अर्जुनाय
(ii) 'अग्निः' पदस्य विशेषणं चित्वा लिखत ।
क) त्रैलोक्यं ख) दहन् ग) प्रचण्डज्वालः घ) परितः
Answer: ग) प्रचण्डज्वालः
(iii) 'मुञ्च' इत्यस्य कर्तृपदं किम् ?
क) ब्रह्मास्त्रम् ख) अपि ग) एतत् घ) त्वम्
Answer: घ) त्वम् (त्वमपि मुञ्च इत्यत्र 'त्वम्' इति)
In simple words: गद्यांशे कालस्य महत्त्वं, पद्यांशे मधुरवाण्याः महत्त्वं, नाट्यांशे च महाभारतस्य युद्धप्रसङ्गः वर्णितः अस्ति।

Exam Tip: पठित-अवबोधने प्रश्नानाम् उत्तराणि अनुच्छेदादेव अन्वेषणीयानि। विशेष्य-विशेषणपदेषु विभक्तिसाम्यं भवति, एतत् सर्वदा स्मरत।

 

Question 12. अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा उत्तरपुस्तिकायां लिखत -
(क) विश्वस्य आत्माऽहम् ।
(i) कालः यत्र-तत्र व्याप्तः ।
(ii) कालः संसारस्य आत्मा ।
(iii) कालः विश्वस्य निर्माता ।
(iv) कालस्य गणना अति महत्त्वपूर्णा ।

(ख) अलम् मिथः कलहेन ।
(i) अनर्गलं प्रलापं मा कुरु ।
(ii) मिथ्यावार्तालापः न करणीयः ।
(iii) मिथ्याकलहः न करणीयः युष्माभिः ।
(iv) परस्परं विवादः न करणीयः ।
Answer:
(क) (ii) कालः संसारस्य आत्मा ।
(ख) (iv) परस्परं विवादः न करणीयः ।
In simple words: कथनानां मुख्यं भावं विकल्पात् चित्वा लिखितम् अस्ति।

Exam Tip: भावार्थ-प्रश्नेषु पद्यानां गूढार्थं सरलशब्देषु अवगन्तुं यतध्वम्।

 

Question 13. अधोलिखितश्लोकयोः अन्वययोः रिक्तस्थानपूर्तिं कुरुत -
वाक्पटुः धैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते।।
अन्वयः - यः मन्त्री वाक्पटुः, (1) ............ सभायाम् (2) ............ अकातरः (अस्ति) । सः (3) ............ केनापि प्रकारेण न (4) ............ ।

हंसः श्वतः बकः श्वतः, को भेदः बकहंसयोः।
नीरक्षीरविवेके तु हंसो हंसः बको बकः।।
अन्वयः - हंसः (1) ............ बकः (2) ............ हंसबकयोः कः भेदः ? (3) ............ तु हंसः हंसः (4) ............ बकः।
Answer:
प्रथम श्लोकस्य अन्वयः:
(1) धैर्यवान्
(2) अपि
(3) परैः
(4) परिभूयते
द्वितीय श्लोकस्य अन्वयः:
(1) श्वेतः
(2) श्वेतः
(3) नीरक्षीरविवेके
(4) बकः
In simple words: अन्वये श्लोकस्य शब्दाः व्याकरणनियमानुसारं क्रमबद्धरूपेण स्थाप्यन्ते।

Exam Tip: अन्वये रिक्तस्थानपूरणसमये श्लोकस्य पदानि अर्थानुसारेण उचितक्रमे योजयत।

 

Question 14. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(i) विषादं त्यक्त्वा उद्यमः क्रियताम् ।
अ) किमर्थम् ब) कुतः ग) किम् घ) कदा
(ii) हंसस्य बकस्य च श्वेतः वर्णः अस्ति ।
अ) कीदृशः ब) कुतः ग) कः घ) कदा
(iii) मूर्खाणां वदने नाममात्रमेव नेत्रे भवतः ।
अ) कौ ब) के ग) किम् घ) कदा
(iv) संवत्सरे द्वादश मासाः भवन्ति ।
अ) किमर्थम् ब) कुत्र ग) कति घ) कीदृशम्
(v) अहं पुस्तकं पठामि ।
अ) किमर्थम् ब) कः ग) कति घ) किम्
Answer:
(i) ग) किम् (किं त्यक्त्वा उद्यमः क्रियताम्?)
(ii) अ) कीदृशः (हंसस्य बकस्य च कीदृशः वर्णः अस्ति?)
(iii) ब) के (मूर्खाणां वदने नाममात्रमेव के भवतः? - 'नेत्रे' नपुंल्लिङ्ग द्विवचनम्)
(iv) ग) कति (संवत्सरे कति मासाः भवन्ति?)
(v) घ) किम् (अहं किं पठामि?)
In simple words: रेखाङ्कितपदानि आधृत्य 'किम्' शब्दस्य रूपैः प्रश्ननिर्माणं कृतम्।

Exam Tip: प्रश्ननिर्माणे सर्वदा रेखाङ्कितपदस्य लिङ्गं, वचनं, विभक्तिं च ज्ञात्वा 'किम्' शब्दस्य तदेव रूपं प्रयुञ्जीत।

