CBSE Class 10 Sanskrit Worksheet Set 01

Download Class 10 Languages Practice Worksheets

Access comprehensive chapter-wise worksheets for Sanskrit using the CBSE Class 10 Sanskrit Worksheet Set 01. Designed to align with the 2026-27 academic syllabus for Class 10 Languages, these printable practice sets help students reinforce key concepts and improve their overall exam readiness.

Access Sanskrit Practice Papers and Solutions

View or download the dedicated CBSE Class 10 Sanskrit Worksheet Set 01 resource below. Engaging with these practice papers under focused study conditions ensures continuous academic progress and mastery of the 2026-27 curriculum for Sanskrit.

अधोलिखितवाक्येषु प्रकृतिप्रत्ययौ संयोज्य वियोज्य वा लिखत ।

Question. न्यायाधीशेन न्यायः .................... । (कृ+अनीयर्)
Answer: करणीयः

Question. पत्रवाहकेन पत्राणि ..................... । (आ+नी+तव्यत्)
Answer: आनेतव्यानि

Question. मया सदा ............................. । (पठ्+तव्यत्)
Answer: पठितव्यम्

Question. ........................ (हनु+मतुप्) पूज्यः वर्तते ।
Answer: हनुमान्

Question. भारते अनेकानि ................... (दर्शनीयानि) स्थानानि सन्ति ।
Answer: दृश् + अनीयर्

Question. ..................... (दान+इन्) धन्याः लोके ।
Answer: दानिनः

Question. (नैतिकी) ................. शिक्षा आवश्यकी ।
Answer: नीति + ठक् + ङीप्

Question. मनुष्यः .................... (समाज+ठक्) प्राणी अस्ति ।
Answer: सामाजिकः

Question. (धीमन्तः) ................. सभ्यैः सह मैत्रीं कुर्वन्ति ।
Answer: धी + मतुप्

Question. इदं कार्यं ................... (धर्म+ठक्) अस्ति ।
Answer: धार्मिकम्

अधोलिखितवाक्येषु रेखांकितपदानां समासं विग्रहं वा चित्वा प्रदत्तविकल्पेभ्यः उत्तरपुस्तिकायां लिखत ।

Question. तस्मिन् राजगृहे बालवाहनयोग्यं मेषयूथम् आसीत् ।
(a) राजस्य गृहे
(b) राजानः गृहे
(c) राज्ञः गृहे
Answer: (c) राज्ञः गृहे

Question. सः नीलोत्पलम् इव चक्षुः उत्पाट्य याचकाय समर्पितवान् ।
(a) नीलम् उत्पलम्
(b) नीलस्य उत्पलम्
(c) नीलो त्पलम्
Answer: (a) नीलम् उत्पलम्

Question. पुरुषः न इच्छन् अपि पापं चरति ।
(a) अइच्छन्
(b) अनिच्छन्
(c) निच्छन्
Answer: (b) अनिच्छन्

Question. पञ्चानां गवां समाहारः किं कथ्यते ?
(a) पञ्चावः
(b) पञ्चगावः
(c) पञ्चगवम्
Answer: (c) पञ्चगवम्

Question. एतेषां कलहः न वानरेभ्यः हिताय ।
(a) वानरेभ्यहिताय
(b) वानरहिताय
(c) वानरेहिताय
Answer: (b) वानरहिताय

Question. तेन विविधग्रन्थाः रचिताः ।
(a) विविधैः ग्रन्थाः
(b) विविधाः ग्रन्थाः
(c) बहुविधाः ग्रन्थाः
Answer: (b) विविधाः ग्रन्थाः

Question. किं च न अर्घम् यस्य तत् ?
(a) अनर्घम्
(b) नर्घम्
(c) अर्घम्
Answer: (a) अनर्घम्

Question. पञ्चवटी कुत्रास्ति?
(a) पञ्ची वटी
(b) पञ्चमी वटी
(c) पञ्चानां वटानां समाहारः
Answer: (c) पञ्चानां वटानां समाहारः

अधोदन्तरिक्तस्थानानि प्रदत्तविकल्पेभ्यः समुचितव्ययपदैः पूरयित्वा वाक्यानि पुनः लिखत ।

Question. ............ संस्कृतभाषा लोकभाषा आसीत् ।
(a) अधुना
(b) पुरा
(c) इदानीम्
Answer: (b) पुरा

Question. सन्तोषं ............... कुत्रापि सुखं न भवति ।
(a) विना
(b) सह
(c) प्रति
Answer: (a) विना

