CBSE Class 9 Sanskrit Practice Worksheet Set 09

Class 9 Languages Practice Sheet: CBSE Class 9 Sanskrit Practice Worksheet Set 09

Explore structured practice materials through the CBSE Class 9 Sanskrit Practice Worksheet Set 09. Tailored for Class 9 learners, utilizing these Languages worksheets ensures thorough preparation and strengthens problem-solving accuracy before final school evaluations.

Download Sanskrit Worksheet PDF with Answers

Access the complete worksheet PDF for Class 9 Languages below. Regular practice with these targeted academic tasks builds familiarity with standard question patterns and helps secure higher marks in final school examinations.

खण्डः 'क' - अपठित-अवबोधनम्

 

Question 1. अधोलिखितं अनुच्छेदं पठित्वा निर्देशानुसारं अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि लिखत-
भारतीयेषु पुराणेषु सर्वदेवमयी गौरित्युद्घोषित मास्ते। माता तु उत्पन्नं बालकं त्रिवर्षपर्यन्तमेव दुग्धं पाययति तदनन्तरं तु आजीवनं दुग्धं वयं गोरेव लभामहे। अतएव गौः मानवसमाजस्य धात्री अस्ति। अथर्ववेदे कथितम् अस्ति - 'गोमातुः शरीरे सर्वे देवाः निवसन्ति।' आर्यसमाजस्य जनकः स्वामी दयानन्दः 'गौ करुणानिधिः' इत्यस्मिन् पुस्तिकायाम् गोमहत्त्वं व्यज्ञापयत्। गोदुग्धं अमृतमिव भवति सर्वे जानन्त्येव गोमूत्रे नाइट्रोजनसल्फर, अमोनिया गैस, ताँबा, लोहा, आदयः तत्त्वाः भवन्ति। गोमूत्रेण असाध्याः रोगाः न यन्ति। पंचगव्यैः (दुग्ध, घृत, दधि, गोमय, गोमूत्र ) बहूनि उपचाराणि भवन्ति। अद्यापि भारतीयाः सर्वेषु धार्मिककार्येषु गवामेव दानं कुर्वन्ति अतएव गौः भारतस्य महत्त्वपूर्णा सम्पत्तिर्वर्तते। तस्याः गोसम्पत्तेः सुरक्षा भारतीयानामस्माकमावश्यकं कर्तव्यं वर्तते। यतोहि वयं जानीमः एव - 'गावो वि वस्य मातरम् ।'

I. एकपदेन उत्तरत-
(i) बहूनि उपचाराणि कैः भवन्ति ?
(ii) 'गौ करुणानिधिः' पुस्तिकायाम् गोमहत्त्वं कः व्यज्ञापयत् ?
(iii) असाध्याः रोगाः केन न यन्ति ?
(iv) गौः मानवसमाजस्य का अस्ति ?

II. पूर्णवाक्येन उत्तरत-
(i) अथर्ववेदे किं कथितम् अस्ति ?
(ii) भारतीयेषु पुराणेषु किम् उद्घोषितमास्ते

III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i) 'गोमूत्रेण असाध्याः रोगाः नश्यन्ति।' अस्मिन् वाक्ये विशेषणपदम् किम् ?
(अ) गोमूत्रेण
(ब) असाध्याः
(स) रोगाः
(द) नश्यन्ति
(ii) 'पुस्तिकायाम्' पदे का विभक्तिः ?
(अ) द्वितीया
(ब) तृतीया
(स) सप्तमी
(द) सम्बोधन
(iii) 'निवसन्ति' इति क्रियापदस्य किं कर्तृपदं अनुच्छेदे प्रयुक्तम् ?
(अ) अथर्ववेदे
(ब) गोमातुः
(स) शरीरे
(द) देवाः
(iv) साध्याः इत्यस्य किं विलोमपदं अनुच्छेदे प्रयुक्तम् ?
(अ) असाध्यायाः
(ब) असाध्याः
(स) धात्री
(द) गोमय,

IV. अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत् ।
Answer:
I. एकपदेन उत्तरत-
(i) पञ्चगव्यैः
(ii) स्वामी दयानन्दः
(iii) गोमूत्रेण
(iv) धात्री

