Class 8 Sanskrit Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate: NCERT Study Material
Review the NCERT Class 8 Sanskrit Deepakam Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate (सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते) PDF Download designed for Class 8 Sanskrit students. Published under the latest NCERT guidelines for 2026-27, this chapter-wise resource supports daily study and targeted revision.
Read and Download Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate
Navigate directly to the Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate section using the digital viewer below. Organizing your study sessions chapter-by-chapter allows for seamless offline review. Be sure to utilize the accompanying NCERT Solutions to verify your textbook answers.
द्वादशः पाठः - सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते
नमस्ते आचार्य! अद्य वयम् एकां कथां श्रोतुम् इच्छामः। कृपया कथां श्रावयति वा महोदय!
नमस्ते छात्राः! भवतां मनोरञ्जनार्थम् आदौ कथाश्रवणम्। अनन्तरं पाठनम्।
तर्हि सावधानं शृण्वन्तु।
देवानां राजा इन्द्रः, असुराणां च राजा आसीत् वृत्रासुरः। देवानाम् असुराणां च मध्ये सर्वदा वैरभावः भवति एव। स्वस्य बलं वर्धयितुम् इन्द्रं जेतुं च वृत्रासुरः यज्ञं कारितवान्। यज्ञे आहुतिमन्त्रः आसीत् - 'इन्द्रशत्रुर्वर्धस्व' इति। यज्ञावसाने वृत्रासुरो बली भूत्वा जनान् पीडयिष्यति इति विचार्य ऋत्विजः मन्त्रे स्वरं परिवर्तितवन्तः। स्वरपरिवर्तनेन अर्थः परिवर्तितः। परिणामतः वृत्रासुरस्य स्थाने इन्द्रस्य बलं वर्धितम्। बलवान् इन्द्रः वज्रेण वृत्रासुरं मारितवान्।
बहु सुन्दरी कथा महोदय! तर्हि वयमपि पठनकाले भाषणकाले च स्पष्टं शुद्धं च उच्चारणं कुर्मः।
त्वं यथार्थं भाषसे हिमानि! शुद्धोच्चारणस्य सन्दर्भे एव अधुना एतं विषयं पठामः।
[चित्र: कक्षा में कथा सुनाते आचार्य और छात्र, पाठ्यपुस्तक में देखें]
शिक्षक की टिप्पणी
a) कथा का मुख्य बिन्दु: मन्त्र के शब्द वही रहे, केवल स्वर बदला, फिर भी अर्थ बदल गया।
b) 'इन्द्रशत्रुर्वर्धस्व' = इन्द्रशत्रुः + वर्धस्व; इसे तोड़कर पढ़िए।
c) 'शुद्धोच्चारणम्' = शुद्ध + उच्चारणम्, यानी सही उच्चारण।
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्॥ १ ॥
पदच्छेदः - यद्यपि बहु न अधीषे तथापि पठ पुत्र व्याकरणम् स्वजनः श्वजनः मा अभूत् सकलम् शकलम् सकृत् शकृत्।
अन्वयः - पुत्र! यद्यपि बहु न अधीषे तथापि व्याकरणं पठ। येन स्वजनः श्वजनः (इति) सकलं शकलं (इति) सकृत् शकृत् (इति) च मा अभूत्।
भावार्थः - अयि पुत्र! यद्यपि भवान् वा बहून् विषयान् पठितुं न पारयति तथापि व्याकरणं तु अवश्यं पठतु। येन उच्चारणसमये स्वजनः (अर्थात् बन्धुः) इत्यस्य स्थाने श्वजनः (अर्थात् शुनकः) इति न भवेत्। एवमेव, सकृत् (अर्थात् एकवारम्) इत्यस्य स्थाने शकृत् (अर्थात् विष्ठा) इति, सकलम् (पूर्णम्) इत्यस्य स्थाने शकलं (खण्डम्) इति दोषपूर्णम् उच्चारणं न भवेत्। अत्र स्वजनः इत्यादीनाम् उदाहरणद्वारा एकस्य वर्णस्य उच्चारणस्य दोषेण कथं समग्रपदस्य अर्थः परिवर्तितः भवति इति दर्शितम्।
व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत्।
भीता पतनभेदाभ्यां तद्वद् वर्णान् प्रयोजयेत्॥ २ ॥
पदच्छेदः - व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्याम् न च पीडयेत् भीता पतनभेदाभ्याम् तद्वद् वर्णान् प्रयोजयेत्।
अन्वयः - यथा पतनभेदाभ्यां भीता व्याघ्री दंष्ट्राभ्यां पुत्रान् हरेत् न च पीडयेत् तद्वत् (जनः) वर्णान् प्रयोजयेत्।
भावार्थः - व्याघ्री स्वशिशुं दन्तैः नयति। तस्याः दन्ताः अतीव तीक्ष्णाः भवन्ति। अतः सा शिशुं तथा न गृह्णाति येन शिशुः क्षतः भवेत्। एवमेव तथा न गृह्णाति येन शिशुः पतेत्। वर्णानाम् उच्चारणम् अपि तथैव कर्तव्यम्। वर्णोच्चारणम् अतिकठोररूपेण अतिशैथिल्येन वा न कर्तव्यम्।
[चित्र: मुँह में शावक को उठाए बाघिन, पाठ्यपुस्तक में देखें]
शिक्षक की टिप्पणी
a) पहले श्लोक के जोड़े बोलकर देखिए: स्वजन-श्वजन, सकल-शकल, सकृत्-शकृत्; केवल 'स' और 'श' के अन्तर से अर्थ बदल जाता है।
b) 'नाधीषे' = न + अधीषे और 'माभूत्' = मा + अभूत्; पदच्छेद में ये अलग लिखे गए हैं।
c) दूसरे श्लोक की उपमा याद रखिए: बाघिन अपने बच्चे को न अधिक कसकर पकड़ती है, न ढीला छोड़ती है।
Official NCERT Textbook PDF: Class 8 Sanskrit Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate
Chapter Textbook PDF for Class 8 Sanskrit
Secure your copy of the NCERT Textbook for Class 8 Sanskrit Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate. Widely adopted across educational institutions, final question papers map directly to the framework outlined in this chapter.
Digital E-Book Collection for Class 8 Sanskrit
Access a full archive of NCERT books in English Medium tailored for Class 8 courses. Units like Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate deliver in-depth concepts and thorough review questions at the section close.
Complete Your Chapter Preparation
The Class 8 Sanskrit Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate text is carefully engineered to build rock-solid foundational concepts. For an enriched academic journey, learners should pair this with our online NCERT Solutions and revision notes.
FAQs
You can download the latest, teacher-verified PDF for NCERT Class 8 Sanskrit Deepakam Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate (सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.
Yes, our collection of Class 8 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.
Downloading chapter-wise PDFs for Class 8 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.
NCERT books are the main source for NCERT exams. By reading NCERT Class 8 Sanskrit Deepakam Chapter 12 Samyagvarnaprayogena Brahmaloke Mahiyate (सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.