Question. गजः स्थूलः भवति । अतः ............ चलति ।
(a) उच्चैः
(b) द्रुतम्
(c) शनैः
Answer: (c) शनैः

Question. यत्र गन्तुम् इच्छसि ............ गच्छ ।
(a) तत्र
(b) ततः
(c) तदा
Answer: (a) तत्र

Question. यथा राजा ............. प्रजा ।
(a) इव
(b) तथा
(c) मा
Answer: (b) तथा

Question. सज्जनाः शशिनः किरणसमाः .................... भवन्ति ।
(a) अथ
(b) पुरा
(c) इव
Answer: (c) इव

Question. ................... कदाचित् दानशालासु विचरन् राजा अचिन्तयत् ।
(a) अथ
(b) पुरा
(c) इव
Answer: (a) अथ

Question. अद्यत्वे मेघाः ................... गर्जति ।
(a) इदानीम्
(b) वृथा
(c) उपरि
Answer: (b) वृथा

अधोलिखिते संवादे वाच्यानुसारं प्रदत्तविकल्पेभ्यः उचितमुत्तरं चित्वा रिक्तस्थानानि पूरयत ।

Question. अंशुः – किं बालकाः जले कागदंनौकाः चालयन्ति ?
किंशुः – आम्, बालकैः जले कागदंनौकाः .............. ।

(a) चालयन्ते
(b) चाल्यन्ते
(c) चालियन्ते
Answer: (b) चाल्यन्ते

Question. अंशुः – किं दर्दुराः 'टर्र टर्र' ध्वनिं ............ ?
(a) कुर्वन्ति
(b) क्रियन्ते
(c) क्रियते
Answer: (a) कुर्वन्ति

Question. किंशुः – आम्, दर्दुरैः 'टर्र टर्र' ............. क्रियते ।
(a) ध्वनिम्
(b) ध्वनयः
(c) ध्वनिः
Answer: (c) ध्वनिः

Question. अंशुः – किं मयूराः वृक्षस्य अधः नृत्यन्ति ?
किंशुः – आम्, .............. वृक्षस्य अधः नृत्यते ।

(a) मयूराः
(b) मयूरान्
(c) मयूरैः
Answer: (c) मयूरैः

सोहितः कदा किं किं करोति, समयं दृष्ट्वा रिक्तस्थानेषु संस्कृतेन लिखत ।

Question. सः प्रातः ............ वादने उत्तिष्ठति । (6.00)
Answer: षड्

Question. सः ............... वादने प्रातराशं करोति । (7.15)
Answer: सपादसप्त

Question. सः ........... वादने विद्यालयात् आगच्छति । (2.30)
Answer: सार्धद्वि

Question. सः .......... वादने गृहकार्यं करोति । (3.45)
Answer: पादोनचतुर्

निम्नलिखितश्लोकयोः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत ।

Question. कोऽनर्थफलः ? मानः, का सुखदा? साधुजनमैत्री ।
सर्वव्यसनविनाशे को दक्षः? सर्वथा त्यागी ।।

भावः – अस्य भावः अयं यत् अभिमानः अनर्थकारिफलं ददाति । अतः मानः अत्र ............ कथितः । साधुजनानां मैत्री सदैव सुखदायिनी अस्ति । यः मानवः सर्वथा ............... भवति स एव सर्वासां विपदां विनाशं कर्तुं समर्थः भवति ।

Answer: अनर्थफलः, त्यागी

Question. अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।।

भावः – यत् .......... श्रोतृणां हृदये उद्वेगं न करोति, सत्ययुक्तं ......... हितकारि च भवति, तस्य वाचनं स्वाध्यायस्य अभ्यसनं च एव वाङ्मयं तपः उच्यते ।

Answer: वाक्यम्, प्रियम्

रेखाङ्कितपदानां स्थाने विकल्पेभ्यः समुचितमुत्तरं चित्वा प्रश्ननिर्माणं कुरुत ।

Question. कमलपत्रे स्थितं जलवत् तरलं हि यौवनम् ।
(a) कम्
(b) काम्
(c) किम्
Answer: (c) किम्

Question. कामः सङ्गात् सञ्जायते ।
(a) कात्
(b) कस्याः
(c) कस्मात्
Answer: (c) कस्मात्

Question. मधुरभाषिणी वाणी पुरुषं प्रसन्नं करोति ।
(a) किदृशी
(b) कीदृशी
(c) कीदृशि
Answer: (b) कीदृशी