 

Question 15. निम्नलिखितवाक्यानि घटनाक्रमानुसारं पुनः लिखत -
(i) दुष्टबुद्धिः चौर्यकर्मं न परित्यक्तवान्।
(ii) प्रच्छन्नभाग्यः पापपथं त्यक्त्वा गृहम् आगतः।
(iii) एकदा तौ धनहरणार्थं ग्रामान्तरं प्रस्थितौ।
(iv) प्रच्छन्नभाग्यः दुष्टबुद्धिः च मित्रे आस्ताम्।
(v) बालकस्य वचनेन प्रच्छन्नभाग्यस्य मनः परिवर्तितम् अभवत्।
(vi) केचन बालकाः नतोन्नते मार्गे क्रीडन्ति स्म।
(vii) एकः बालकः प्रच्छन्नभाग्यस्य दोषं निर्दिष्टवान्।
(viii) नतोन्नते मार्गे मा क्रीडत इति ते मित्रे बालकान् उक्तवन्तौ।
Answer:
घटनाक्रमानुसारं शुद्धः क्रमः अधोलिखितः अस्ति:
1. (iv) प्रच्छन्नभाग्यः दुष्टबुद्धिः च मित्रे आस्ताम्।
2. (i) दुष्टबुद्धिः चौर्यकर्मं न परित्यक्तवान्।
3. (iii) एकदा तौ धनहरणार्थं ग्रामान्तरं प्रस्थितौ।
4. (vi) केचन बालकाः नतोन्नते मार्गे क्रीडन्ति स्म।
5. (viii) नतोन्नते मार्गे मा क्रीडत इति ते मित्रे बालकान् उक्तवन्तौ।
6. (vii) एकः बालकः प्रच्छन्नभाग्यस्य दोषं निर्दिष्टवान्।
7. (v) बालकस्य वचनेन प्रच्छन्नभाग्यस्य मनः परिवर्तितम् अभवत्।
8. (ii) प्रच्छन्नभाग्यः पापपथं त्यक्त्वा गृहम् आगतः।
In simple words: एषा कथा प्रच्छन्नभाग्यस्य सदाचारपरिवर्तनं वर्णयति।

Exam Tip: घटनाक्रम-प्रश्नेषु पूर्वं सर्वाणि वाक्यानि पठित्वा कथायाः प्रवाहं मनसि सम्यक् संयोजयत, तदनन्तरमेव उत्तरं लिखत।

 

Question 16. अधोलिखितपङ्क्तिषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धं अर्थं चित्वा लिखत -
(i) अलम् अलम् मिथः कलहेन ।
अ) परस्परम् ब) मा कुरु ग) नित्यम् घ) कीदृशम्
(ii) सः सव्येन पाणिना चक्रं गृहीतवान् । (सव्येन पाणिना)
अ) जलेन ब) हस्तेन ग) सुन्दरम् घ) मुनिना
(iii) काकस्य गात्रं यदि काञ्चनस्य ।
अ) मुखम् ब) चञ्चु ग) शरीरम् घ) अधरम्
Answer:
(i) अ) परस्परम् (मिथः इत्युक्ते परस्परम्)
(ii) ब) हस्तेन (पाणिना इत्युक्ते हस्तेन - पाणिः=हस्तः)
(iii) ग) शरीरम् (गात्रं इत्युक्ते शरीरम्)
In simple words: रेखाङ्कितपदानां पर्यायशब्दाः प्रसङ्गानुसारं लिखिताः सन्ति।

Exam Tip: पाठ्यपुस्तके आगतानां कठीनशब्दानां शब्दार्थान् पर्यायशब्दान् च ध्यानेन स्मरत, एते परीक्षासु बहुधा पृच्छ्यन्ते।

Download Class 10 Languages Sanskrit Practice Worksheets

Download Chapter Worksheets: Class 10 Languages

Review targeted practice exercises for Class 10 Languages Sanskrit. Curated to match official CBSE guidelines, these printable problem sets support daily revision and improve overall test readiness.

Concept Clarification for Sanskrit

Each worksheet draws directly from authorized standard textbooks to maintain academic accuracy. Evaluating your finished exercises against expert-verified solutions helps master the formal presentation standards expected in school evaluations.

Effective Revision Strategies for School Exams

Follow up your worksheet practice by attempting the interactive online MCQ tests for Sanskrit to evaluate your execution speed. All printable assignments and revision sheets on our platform are updated for the 2026 session and available free of charge.

FAQs

Where can I download the 2026-27 CBSE printable worksheets for Class 10 Languages Sanskrit?

You can download the latest chapter-wise printable worksheets for Class 10 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.

Are these Sanskrit Languages worksheets based on the new competency-based education (CBE) model?

Yes, Class 10 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.

Do the Class 10 Languages Sanskrit worksheets have answers?

Yes, we have provided solved worksheets for Class 10 Languages Sanskrit to help students verify their answers instantly.

Can I print these Sanskrit Languages test sheets?

Yes, our Class 10 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.

What is the benefit of solving chapter-wise worksheets for Languages Class 10 Sanskrit?

For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.