Download Class 10 Languages Practice Worksheets
Review targeted academic worksheets with the CBSE Class 10 Sanskrit Worksheet Set 07. Built according to official educational standards for the 2026-27 term, these downloadable Class 10 Languages resources support effective daily practice and detailed self-evaluation for Sanskrit.
Access Sanskrit Practice Papers and Solutions
View or download the dedicated CBSE Class 10 Sanskrit Worksheet Set 07 resource below. Engaging with these practice papers under focused study conditions ensures continuous academic progress and mastery of the 2026-27 curriculum for Sanskrit.
नवमः पाठः - राष्ट्रं संरक्ष्यमेव हि
पाठ-परिचयः
प्रस्तुतोऽयं पाठः महाभारतकथामाधृत्यसंगृहीतः। एकस्मिन् विद्यालये बालचरशिविरोऽस्ति। अस्मिन् शिविरे सायंकाले ध्रुवः सिद्धार्थः सुश्रुतचरकौ च परस्परं संवाद माध्यमेन स्वकीयमनुभवं श्रावयन्ति। ध्रुवः स्वकीयं अनुभवं प्रकटयन् कथयति यत् लोकोऽयं अतीव विचित्रः यतोहि केचित् महात्मा गाँधी सदृशाः महापुरुषाः अहिंसायाः पाठं पाठयन्ति, किन्तु केचित् अन्ये राष्ट्रसंरक्षार्थं आणविकास्त्रनिर्माण माध्यमेन लोकविनाशं कर्तुमिच्छन्ति। अस्य प्रतिवादे सिद्धार्थः स्वमतं प्रकटयन् कथयति यत् वस्तुतः विज्ञान-सदुपयोगः राष्ट्रकल्याणाय दुरुपयोगश्च विनाशाय भवति। सुश्रुतोऽपि सिद्धार्थमतं स्वीकरोति, तदनन्तरं चरकः स्वमतं प्रकटयन् वदति यत् पुरा आणविकास्त्र प्रयोगः वर्जितः आसीत्। ध्रुवः पृच्छति यत् किं पुरा ईदृशानि अस्त्राणि आसन् येषां मानवानामुपरि प्रयोगः वर्जितआसीत्। चरकानुसारं प्रत्यक्षं किं प्रमाणम्। राष्ट्रं संरक्ष्यमेव हि पाठं पठित्वा स्पष्टो भविष्यति यत् राष्ट्रं सदैव रक्षणीयमस्ति।
नाट्यांशधारिताः अनुच्छेदाः
श्रीकृष्णः- भो धर्मराज! समीचीनं न कृतं भवता। पुत्रशोकविह्वलः भीमसेन एकाकी एव द्रौणिं हन्तुम् अभिधावति।
युधिष्ठिरः- भगवन्! सः तु एकाकी एव द्रोणपुत्राय अलम्।
श्रीकृष्णः- वत्स! न जानाति भवान् द्रौणेः चपलां प्रकृतिं पितुः द्रोणात् प्राप्तं ब्रह्मशिरोनाम अस्त्रं विद्यते तस्य पार्श्वे। यदि तत् प्रयुज्येत, सर्वा पृथ्वी दग्धा स्यात्।
युधिष्ठिरः- अप्येवम्। आचार्याण कीदृशः अनर्थः कृतः? किं चपलबालकेभ्यः एतादृश-भीषणानाम् अस्त्राणां प्रदानम् उचितम्?
श्रीकृष्णः- शृणु तावत्, आचार्येण तु प्रियशिष्याय अर्जुनाय एव प्रीत्या मनसा ब्रह्मास्त्र शिक्षा प्रदत्ता, किन्तु पुत्र प्रेमपराधीनेन तेन अश्वत्थामा अपि तच्छिक्षया वञ्चितः न कृतः।
Question. एकपदेन उत्तरत- द्रौणिं हन्तुं कः अभिधावति?
Answer: भीमसेनः
Question. एकपदेन उत्तरत- ब्रह्मशिरो नाम अस्त्रं कस्य पार्श्वे विद्यते?
Answer: द्रौणेः (अश्वत्थाग्नः)
Question. एकपदेन उत्तरत- कस्य चपला प्रकृतिः आसीत्?
Answer: द्रौणेः (अश्वत्थाग्नः)
Question. एकपदेन उत्तरत- आचार्यः द्रोणः प्रीत्या कस्मै ब्रह्मास्त्र शिक्षां अयच्छत्?
Answer: अर्जुनाय
Question. पूर्णवाक्येन उत्तरत- कस्मात् सर्वा पृथ्वी दग्धा स्यात्?