Question. दानशालासु विचरन् राजा अचिन्तयत् ।
(a) कदा
(b) कुतः
(c) कुत्र
Answer: (c) कुत्र

Question. विवेकी जागर्ति ।
(a) कः
(b) का
(c) किम्
Answer: (a) कः

Question. मनसः निग्रहः कठिनः ।
(a) कस्य
(b) कस्याः
(c) कस्मात्
Answer: (a) कस्य

Question. स्मृतिभ्रंशात् बुद्धेः नाशः भवति ।
(a) कस्य
(b) कस्याः
(c) कस्मात्
Answer: (c) कस्मात्

Question. तृणेषु वह्निज्वालाः समुत्थिताः ।
(a) कः
(b) काः
(c) किम्
Answer: (b) काः

Question. घटनाक्रमानुसारम् अधोलिखितवाक्यानि पुनः क्रमेण लिखत ।
क. राजगृहे जिह्वालोलुपः एकः मेषः प्रविश्य यत् किमपि खादति स्म ।
ख. तत्रस्थान् दग्धान् अश्वान् दृष्ट्वा राज्ञा वैद्याः आहूताः ।
ग. मेषताडनं दृष्ट्वा वानरयूथपः कपीन् राजभवनं त्यक्तुम् अकथयत् ।
घ. वानरमेदः एव औषधमिति श्रुत्वा मृत्युभयात् कपयः पश्चात्तापं कुर्वन्ति स्म ।
ङ. एकस्मिन् प्रासादे चन्द्रनाम्नः भूपतेः पुत्राः वानरैः सह क्रीडन्ति स्म ।
च. यदा वानराः स्वर्गतुल्यान् भोज्यपदार्थान् त्यक्तुं न ऐच्छन् तदा वानरयूथपः एकाकी वनमगच्छत् ।
छ. सूपकाराः तं येन केन पदार्थेन ताडयन्ति स्म ।
ज. एकदा ज्वलितकाष्ठेन ताडितः ज्वलन् मेषः अश्वशालां प्राविशत् ।

Answer:
1. एकस्मिन् प्रासादे चन्द्रनाम्नः भूपतेः पुत्राः वानरैः सह क्रीडन्ति स्म । (ङ)
2. राजगृहे जिह्वालोलुपः एकः मेषः प्रविश्य यत् किमपि खादति स्म । (क)
3. सूपकाराः तं येन केन पदार्थेन ताडयन्ति स्म । (छ)
4. मेषताडनं दृष्ट्वा वानरयूथपः कपीन् राजभवनं त्यक्तुम् अकथयत् । (ग)
5. यदा वानराः स्वर्गतुल्यान् भोज्यपदार्थान् त्यक्तुं न ऐच्छन् तदा वानरयूथपः एकाकी वनमगच्छत् । (च)
6. एकदा ज्वलितकाष्ठेन ताडितः ज्वलन् मेषः अश्वशालां प्राविशत् । (ज)
7. तत्रस्थान् दग्धान् अश्वान् दृष्ट्वा राज्ञा वैद्याः आहूताः । (ख)
8. वानरमेदः एव औषधमिति श्रुत्वा मृत्युभयात् कपयः पश्चात्तापं कुर्वन्ति स्म । (घ)

प्रसङ्गानुसारं रेखाङ्कितपदानां शुद्धमर्थं चित्वा लिखत ।

Question. शक्रः तत्रैव अन्तर्हितः अभवत् ।
(a) अग्रे स्थितः
(b) विलुप्तः
(c) मध्ये स्थितः
Answer: (b) विलुप्तः

Question. वानरयूथपः सर्वान् वानरान् रहसि अकथयत् ।
(a) एकान्ते
(b) रहस्यम्
(c) मार्गे
Answer: (a) एकान्ते

Question. हेयं च किम् ? अकार्यम् ।
(a) अश्वः
(b) पूर्वं दिनम्
(c) त्याज्यम्
Answer: (c) त्याज्यम्

Question. तस्य प्रथमम् एकं चक्षुः प्रतिष्ठितम् अभवत् ।
(a) स्थापितम्
(b) आदरयोग्यम्
(c) प्रस्थानयोग्यम्
Answer: (a) स्थापितम्

Question. किं विषम् ? अवधीरणा गुरुषु ।
(a) सम्मानेन
(b) तिरस्कारः
(c) अवधारणा
Answer: (b) तिरस्कारः