II. पूर्णवाक्येन उत्तरत-
(i) अथर्ववेदे कथितम् अस्ति यत् गोमातुः शरीरे सर्वे देवाः निवसन्ति।
(ii) भारतीयेषु पुराणेषु 'सर्वदेवमयी गौः' इति उद्घोषितम् आस्ते।

III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i) (ब) असाध्याः
(ii) (स) सप्तमी
(iii) (द) देवाः
(iv) (ब) असाध्याः

IV. समुचितं शीर्षकम्- 'धेनोः महत्त्वम्' (अथवा 'सर्वदेवमयी गौः')
In simple words: अनुच्छेदे गोमातुः महत्त्वं वर्णितम् अस्ति। तस्याः रक्षणं संवर्धनं च अस्माकं परमं कर्तव्यं वर्तते।

Exam Tip: एकपदेन उत्तरं केवलम् एकेनैव पदेन लेखनीयम्, पूर्णवाक्ये च प्रश्नवाचकपदस्य स्थाने उत्तरपदं संयोज्य सम्पूर्णं वाक्यं लिखन्तु।

 

खण्डः 'ख' - रचनात्मकं कार्यम्

 

Question 2. संगणककक्षायां प्रवेशं प्राप्तुं प्रधानाचार्यं प्रति लिखिते प्रार्थनापत्रे रिक्तस्थानानि उचितपदैः पूरयत। पत्रं पुनः उत्तरपुस्तिकायाम् लिखत् ।
देववाणी भवनम्
तिथिः -------------------
(1)........................ प्रधानाचार्यवर्याः
(2)........................।
सविनयं निवेदयामि यत् अहं (3).................... कक्षायां 90 प्रतिशतअंकान् गृहीत्वा उत्तीर्णः जातः। अधुना अहं (4)................... प्रवेष्टुम् इच्छामि। गणितविषये तु (5)................. सर्वदा शतप्रतिशतम् (6)......................गृह्यन्ते। अद्यत्वे सर्वेषु कार्येषु (7)................... अनिवार्यम्। कृपया महम् (8)..................... प्रदाय (9)....................माम् अनुगृह्णन्तु ।
(10).................................................
प्रार्थी
अ. ब. स.
मंजूषा - मान्याः, सधन्यवादः, आदरणीयाः, स्वीकृतिं, अंकाः, संगणककक्षायां, दशम, मया, संगणकम्, भवन्तः
Answer:
(1) आदरणीयाः
(2) मान्याः
(3) दशम
(4) संगणककक्षायां
(5) मया
(6) अंकाः
(7) संगणकम्
(8) स्वीकृतिं
(9) भवन्तः
(10) सधन्यवादः
In simple words: प्रधानाचार्यं प्रति संगणककक्षायां प्रवेशार्थं प्रार्थनापत्रे मञ्जूषायाः पदानि क्रमेण पूरणीयानि सन्ति।

Exam Tip: पत्रलेखने मञ्जूषायाः शब्दानां विभक्तिं लिङ्गं च सन्दर्भानुसारं दृष्ट्वा एव रिक्तस्थानानि पूरयितव्यानि।

 

Question 3. मंजूषायां प्रदत्त–शब्दानां सहायतया चित्रं दृष्ट्वा पंच वाक्यानि संस्कृतेन लिखत्–
मंजूषा - अभिनयं, अतीव, साधु, आत्मविश्वासः, जागृतः, आनन्दवर्धकः, पठति, वातावरणं, सावधानाः

अथवा

स्वविद्यालये भवता/भवत्या प्रथमवारं संस्कृतनाटकस्य आयोजनं कृतम् । स्वमनोदशां वर्णयन् पंच वाक्यानि संस्कृतेन मंजूषापदसहायतया लिखतु ।
मंजूषा - मार्गदर्शननेन, चित्तं, व्याकुलं, अभिनयं, अतीव, साधु, आत्मविश्वासः, जागृतः, करतलध्वनिं, प्रसन्नाः, आदेशेन
Answer:
चित्रवर्णनम्-
(i) अस्मिन् चित्रे छात्राः मञ्चे संस्कृतनाटकस्य अभिनयं कुर्वन्ति।
(ii) सर्वे छात्राः अतीव उत्साहेन स्वपात्रस्य अभिनयं प्रदर्शयन्ति।
(iii) प्रेक्षकाणां कृते एतत् सम्पूर्णं नाटकम् अतीव आनन्दवर्धकः अस्ति।
(iv) नाटकाभिनयेन छात्रेषु दृढः आत्मविश्वासः जागृतः भवति।
(v) सभायां सर्वे दर्शकाः सावधानाः भूत्वा नाटकस्य आनन्दं स्वीकुर्वन्ति।

