Read Chapter 11 Sannimitte Varam Tyagah Kha Bhagah of NCERT Class 8 Sanskrit
Explore the complete NCERT textbook for Class 8 Sanskrit. Tailored for the 2026-27 curriculum, this resource breaks down complex topics to help students prepare effectively for school examinations.
Chapter 11 Sannimitte Varam Tyagah Kha Bhagah PDF Resource
View or download the dedicated Chapter 11 Sannimitte Varam Tyagah Kha Bhagah resource below. This chapter-by-chapter structuring ensures easy navigation for daily study routines. For comprehensive exam preparation, pair this reading with our verified NCERT Solutions.
एकादशः पाठः - सन्निमित्ते वरं त्यागः (ख-भागः)
वीरवरः नाम कश्चित् राजपुरुषः राज्ञः शूद्रकस्य सेवकरूपेण नियुक्तः। तस्मै वेतनं सुवर्णशतचतुष्टयं दीयते। प्राप्तवेतनस्य अर्धं सः देवकार्ये नियोजयति। एकचतुर्थांशं दरिद्रेभ्यः वण्टयति। अवशिष्टं च एकचतुर्थांशं स्वपत्न्याः हस्ते अर्पयति। स्वखड्गम् आदाय अहर्निशं राजद्वारे रक्षकरूपेण स्थित्वा सः सेवां करोति। एकदा रात्रौ राज्ञः आदेशेन कञ्चित् करुणक्रन्दनध्वनिम् अनुसृत्य सः नगराद् बहिः गच्छति, एकां दिव्याभरणभूषितां कामपि रोदनपरां सुन्दरीं च पश्यति। तस्याः रोदनस्य कारणं पृष्ट्वा जानाति यत् सा राज्ञः शूद्रकस्य राजलक्ष्मीः अस्ति इति। तस्याः वचनात् शूद्रकस्य आयुः केवलं दिनत्रयम् एव अस्ति इति ज्ञात्वा तस्य दीर्घायुषः उपायं पृच्छति। ततः राजलक्ष्मीः अतीव दुःसाध्यम् उपायं सूचयति। तस्याः अनुसारं यदि वीरवरः स्वस्य सर्वप्रियं वस्तु देव्यै सर्वमङ्गलायै उपहाररूपेण समर्पयति, तर्हि तस्य राजा चिरं वर्षशतं जीविष्यति, राजलक्ष्मीरपि तेन सह सुखं स्थास्यति इति। एवं कठिनम् उपायं संसूच्य राजलक्ष्मीः वीरवरं किंकर्तव्यमूढं कृत्वा अदृश्या भवति। गुप्ततया वीरवरम् अनुसरन् राजापि तयोः संवादं शृणोति।
अथ राजपुत्रो वीरवरो स्वावासं गत्वा निद्रालसां पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् अखिलराजलक्ष्मीसंवादं च अवर्णयत्।
[चित्र: पत्नी और बच्चों को जगाकर बात बताते वीरवर, पाठ्यपुस्तक में देखें]
शिक्षक की टिप्पणी
a) वीरवर के वेतन का बँटवारा देखिए: आधा देवकार्य में, एक-चौथाई दरिद्रों को और एक-चौथाई पत्नी के हाथ में।
b) 'किंकर्तव्यमूढ' का अर्थ है: क्या करना चाहिए, यह न समझ पाने वाला।
c) 'राजलक्ष्मीरपि' = राजलक्ष्मीः + अपि; ऐसे संधि-शब्दों को तोड़कर पढ़िए।
शक्तिधरः - (तच्छ्रुत्वा सानन्दम्) हे पितः! जानाम्यहं भवतः सर्वप्रियं वस्तु। तद् अहमेव भवतः प्रियतमः इति सर्वविदितः। धन्योऽहं स्वामिजीवितरक्षार्थं यदि विनियुक्तः। तत् कोऽधुना विलम्बस्तात? एवंविधे कर्मणि राष्ट्रस्य राज्ञश्च हिताय मम सर्वस्वविनियोगः परमश्लाघ्यः। यतः -
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति॥ १ ॥
वेदरता - यद्येवम् अस्मत्कुलोचितं नाचरितव्यं तर्हि गृहीतस्वामिवर्तनस्य कथं निस्तारो भवेत्?
वीरवती - धन्याहं यस्या ईदृशो जनको भ्राता च। तत् कथं विलम्ब्यते? एष एव गृहीतस्वामिवर्तनस्य निस्तारस्य उपायः।
(ततस्ते सर्वे सर्वमङ्गलाया आयतनं गताः)
वीरवरः - (देवीपूजां विधाय) भगवति! प्रसीद, विजयतां महाराजः शूद्रकः, गृह्यतामेष मद्दत्त उपहारः।
वीरवरः - (स्वगतम्) कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रसमर्पणेन। अधुना पुत्रवियुक्तस्य मे जीवनं निष्फलम्।
(ततः सः आत्मानमपि देव्यै समर्पितवान्। ततस्तस्य पत्न्या दुहित्रा च तदेवाचरितम्। राजा शूद्रकोऽपि तेषां सर्वेषां सर्वमेतद् आचरितम् तददृश्य एवालोकयत्।)
[चित्र: देवी सर्वमङ्गला के मन्दिर में वीरवर का परिवार, पाठ्यपुस्तक में देखें]
शिक्षक की टिप्पणी
a) 'स्वगतम्' का अर्थ है मन में कहना; यह वाक्य दूसरे पात्र नहीं सुनते।
b) 'कोऽधुना' = कः + अधुना और 'धन्योऽहं' = धन्यः + अहम्; दोनों में 'ऽ' (अवग्रह) है।
c) श्लोक का 'सन्निमित्ते' = सत् + निमित्ते, यानी अच्छे उद्देश्य के लिए; यही पाठ का शीर्षक भी है।
Official NCERT Textbook PDF: Class 8 Sanskrit Chapter 11 Sannimitte Varam Tyagah Kha Bhagah
Class 8 Sanskrit Chapter 11 Sannimitte Varam Tyagah Kha Bhagah Official E-Book
Download the certified NCERT Textbook for Class 8 Sanskrit Chapter 11 Sannimitte Varam Tyagah Kha Bhagah. Educational authorities and instructors recommend this e-textbook as the foundational reference for all terminal tests and school assessments.
English Medium NCERT Textbooks for Class 8
Browse our comprehensive suite of NCERT books in English Medium designed for Class 8 students, offering clear conceptual breakdowns and concluding practice problems.
Additional Study Resources for Class 8 Sanskrit
Elevate your study routine by reviewing our comprehensive NCERT Solutions and revision notes available on our platform free of charge.
FAQs
You can download the latest, teacher-verified PDF for NCERT Class 8 Sanskrit Deepakam Chapter 11 Sannimitte Varam Tyagah Kha Bhagah (सन्निमित्ते वरं त्यागः (ख-भागः)) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.
Yes, our collection of Class 8 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.
Downloading chapter-wise PDFs for Class 8 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.
NCERT books are the main source for NCERT exams. By reading NCERT Class 8 Sanskrit Deepakam Chapter 11 Sannimitte Varam Tyagah Kha Bhagah (सन्निमित्ते वरं त्यागः (ख-भागः)) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.