Official NCERT Book for Class 8 Sanskrit: Chapter 06 Digibharatam Yugaparivartanam
Explore the complete NCERT textbook for Class 8 Sanskrit. Tailored for the 2026-27 curriculum, this resource breaks down complex topics to help students prepare effectively for school examinations.
Chapter-wise Study Material: Chapter 06 Digibharatam Yugaparivartanam
Access the complete PDF for Chapter 06 Digibharatam Yugaparivartanam below. This focused excerpt allows students to isolate specific topics for thorough review. Cross-reference your textbook exercises with our detailed NCERT Solutions for Class 8 Sanskrit.
षष्ठः पाठः - डिजिभारतम् - युगपरिवर्तनम्
अस्माकं देशः भारतं न केवलं सांस्कृतिकक्षेत्रे समृद्धम्, अपि तु नित्यम् आविष्कारैः कीर्तिं लभते। अद्य सम्पूर्णविश्वे 'डिजिटल्-भारतम्' इत्यस्य चर्चा श्रूयते। एकस्यैव पिञ्जस्य नोदनेन सर्वं नागरिक-सौविध्यं लभ्यते। अनेन भारतीयानां जीवनम् अधिकं सरलं जायमानम् अस्ति। डिजिटल्-पटले सम्पूर्णा वसुधा कुटुम्बवत् अस्ति। अधुना वयं भारतस्य डिजिटल्-प्रगतेः विषये पठामः।
[चित्र: डिजिटल्-भारतम् का प्रतीक-चिह्न, पाठ्यपुस्तक में देखें]
(नवदेहलीस्थः प्रधानमन्त्रिसङ्ग्रहालयः। अत्र विविधाः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति। सर्वे उत्सुकतया सङ्ग्रहालये प्रदर्शितानि वस्तूनि पश्यन्ति।)
[चित्र: प्रधानमन्त्रिसङ्ग्रहालय के बाहर अध्यापक और छात्र, पाठ्यपुस्तक में देखें]
अध्यापकः - बालाः! प्रधानमन्त्रिसङ्ग्रहालये युष्माकं सर्वेषां स्वागतम्। अत्र विविधाः डिजिटल्-प्रौद्योगिक्यः प्रयुक्ताः सन्ति। सानन्दं सावधानं च पश्यन्तु। अनन्तरं एतस्योपरि चर्चां करिष्यामः।
(सर्वे बालाः प्रदर्शितानि विविधानि वस्तूनि उत्साहेन पश्यन्ति, अनुभवन्ति, परस्परं चर्चाम् अपि कुर्वन्ति।)
सर्वे छात्राः - अद्भुतं महोदय! अत्र हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं श्रूयते दृश्यते च। प्रत्यक्षमेव प्रधानमन्त्री अत्र उपविष्टः इति भासते।
यशिका - सत्यम्, अहम् अपि हॉलोग्रामं दृष्टवती। अनेन दिवङ्गताः नेतारः अपि जीविताः इव दृश्यन्ते।
अथर्वः - अत्र 'वर्धिता-वास्तविकता' (AR) 'आभासीया-वास्तविकता' (VR) च इत्याभ्यां सम्बद्धानि उपकरणानि अपि सन्ति, अनेन ऐतिहासिकवृत्तानि प्रत्यक्षम् इव अनुभूयन्ते। 'भारतीय-स्वतन्त्रता-सङ्ग्रामं' दृष्ट्वा अस्माकं पूर्वजानां संघर्षः कियान् विशालः आसीत् इति ज्ञायते।
भास्करः - अहम् अत्र कृत्रिमबुद्धि-आधारितं संवादयन्त्रं दृष्टवान्। एतत् यन्त्रम् अस्माकं सर्वविधप्रश्नानाम् उत्तराणि ददाति।
वेदिका - अहो! 'डिजिटल्-प्रक्षेपण-चलच्चित्रं' दृष्ट्वा अहं विस्मिता अभवम्। अत्र सम्पूर्णस्य भारतस्य विकास-यात्रा प्रदर्शिता अस्ति।
श्रेया - एषः कश्चन अपूर्वः अनुभवः अस्ति। यश्च चिरकालपर्यन्तं स्मरणीयः भविष्यति।
सर्वे छात्राः - मान्यवर! वयं सर्वे एतस्मिन् सन्दर्भे चर्चां कर्तुम् इच्छामः। किं कक्षां प्रति चलामः?
अध्यापकः - उत्तमः विचारः। चलामः तावत्।
(सर्वे मिलित्वा गच्छन्ति।)
(सर्वे कक्षायाम् उपविष्टाः)
सर्वे छात्राः - अहो! सङ्ग्रहालयस्य अद्भुतः अनुभवः प्राप्तः।
अध्यापकः - बालाः! अस्मिन् सङ्ग्रहालये उपस्थापितं ज्ञानम् अद्भुतम् एव। 'डिजिटल्' योजनायाः प्रभावः दैनन्दिने जीवनेऽपि दृश्यते।
सर्वे छात्राः - आम्, मान्यवर! वयम् इमं प्रभावं ज्ञातुम् इच्छामः।
शिक्षक की टिप्पणी
a) नए तकनीकी शब्दों के संस्कृत रूप याद रखिए: AR = वर्धिता-वास्तविकता, VR = आभासीया-वास्तविकता।
b) 'कृत्रिमबुद्धि' का अर्थ है कृत्रिम (मशीन की) बुद्धि; 'संवादयन्त्रम्' वह यन्त्र है जो बात करके उत्तर देता है।
c) कोष्ठक में लिखे वाक्य (जैसे 'सर्वे मिलित्वा गच्छन्ति') संवाद नहीं, दृश्य का वर्णन हैं; इन्हें बोलते समय अलग पहचानिए।
Official NCERT Textbook PDF: Class 8 Sanskrit Chapter 06 Digibharatam Yugaparivartanam
Class 8 Sanskrit Chapter 06 Digibharatam Yugaparivartanam Official E-Book
Download the certified NCERT Textbook for Class 8 Sanskrit Chapter 06 Digibharatam Yugaparivartanam. Educational authorities and instructors recommend this e-textbook as the foundational reference for all terminal tests and school assessments.
English Medium NCERT Textbooks for Class 8
Browse our comprehensive suite of NCERT books in English Medium designed for Class 8 students, offering clear conceptual breakdowns and concluding practice problems.
Additional Study Resources for Class 8 Sanskrit
The Class 8 Sanskrit Chapter 06 Digibharatam Yugaparivartanam text is carefully engineered to build rock-solid foundational concepts. For an enriched academic journey, learners should pair this with our online NCERT Solutions and revision notes.
FAQs
You can download the latest, teacher-verified PDF for NCERT Class 8 Sanskrit Deepakam Chapter 06 Digibharatam Yugaparivartanam (डिजिभारतम् युगपरिवर्तनम्) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.
Yes, our collection of Class 8 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.
Downloading chapter-wise PDFs for Class 8 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.
NCERT books are the main source for NCERT exams. By reading NCERT Class 8 Sanskrit Deepakam Chapter 06 Digibharatam Yugaparivartanam (डिजिभारतम् युगपरिवर्तनम्) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.