अथवा (स्वमनोदशावर्णनम्)-
(i) विद्यालये प्रथमवारं संस्कृतनाटकस्य आयोजने मम चित्तं किञ्चित् व्याकुलं आसीत्।
(ii) शिक्षकाणां कुशलमार्गदर्शनेन आदेशेन च वयं सर्वे अभिनयं सम्यक् अकुर्म।
(iii) नाटकस्य सफलाभिनयेन मम मनसि अतीव आत्मविश्वासः जागृतः जातः।
(iv) सर्वे दर्शकाः प्रसन्नाः भूत्वा उच्चैः करतलध्वनिं अकुर्वन्।
(v) नाटकस्य अन्ते प्रधानाचार्यमहोदयः 'साधु साधु' इति उक्त्वा अतीव प्रशंसां कृतवान्।
In simple words: मञ्जूषायां प्रदत्तानां पदानां साहाय्येन सरलं संस्कृतवाक्यनिर्माणं क्रियते।

Exam Tip: चित्रवर्णने लट्लकारस्य प्रथमपुरुषस्य एकवचन-बहुवचनक्रियापदानां प्रयोगः वाक्यरचनां सुगमां करोति।

 

खण्डः 'ग' - अनुप्रयुक्त व्याकरणम्

 

Question 4. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत् -
(i) यथा ..................................... तथा प्रजा।
(अ) राज्ञः (ब) राजा (स) प्रजा (द) जना
(ii) ................................. देशरक्षायै वचनबद्धाः सन्ति।
(अ) भवन्तः (ब) भवान् (स) भवत् (द) मूर्धा
(iii) शरीरे तु .................................... निवासः भवति।
(अ) आत्म (ब) दन्ताः (स) आत्मनः (द) आत्मा
(iv) सागरविश्वविद्यालये .................................. पाठयन्ति
(अ) विद्वानाः (ब) विद्वान (स) विद्वांसः (द) विद्वान्
(v) ................................ समयम् व्यर्थं मा कुरु।
(अ) गच्छन (ब) गच्छन् (स) गच्छन्तं (द) गच्छतः
(vi) ................................ अनेक गुणाः विद्यन्ते।
(अ) आत्मनि (ब) आत्मनस्य (स) आत्मनः (द) आत्मा
(vii) ................................ आगते प्रणामः कर्तव्यः।
(अ) विदुषः (ब) विदुषाम् (स) विदुष (द) विदुषि
(viii) ................................ वाहनेन धूम्रं उत्सृज्यते।
(अ) गच्छति (ब) गच्छन्तम् (स) गच्छता (द) गच्छन्
(ix) गान्धिमहोदयः तु महान् ................................. एव।
(अ) आत्मनि (ब) आत्मनस्य (स) आत्मनः (द) आत्मा
(x) संविधाने ................................ आस्था अनिवर्या।
(अ) भवताम् (ब) भवद्भ्यः (स) भवान् (द) भवद्
(xi) ग्वालियरनगरे ........................... समाधिः अस्ति।
(अ) राज्ञः (ब) राजानौ (स) प्रजा (द) जना
(xii) ............................ शासनं किं किं यच्छति।
(अ) भवताम् (ब) भवतोः (स) भवान् (द) भवता
Answer:
(i) (ब) राजा
(ii) (अ) भवन्तः
(iii) (स) आत्मनः
(iv) (स) विद्वांसः
(v) (स) गच्छन्तं
(vi) (अ) आत्मनि
(vii) (द) विदुषि
(viii) (स) गच्छता
(ix) (द) आत्मा
(x) (अ) भवताम्
(xi) (अ) राज्ञः
(xii) (अ) भवताम्
In simple words: शब्दरूपाणां कारकविभक्तीनां च नियमान् अनुसृत्य समुचितपदस्य चयनं क्रियते।

Exam Tip: कर्ता-क्रियान्वयं विशेषण-विशेष्यान्वयं च अवधार्यैव सम्यक् रूपं चिनुत।

 

