Download NCERT Class 8 Sanskrit Textbooks
Access the official NCERT textbook for Class 8 Sanskrit, updated for the 2026-27 academic session. This digital resource provides the foundational knowledge required for exam success and conceptual clarity.
Access Chapter 05 Gita Sugita Kartavya for Class 8 Sanskrit
Navigate directly to the Chapter 05 Gita Sugita Kartavya section using the digital viewer below. Organizing your study sessions chapter-by-chapter allows for seamless offline review. Be sure to utilize the accompanying NCERT Solutions to verify your textbook answers.
पञ्चमः पाठः - गीता सुगीता कर्तव्या
कुरुक्षेत्रे श्रीगीता-जयन्ती-महोत्सवः आचरितः। तत्र बहवः जनाः अगच्छन्। रमेशः अपि स्वजनकेन सह तत्र गतवान्। कथावाचकः गीतायाः विषये वर्णयति स्म -
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता॥
इदं श्रुत्वा रमेशः पितरम् अपृच्छत् - "पितः! गीता का? कथं सुगीता कर्तव्या?"
पिता - पुत्र! बहुभ्यः वर्षेभ्यः पूर्वं कुरुक्षेत्रे कौरवाणां पाण्डवानां च मध्ये सङ्ग्रामः अभवत्। तस्मिन् युद्धे स्वबान्धवान् दृष्ट्वा अर्जुनः युद्धं कर्तुं न इच्छति स्म। तदा भगवान् श्रीकृष्णः युद्धपराङ्मुखम् अर्जुनं कर्तव्यपालनार्थम् उपदिष्टवान्। श्रीकृष्णस्य उपदेशः एव श्रीमद्भगवद्गीता अस्ति। गीतायाम् अमृततुल्याः उपदेशाः सन्ति।
[चित्र: रथ के पास हाथ जोड़े अर्जुन और श्रीकृष्ण, पाठ्यपुस्तक में देखें]
रमेशः - तर्हि सुगीता कर्तव्या इत्यस्य कः आशयः?
पिता - अस्य आशयः अस्ति यत् गीतायाः अभ्यासः सम्यक् रूपेण करणीयः। गीता उत्तमभावेन पठितव्या। कार्यक्षेत्रे जीवनक्षेत्रे च गीतायाः उपदेशाः अनुपालनीयाः। अस्मिन् पाठे वयं श्रीमद्भगवद्गीतायाः काँश्चन श्लोकान् पठामः। वयं श्लोकान् मिलित्वा गायामः अपि।
शिक्षक की टिप्पणी
a) 'सुगीता कर्तव्या' का अर्थ है: गीता का अभ्यास अच्छी तरह और उत्तम भाव से करना चाहिए।
b) 'युद्धपराङ्मुखम्' में 'ङ्' और 'पद्मनाभस्य' में 'द्म' संयुक्त अक्षर हैं; इन्हें ध्यान से लिखिए।
c) 'मुखपद्माद्विनिःसृता' = मुखपद्मात् + विनिःसृता; ऐसे लम्बे शब्दों को तोड़कर पढ़िए।
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥ १ ॥
पदच्छेदः - दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते।
अन्वयः - दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः मुनिः स्थितधीः (इति) उच्यते।
भावार्थः - यः मनुष्यः आपत्कालेषु उद्वेगं न अनुभवति। यः सुखप्राप्तये अपि निस्पृहः (इच्छारहितः) भवति। यः इच्छा, आसक्तिः, भयः, क्रोधः, इत्येतेभ्यः मुक्तः भवति। सः मौनी पुरुषः स्थितप्रज्ञः भवति।
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥ २ ॥
पदच्छेदः - क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति।
अन्वयः - क्रोधात् सम्मोहः भवति। सम्मोहात् स्मृतिविभ्रमः (भवति)। स्मृतिभ्रंशात् बुद्धिनाशः (भवति)। बुद्धिनाशात् (जनः) प्रणश्यति।
भावार्थः - मानवस्य यदा क्रोधः भवति तदा क्रोधात् अविवेकः उत्पद्यते। अविवेकात् आत्मानं विस्मरति। किं योग्यं किञ्च अयोग्यम् इति अविचिन्त्य क्रोधात् व्यामोहं प्राप्नोति। यदा अधिकः व्यामोहः भवति तदा मनुष्यस्य स्मृतिः निष्क्रिया नष्टा च भवति। स्मृतेः नाशात् बुद्धिः नश्यति। बुद्धेः नाशात् सः मनुष्यः विनाशं प्राप्नोति।
शिक्षक की टिप्पणी
a) दूसरा श्लोक एक श्रृंखला है: क्रोध, सम्मोह, स्मृतिविभ्रम, बुद्धिनाश, विनाश; इस क्रम से याद कीजिए।
b) पदच्छेद में 'क्रोधाद्भवति' = क्रोधात् + भवति; 'त्' के बाद 'भ' आने से 'द्' हो गया है।
c) 'स्थितधीः' और 'स्थितप्रज्ञः' एक ही भाव के शब्द हैं; दोनों पहले श्लोक के भावार्थ में आए हैं।
NCERT Book for Class 8 Sanskrit Chapter 05 Gita Sugita Kartavya
Class 8 Sanskrit Chapter 05 Gita Sugita Kartavya Official E-Book
Download the certified NCERT Textbook for Class 8 Sanskrit Chapter 05 Gita Sugita Kartavya. Educational authorities and instructors recommend this e-textbook as the foundational reference for all terminal tests and school assessments.
English Medium NCERT Textbooks for Class 8
Access a full archive of NCERT books in English Medium tailored for Class 8 courses. Units like Chapter 05 Gita Sugita Kartavya deliver in-depth concepts and thorough review questions at the section close.
Additional Study Resources for Class 8 Sanskrit
Built to foster deep conceptual mastery, this manual serves as an ideal study tool. Complement your textbook reading by exploring our professional NCERT Solutions and revision notes online.
FAQs
You can download the latest, teacher-verified PDF for NCERT Class 8 Sanskrit Deepakam Chapter 05 Gita Sugita Kartavya (गीता सुगीता कर्तव्या) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.
Yes, our collection of Class 8 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.
Downloading chapter-wise PDFs for Class 8 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.
NCERT books are the main source for NCERT exams. By reading NCERT Class 8 Sanskrit Deepakam Chapter 05 Gita Sugita Kartavya (गीता सुगीता कर्तव्या) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.