Question. निधानताम् याति हि दीयमानम् ।
(a) निष्पन्नताम्
(b) मोदताम्
(c) सम्पन्नताम्
Answer: (c) सम्पन्नताम्

Question. मनः चञ्चलं प्रमाथि बलवत् च अस्ति ।
(a) कष्टकारि
(b) प्रमथनशीलम्
(c) विनाशकारि
Answer: (b) प्रमथनशीलम्

Question. जनकल्याणकर्मसु रतः राजा प्रजाः पुत्रवत् पालयति स्म ।
(a) प्रसन्नः
(b) संलग्नः
(c) मुग्धः
Answer: (b) संलग्नः

Question. 'प्रातःकालस्य भ्रमणम्' इति विषयमधिकृत्य निम्नलिखितपदानां सहायतया च पञ्चवाक्येषु एकम् अनुच्छेदं लिखन्तु ।
(उपवनम्, शीतलः वायुः, स्वास्थ्यवर्धकः, खगानां कलरवः, शान्तं वातावरणम्, सूर्योदयः)

Answer:
1. प्रातःकाले सूर्योदयः भवति।
2. अस्मिन् समये उपवने शीतलः वायुः बहति।
3. प्रातःकाले सर्वत्र शान्तं वातावरणम् भवति।
4. उद्याने खगानां कलरवः अतीव मधुरः प्रतीयते।
5. स्वास्थ्यरक्षणाय प्रातःकालस्य भ्रमणम् अतीव स्वास्थ्यवर्धकं भवति।

वाच्यपरिवर्तनं कुरुत ।

Question. त्वं किं करोषि ?
Answer: त्वया किं क्रियते ?

Question. ईश्वरः अस्ति ।
Answer: ईश्वरेण भूयते ।

Question. सर्वे भगवन्तं पूजयन्ति ।
Answer: सर्वैः भगवान् पूज्यते ।

Question. शीलायाः भ्राता आगच्छति ।
Answer: शीलायाः भ्रात्रा आगम्यते ।

Question. देवाः गीतानि गायन्ति ।
Answer: देवैः गीतानि गीयन्ते ।

मूल्यपरकप्रश्नाः

Question. भगवतः बोधिसत्त्वस्य राज्ये अर्थिनां संख्या कथं विरला जाता?
Answer: भगवान् बोधिसत्त्वः सर्वदा अर्थिनां मनोरथान् पूरयति स्म, अतः याचकेभ्यः किमपि अपूरितं न अवशिष्टम्। एतेन कारणेन तस्य राज्ये अर्थिनां संख्या विरला जाता।

Question. विषयान् ध्यायतः पुरुषस्य सङ्गः केषु उपजायते?
Answer: विषयान् ध्यायतः पुरुषस्य सङ्गः विषयेषु एव उपजायते।

Question. मनसः निग्रहः कथम् अतिकठिनम् अस्ति?
Answer: मनः चञ्चलं, प्रमाथि, बलवत्, दृढं च अस्ति, अतः तस्य निग्रहः वायोः निग्रहः इव अतिकठिनः अस्ति।

Sanskrit Printable Worksheets and Exercises for Class 10 Languages

Practice Exercises for Class 10 Languages Sanskrit

Review targeted practice exercises for Class 10 Languages Sanskrit. Curated to match official CBSE guidelines, these printable problem sets support daily revision and improve overall test readiness.

Step-by-Step Solutions and Practice Guidelines

Each worksheet draws directly from authorized standard textbooks to maintain academic accuracy. Evaluating your finished exercises against expert-verified solutions helps master the formal presentation standards expected in school evaluations.

Enhance Speed with Online Practice

Follow up your worksheet practice by attempting the interactive online MCQ tests for Sanskrit to evaluate your execution speed. All printable assignments and revision sheets on our platform are updated for the 2026 session and available free of charge.

FAQs

Where can I download the 2026-27 CBSE printable worksheets for Class 10 Languages Sanskrit?

You can download the latest chapter-wise printable worksheets for Class 10 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.

Are these Sanskrit Languages worksheets based on the new competency-based education (CBE) model?

Yes, Class 10 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.

Do the Class 10 Languages Sanskrit worksheets have answers?

Yes, we have provided solved worksheets for Class 10 Languages Sanskrit to help students verify their answers instantly.

Can I print these Sanskrit Languages test sheets?

Yes, our Class 10 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.

What is the benefit of solving chapter-wise worksheets for Languages Class 10 Sanskrit?

For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.