Question 5. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत् -
(i) मम ........................... मित्राणि सन्ति।
(अ) पंच (ब) पंच: (स) पंचा: (द) पंचानि
(ii) मम गृहे ........................ जनाः सन्ति।
(अ) चत्वाराः (ब) चत्वारः (स) चत्वारि (द) चत्वार
(iii) ...................... जनौ गच्छतः।
(अ) द्वौवय (ब) द्वौय (स) द्वौव (द) द्वौ
(iv) सागरविश्वविद्यालये .................................. शिक्षकाः पाठयन्ति ।
(अ) त्रीणि (ब) त्रे (स) त्रयः (द) त्रयाः
(v) ................................ काकः आसीत्।
(अ) एका (ब) एकः (स) एकम (द) एकम्
(vi) विद्यार्थिनः ................................ गुणाः विद्यन्ते।
(अ) पंच (ब) पंचाः (स) द्वे (द) ऐकम्
(vii) ................................ कर्णाभ्यां शृणोमि।
(अ) द्वौ (ब) द्वाभ्याम् (स) द्वे (द) द्वयः
(viii) सा ............................ वीरबालकस्य माता अस्ति।
(अ) एकस्याः (ब) एकम् (स) एकस्य (द) एका
(ix) दशरथः .................................. पुत्राणां पिता आसीत्।
(अ) चतुरः (ब) चतुर्णाम् (स) चत्वारः (द) चत्वारस्य
(x) सः .................................. पादेन खंजः।
(अ) एका (ब) एकः (स) एकम (द) एकेन
(xi) प्राणाः .................................. भवन्ति।
(अ) पंच (ब) पंचाः (स) पंचम (द) पंचः
(xii) .................................. लोकेषु धर्मः रक्षति।
(अ) त्रीणि (ब) त्रेशु (स) त्रिषु (द) त्रयाः
Answer:
(i) (अ) पंच
(ii) (ब) चत्वारः
(iii) (द) द्वौ
(iv) (स) त्रयः
(v) (ब) एकः
(vi) (अ) पंच
(vii) (ब) द्वाभ्याम्
(viii) (स) एकस्य
(ix) (ब) चतुर्णाम्
(x) (द) एकेन
(xi) (अ) पंच
(xii) (स) त्रिषु
In simple words: संख्यावाचकशब्दाः विशेष्यस्य लिङ्गानुसारं वचनानुसारं च प्रयुज्यन्ते।

Exam Tip: एकतः चतुर्पर्यन्तं संख्यावाचकशब्दानां रूपाणि त्रिषु लिङ्गेषु भिन्नानि भवन्ति, पञ्चतः अग्रे समानानि भवन्ति।

 

Question 6. कोष्ठके प्रदत्तधातुरूपस्य उचितम् रूपं चित्वा रिक्तस्थानानि पूरयत् -
(i) सर्वे ......................... निरामयाः।
(अ) सन्तु (ब) अस्तु (स) स्तु (द) स्तः
(ii) दुःखी न ...........................।
(अ) भवतुाम (ब) भवत (स) भवतु (द) भवतु
(iii) सर्वे ध्यानेन .......................।
(अ) पठेत् (ब) पठेयुः (स) पठेत (द) पठतु
(iv) मिथ्या मा ..............................।
(अ) वदत (ब) वदतु (स) वदेतु (द) वदसि
(v) यूयं पुस्तकं ...............................।
(अ) याचन्तम् (ब) याचध्वम् (स) याचे (द) याचेथाम्
(vi) त्वं भयानकं वनं ..............................।
(अ) नयेत (ब) नयेताम् (स) नयेः (द) नयेत्
(vii) चौराः पुस्तकं न ............................।
(अ) हर (ब) हरत (स) हरतु (द) हरन्तु
(viii) नेता देशहितं ............................।
(अ) चिन्तय (ब) चिन्तयतु (स) चिन्तयानि (द) चिन्तयेत्
(ix) मित्रं मम समीपे ..............................।
(अ) असानि (ब) अस्तु (स) एधि (द) स्ताम्
(x) विद्यायाः तमः ..........................।
(अ) नश्येत् (ब) नश्येतु (स) नश्ये (द) नश्य्
(xi) समये कार्यं .............................।
(अ) करोतु (ब) कर (स) करतु (द) करोत्
(xii) उचितं धनं अपि ...............................।
(अ) लभेत (ब) लभेय (स) लभेतु (द) लभतु
Answer:
(i) (अ) सन्तु
(ii) (स) भवतु
(iii) (ब) पठेयुः
(iv) (अ) वदत
(v) (ब) याचध्वम्
(vi) (स) नयेः
(vii) (द) हरन्तु
(viii) (द) चिन्तयेत्
(ix) (ब) अस्तु
(x) (अ) नश्येत्
(xi) (अ) करोतु
(xii) (अ) लभेत
In simple words: कर्तृपदस्य पुरुष-वचनानुसारं लोट्-विधिलिङ्-लकारयोः शुद्धं धातुरूपं प्रयुज्यते।