Answer: यदि ब्रह्मशिरो नाम अस्त्रं प्रयुज्येत तर्हि सर्वा पृथ्वी दग्धा स्यात्।
Question. पूर्णवाक्येन उत्तरत- आचार्येण स्वपुत्राय ब्रह्मास्त्रशिक्षा केन कारणेण प्रदत्ता?
Answer: आचार्येण स्वपुत्राय पुत्रप्रेमपराधीनेन कारणेन ब्रह्मास्त्रशिक्षा प्रदत्ता।
Question. पूर्णवाक्येन उत्तरत- आचार्येण कीदृशः अनर्थः कृतः?
Answer: आचार्येण चपलबालकेभ्यः एतादृश-भीषणानाम् अस्त्राणां प्रदानं कृत्वा अनर्थः कृतः।
Question. पूर्णवाक्येन उत्तरत- युधिष्ठिरः किम् उचितं न मन्यते?
Answer: युधिष्ठिरः चपलबालकेभ्यः एतादृश-भीषणानाम् अस्त्राणां प्रदानम् उचितं न मन्यते।
Question. निर्देशानुसारम् उत्तरत- उचितम् पदस्य पर्यायपदं चित्वा लिखत।
Answer: समीचीनम्
Question. निर्देशानुसारम् उत्तरत- चपलां कस्य पदस्य विशेषणम्?
Answer: प्रकृतिम् (or प्रकृतेः)
Question. निर्देशानुसारम् उत्तरत- सः तु एकाकी द्रोणपुत्राय अलम् अत्र सः सर्वनामपदं कस्मै दत्तम्?
Answer: भीमसेनाय
Question. निर्देशानुसारम् उत्तरत- अस्ति इति स्थाने किं पदं अत्र प्रयुक्तम्?
Answer: विद्यते
Question. निर्देशानुसारम् उत्तरत- हन्तुम् पदे धातुः कः?
Answer: हन्
Question. निर्देशानुसारम् उत्तरत- प्रीत्या पदे का विभक्तिः?
Answer: तृतीया विभक्तिः
गद्यांश (नाट्यांशानुच्छेदः)
युधिष्ठिरः- सम्प्रति आश्वस्तः अस्मि। मन्ये सः ब्रह्मास्त्रप्रयोगं न करिष्यति।
श्रीकृष्णः- तर्हि न जानासि तस्य मनोवृत्तिम्। पितुः उपदेशेन असन्तुष्टः सः एकदा द्वारकापुरीम् अगच्छत्।
युधिष्ठिरः- (साश्चर्यम्) कथं चक्रम् इति।
श्रीकृष्णः- आम्! मया कथितं नाहं त्वत्तः ब्रह्मास्त्रम् इच्छामि। यदि त्वं मम गदां, शक्तिं धनुः चक्रं वा इच्छसि तुभ्यं ददामि।
युधिष्ठिरः- ततस्ततः।
श्रीकृष्णः- स तु चक्रम् एव अयाचत। गृहाण चक्रम्। इति उक्तः सः सव्येन पाणिना चक्रम् गृहीतवान् किन्तु सः तत् चक्रं स्वस्थानात् संचालयितुम् अपि समर्थः न अभवत्।
Question. एकपदेन उत्तरत- युधिष्ठिरः कस्य मनोवृत्तिः न जानाति?
Answer: अश्वत्थाम्नः (द्रौणेः)
Question. एकपदेन उत्तरत- अश्वत्थामा किं वाञ्छति स्म?
Answer: चक्रम्
Question. एकपदेन उत्तरत- द्रोणपुत्रः एकदा कुत्र गतवान्?
Answer: द्वारकापुरीम्
Question. एकपदेन उत्तरत- कः चक्रं संचालयितुम् असमर्थः अभवत्?
Answer: अश्वत्थामा (द्रोणपुत्रः)
Question. पूर्णवाक्येन उत्तरत- श्रीकृष्णः द्रोणपुत्राय किम् अयच्छत्?
Answer: श्रीकृष्णः द्रोणपुत्राय स्वकीयं चक्रम् अयच्छत्।
Question. निर्देशानुसारम् उत्तरत- एकस्मिन् समये इत्यर्थे किम् अव्ययपदम् अत्र प्रयुक्तम्?
Answer: एकदा
Question. निर्देशानुसारम् उत्तरत- "आश्चर्येण सहित" इति स्थाने किं पदं प्रयुक्त?
Answer: साश्चर्यम्
Question. निर्देशानुसारम् उत्तरत- "सव्येन पाणिना" अनयोः पदयोः विशेषणपदं किम्?
Answer: सव्येन
Question. निर्देशानुसारम् उत्तरत- अवगच्छामि इति पदस्य पर्यायं चित्वा लिखत?