Exam Tip: 'मा' अव्ययस्य प्रयोगे प्रायेण लोट्लकारस्य मध्यमपुरुषस्य अथवा प्रथमपुरुषस्य क्रियापदं प्रयुज्यते।

 

Question 7. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत् -
(i) धिक् (1).....................................
(ii) सिंहः वनस्य (2)........................... अलम्।
(iii) अनुजः (3)..................................... विश्वसिति।
(iv) सः (4).............................. विना न किमपि करोति।
(v) एकं बसयानम् (5)................................. प्रति गच्छति।
(vi) परीक्षायाः (6)................................. अहं प्रयागं गमिष्यामि।
मंजूषा- मयि, माम्, पशुभ्यः, मूर्खम्, नगरम्, अनन्तरम्
Answer:
(i) मूर्खम् ('धिक्' योगे द्वितीया विभक्तिः भवति)
(ii) पशुभ्यः ('अलम्' योगे चतुर्थी विभक्तिः भवति)
(iii) मयि ('विश्वस्' धातोः योगे सप्तमी विभक्तिः भवति)
(iv) माम् ('विना' योगे द्वितीया विभक्तिः भवति)
(v) नगरम् ('प्रति' योगे द्वितीया विभक्तिः भवति)
(vi) अनन्तरम् ('अनन्तरम्' योगे पञ्चमी विभक्तिः भवति)
In simple words: उपपदविभक्तीनां नियमान् अनुसृत्य रिक्तस्थानेषु उचितपदानि पूरितानि सन्ति।

Exam Tip: धिक्-प्रति-विना-अनु इत्यादीनां विशिष्टपदानां योगे या विभक्तिर्भवति, तस्याः स्मरणं कुर्वन्तु।

 

Question 8. निर्देशानुसारं प्रकृतिप्रत्ययौ विभज्य संयोज्य वा रिक्तस्थानानि पूरयत् -
(i) खगेन तत्र .....................................(कूज + क्त)
(ii) इमां प्रतिमां प्रधानमंत्री..........................(स्थापय + क्तवतु)
(iii) कपिम् .....................................छात्रा धावति ।(ईक्ष् + शानच्)
(iv) उपविशन् (....................... + शतृ )मानवः चिन्तयति।
(v) भीता (.......................... + क्त )वृद्धा गच्छति।
(vi) अहं श्लोकं श्रुतवान् ।(........................... + क्तवतु)
Answer:
(i) कूजितम्
(ii) स्थापितवान्
(iii) ईक्षमाणा
(iv) उप + विश्
(v) भी
(vi) श्रु
In simple words: वाक्यस्य सन्दर्भं लिङ्ग-वचनादिकं च दृष्ट्वा कृदन्तप्रत्ययानां संयोजनं वियोजनं वा कर्तव्यम्।

Exam Tip: क्तवतु-प्रत्ययस्य रूपाणि पुंल्लिङ्गे 'वान्' तथा स्त्रीलिङ्गे 'वती' इति रूपेण भवन्ति; शानच्-प्रत्ययस्य च आत्मनेपदिधातुभिः सह प्रयोगो भवति।

 

खण्डः 'घ' - पठित-अवबोधनम्

 

Question 1. अधोलिखितं गद्यांशं, पद्यांशं, नाट्यांशं च पठित्वा प्रदत्त प्रश्नान् उत्तरत् –
(अ) गद्यांशः
मेवाडाधिपतिः महाराणाप्रतापः अरण्ये कतिपयैः विश्वासपात्रैः भटैः सह संकटापन्ने काले विचारमग्नः शिलायाम् उपविष्टः अस्ति। स्वदेशस्य रक्षायै युध्यमानस्य तस्य बहूनि वर्षाणि व्यतीतानि । हन्त! वराकस्य पार्श्वे सेनाया भोजनसामग्र्याः च अभावः विद्यते। अधुना तु सः स्वकीयैः प्राणैरेव स्वदेशं स्वतंत्रं कर्तुम् इच्छति ।

I. एकपदेन उत्तरत-
(i) स्वदेशं कः स्वतंत्रं कर्तुम् इच्छति ?
(ii) महाराणाप्रतापः कुत्र उपविष्टः अस्ति ?

II. पूर्णवाक्येन उत्तरत-
वराकस्य पार्श्वे कयोः अभावः विद्यते ?

III. शुद्धम् उत्तरं चित्वा लिखत -
(i) मेवाडाधिपतिः पदं कस्य विशेषणपदम् ?
(अ) भटस्य (ब) प्रतापस्य (स) वराकस्य (द) वसुन्धरायाः
(ii) हन्त ! पदे का विभक्तिः ?
(अ) द्वितीया (ब) तृतीया (स) प्रथमा (द) सम्बोधन

(आ) पद्यांशं
भारतं वर्तते मे परं सम्बलं, भारतं नित्यमेव स्मरामि प्रियम्।
भारतेनास्ति मे जीवनं जीवनं, भारतायार्पितं मेऽखिलं चेष्टितम्।।

I. एकपदेन उत्तरत-
(i) अहं नित्यं कं स्मरामि?
(ii) मया भारताय किम् अर्पितम्?

II. पूर्णवाक्येन उत्तरत-
केन विना मम जीवनं जीवनं नास्ति?

III. शुद्धम् उत्तरं चित्वा लिखत -
(i) 'मे' इति पदस्य शुद्धः अर्थः अस्ति-
(अ) मत् (ब) मम (स) मयि (द) अहम्
(ii) 'भारतेनास्ति' इति पदस्य सन्धिविच्छेदंकुरुत।
(अ) भार+तेनास्ति (ब) भारतेन+स्ति (स) भारतेना+स्ति (द) भारतेन+अस्ति

(इ) नाट्यांशः -
अष्टावक्रः - यदि भवान् इच्छति तदा यद् वस्तु भवदीयम् अस्ति तन्मह्यम् अर्पय।
जनकः - राज्यम् अर्पयामि?
अष्टावक्रः - राज्यं भवदीयं नास्ति। एतत् वंशपरम्पराप्राप्तम्।
जनकः - धनं ददामि?
अष्टावक्रः - धनं भवदीयम् नास्ति। एतत् प्रजायाः सकाशाद् आगतम्।
जनकः - शरीरं प्रयच्छामि ?
अष्टावक्रः - आत्मा शरीरस्य अध्यक्षः, न भवान्।
जनकः - स्वकीयं मनः समर्पयामि।
अष्टावक्रः - अस्तु इदम् एव अस्तु। दीयतां मे स्वमनः।

I. एकपदेन उत्तरत-
(i) धनं कस्याः सकाशाद् आगतम्?
(ii) शरीरस्य कः अध्यक्ष?

II. पूर्णवाक्येन उत्तरत-
जनकः स्वमनः कस्मै ददाति?

III. शुद्धम् उत्तरं चित्वा लिखत -
(i) भगवन्! इति सम्बोधनं कस्मै प्रयुक्तम्?
(अ) शरीराय (ब) स्वमनाय (स) जनकाय (द) अष्टावक्राय
(ii) स्वकीयं मनः समर्पयामि? अत्र मनः शब्दस्य किं विशेषणम्?
(अ) समर्पयामि (ब) मनः (स) स्वकीयं (द) कीयं
Answer:
(अ) गद्यांशस्य उत्तराणि-
I. (i) महाराणाप्रतापः
(ii) शिलायाम्
II. वराकस्य पार्श्वे सेनायाः भोजनसामग्र्याः च अभावः विद्यते।
III. (i) (ब) प्रतापस्य
(ii) (द) सम्बोधन (विस्मयादिबोधकम् अव्ययम्)