Answer: मन्ये
Question. उचितैः पदैः भावम् पूरयत-
परमापद्गतेनापि नैव तात त्वया रणे।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः।।
भाव- द्रोणाचार्यः स्वपुत्रं बोधयति यत् ________। परमापत्तौ अपि इदं ________ त्वया रणे विशेषतः ________ कदापि न प्रयोक्तव्यम्।
Answer: द्रोणाचार्यः स्वपुत्रं बोधयति यत् तात / पुत्र। परमापत्तौ अपि इदं अस्त्रम् त्वया रणे विशेषतः मानुषेषु कदापि न प्रयोक्तव्यम्।
Question. उचितैः पदैः भावम् पूरयत-
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते।
समाः द्वादश पर्जन्यस्तद् राष्ट्रं नाभिवर्षति।।
भाव- अस्य भावः अस्ति यत् यत्र ब्रह्मशिरो नाम अस्त्रम् ________ वध्यते तदराष्ट्रम् ________ द्वादश वर्षाणि यावत् न ________।
Answer: अस्य भावः अस्ति यत् यत्र ब्रह्मशिरो नाम अस्त्रम् परमास्त्रेण वध्यते तद् राष्ट्रम् पर्जन्यः द्वादश वर्षाणि यावत् न वर्षति / अभिवर्षति।
Question. समुचितैः पदैः अन्वयः पूरयत-
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते।
समाः द्वादशपर्जन्यस्तद् राष्ट्रं नाभिवर्षति।।
अन्वय- यत्र ________ अस्त्रं परमास्त्रेण ________ तत् राष्ट्रं ________ द्वादश न अभि वर्षति।
Answer: यत्र ब्रह्मशिरो अस्त्रं परमास्त्रेण वध्यते तत् राष्ट्रं पर्जन्यः द्वादश (समाः / वर्षाणि) न अभिवर्षति।
Question. समुचितैः पदैः अन्वयः पूरयत-
नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः।
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।।
अन्वय- नानाशस्त्रविदः ये अपि ________ पूर्वे अतीताः तैः अपि ________ एतत् अस्त्रं कथञ्चन न ________।
Answer: नानाशस्त्रविदः ये अपि महारथाः पूर्वे अतीताः तैः अपि मनुष्येषु एतत् अस्त्रं कथञ्चन न प्रयुक्तम्।
Question. समुचितैः पदैः अन्वयः पूरयत-
परमापद्गतेनापि नैव तात त्वया रणे।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः।।
अन्वय- तात। परमापद्गतेन अपि ________ त्वया इदम् ________ विशेषतः ________ न प्रयोक्तव्यम्।
Answer: तात। परमापद्गतेन अपि रणे त्वया इदम् अस्त्रं विशेषतः मानुषेषु न प्रयोक्तव्यम्।
Question. शब्दार्थमेलनं कुरुत-
(i) समीचीनम् - कथयामि
(ii) मुञ्च - सूर्यः
(iii) सहस्रांशुः - ज्ञात्वा
(iv) विज्ञाय - मनसि
(v) ब्रूमि - उचितम्
Answer:
(i) समीचीनम् - उचितम् (Proper / Correct)
(ii) मुञ्च - त्यज / मुक्तं कुरु (Note: In the worksheet, 'मनसि' is listed as a typo instead of a synonym for 'मुञ्च')
(iii) सहस्रांशुः - सूर्यः (Sun)
(iv) विज्ञाय - ज्ञात्वा (Having understood / known)
(v) ब्रूमि - कथयामि (I speak / tell)
CBSE Class 10 Languages Worksheets for Sanskrit
Practice Exercises for Class 10 Languages Sanskrit
Explore reliable practice questions for Sanskrit tailored for Class 10 Languages learners. Use these structured worksheets to evaluate exam preparedness and strengthen problem-solving skills throughout the 2026 academic session.
Step-by-Step Solutions and Practice Guidelines
Built using official NCERT guidelines for Class 10 Languages, these practice sheets provide reliable academic support. Cross-reference your completed work with our detailed solutions to learn standard answer-writing formats for CBSE exams.
Enhance Speed with Online Practice
Follow up your worksheet practice by attempting the interactive online MCQ tests for Sanskrit to evaluate your execution speed. All printable assignments and revision sheets on our platform are updated for the 2026 session and available free of charge.
FAQs
You can download the latest chapter-wise printable worksheets for Class 10 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.
Yes, Class 10 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.
Yes, we have provided solved worksheets for Class 10 Languages Sanskrit to help students verify their answers instantly.
Yes, our Class 10 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.
For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.