(आ) पद्यांशस्य उत्तराणि-
I. (i) भारतम्
(ii) अखिलं चेष्टितम्
II. भारतेन विना मम जीवनं जीवनं नास्ति।
III. (i) (ब) मम
(ii) (द) भारतेन+अस्ति

(इ) नाट्यांशस्य उत्तराणि-
I. (i) प्रजायाः
(ii) आत्मा
II. जनकः स्वमनः अष्टावक्राय ददाति।
III. (i) (द) अष्टावक्राय
(ii) (स) स्वकीयम्
In simple words: पठितानां पाठानाम् अंशान् सम्यक् अवबुध्य प्रश्नानाम् उत्तराणि संस्कृतेन प्रदत्तानि।

Exam Tip: पद्यांशे गद्यांशे च रेखाङ्कितपदानां मूलशब्दं विभक्तिं च ज्ञात्वा एव भाषिककार्यस्य उत्तरं चिनुत।

 

Question 10. अधोलिखितश्लोकानां अन्वयं मंजूषायाः साहाय्येन पूरयत् -
(अ) मेघश्यामोऽस्मि नो कृष्णो , महाकायो न पर्वत:।
बलिष्ठोऽस्मि न भीमोऽस्मि, कोऽस्म्यहं नासिकाकर:।।
अन्वयः- मेघश्यामः (i) ----------------- कृष्णः न , महाकायः (अस्मि) (ii) -----------------न, (iii) ------------------ अस्मि,(iv) ------------------------ न अस्मि, नासिकाकरः कः (v) ------------------------ अस्मि A

(आ) न कर्तुं समर्थोऽस्मि चर्चां विचारं , न यज्ञं न दानं न मानं विहारं।
प्रकुर्यां कथं पालनं मे प्रजायाः, क्षणो नास्मि लभ्यो यदा कल्पनायाः।।
अन्वयः- (अहं) चर्चां विचारं न (vi) ------------- न, दानं न, मानं (न) (vii) ------------- (च) कर्तुं (viii) -------------- न अस्मि मे प्रजायाः पालनं कथं प्रकुर्याम् यदा (ix) -------------- क्षणः (एव) (x) ---------------- नास्ति।
मंजूषा - विहारं, अहं, कल्पनायाः, पर्वत:, समर्थः, अस्मि, एकम्, भीमः, बलिष्ठः, लभ्यः
Answer:
(अ) अन्वयः-
मेघश्यामः (i) अस्मि कृष्णः न, महाकायः (अस्मि) (ii) पर्वतः न, (iii) बलिष्ठः अस्मि, (iv) भीमः न अस्मि, नासिकाकरः कः (v) अहम् अस्मि।

(आ) अन्वयः-
(अहं) चर्चां विचारं न (vi) समर्थः न, दानं न, मानं (न) (vii) विहारं (च) कर्तुं (viii) एकम् न अस्मि मे प्रजायाः पालनं कथं प्रकुर्याम् यदा (ix) कल्पनायाः क्षणः (एव) (x) लभ्यः नास्ति।
In simple words: श्लोकस्य अर्थक्रमं सरलवाक्यरूपे स्थापयितुं मञ्जूषायाः पदानि अन्वये योजितानि।

Exam Tip: अन्वये श्लोकस्य पदानां गद्यक्रमः भवति; श्लोकं पङ्क्तितः पठित्वा लुप्तपदानां चयनं सुगमं भवति।

 

Question 11. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(i) तरवे नमः अस्तु।
(ii) अहंकारेण ज्ञानं नश्यति।
(iii) हरेः शस्त्रं वर्तुलाकारं भवति।
(iv) भारतेन मह्यं शुभाः प्रेरणाः प्रदत्ताः।
(v) भारतं विश्वं कुटुम्बवत् आलोकयति।
Answer:
(i) कस्मै नमः अस्तु ?
(ii) केन ज्ञानं नश्यति ?
(iii) कस्य शस्त्रं वर्तुलाकारं भवति ?
(iv) भारतेन कस्मै शुभाः प्रेरणाः प्रदत्ताः ?
(v) भारतं कं कुटुम्बवत् आलोकयति ?
In simple words: रेखाङ्कितपदानां लिङ्गं, विभक्तिं, वचनं च ज्ञात्वा तदनुरूपं 'किम्' शब्दस्य रूपाणि योज्यन्ते।

Exam Tip: प्रश्ननिर्माणानन्तरं वाक्यस्य अन्ते प्रश्नवाचकचिह्नम् (?) अवश्यमेव योजनीयम्।

 

Question 12. अधोलिखितवाक्यानि कथाक्रमानुसारण संयोज्य लिखत –
(i) अष्टावक्रः मातरम् अपृच्छत् - मातः! क्व आस्ते मे पिता?
(ii) मात्रा अनुमतः अष्टावक्रः राजसभां गतः।
(iii) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत्।
(iv) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुं प्रारभन्त।
(v) हे राजन्! किम् वक्रे देहे आत्माऽपि वक्रः भवति।
(vi) जनकः अपृच्छत् - भो अष्टावक्र! किमर्थं हससि?
(vii) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः जाताः।
(viii) जनकः स्वमनः अष्टावक्राय यच्छति।
(ix) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुं यच्छति।
(x) जनकः पराजितः भूत्वा अष्टावक्रस्य पादयोः पतति।
Answer:
कथाक्रमानुसारं वाक्यानां समुचितः क्रमः एवं वर्तते-
(i) अष्टावक्रः मातरम् अपृच्छत् - मातः! क्व आस्ते मे पिता?
(ii) मात्रा अनुमतः अष्टावक्रः राजसभां गतः।
(iv) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुं प्रारभन्त।
(iii) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत्।
(vi) जनकः अपृच्छत् - भो अष्टावक्र! किमर्थं हससि?
(v) हे राजन्! किम् वक्रे देहे आत्माऽपि वक्रः भवति।
(vii) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः जाताः।
(x) जनकः पराजितः भूत्वा अष्टावक्रस्य पादयोः पतति।
(ix) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुं यच्छति।
(viii) जनकः स्वमनः अष्टावक्राय यच्छति।
In simple words: कथायाः घटनानां प्राथम्यं विचार्य वाक्यानि क्रमेण संयोजितानि सन्ति।

Exam Tip: कथाक्रमे वाक्यानां पूर्वपरसम्बन्धं ज्ञात्वा एव क्रमिकसूचीं रचयन्तु।

 

Question 13. रेखांकितशब्दानां प्रसंगानुसारं समुचितं अर्थं चित्वा लिखत –
(i) भामाशाहः धनस्य साहाय्येन प्रतापं प्रेरयति।
(अ) दानेन (ब) बलेन (स) सहायतया (द) उपयोगेन
(ii) मुनिना आह्लादकरः शब्दश्रुतः।
(अ) अद्भुत: (ब) आकर्षकः (स) आनंददायकः (द) संगीतयुक्तः
(iii) क्षमी दाता गुणग्राही स्वामी पुण्येन लभ्यते।
(अ) राजा (ब) पतिः (स) ज्ञानी (द) संन्यासी
(iv) ते कथं ईदृशं विज्ञानं।
(अ) दृश्यमानम् (ब) एतत्प्रकारकं (स) चमत्कारपूर्णम् (द) अद्भुतम्
(v) सा मुनेः अन्तिकम् आगताम्।
(अ) अन्ते (ब) समीपम् (स) सुदूरम् (द) अन्तिकम्
Answer:
(i) (स) सहायतया
(ii) (स) आनंददायकः
(iii) (अ) राजा
(iv) (ब) एतत्प्रकारकं
(v) (ब) समीपम्
In simple words: वाक्यस्य प्रसङ्गं दृष्ट्वा रेखाङ्कितपदानां पर्यायवाचिशब्दाः चिताः सन्ति।

Exam Tip: पाठस्य सन्दर्भे यः अर्थः सर्वाधिकः सङ्गतः भवति, तस्यैव विकल्पस्य चयनं विधेयम्।

CBSE Class 9 Languages Worksheets for Sanskrit

Practice Exercises for Class 9 Languages Sanskrit

Access structured practice worksheets for Sanskrit aligned with the 2026 CBSE curriculum. These downloadable exercises for Class 9 Languages help students build accuracy and reinforce core concepts for upcoming school tests.

Step-by-Step Solutions and Practice Guidelines

Built using official NCERT guidelines for Class 9 Languages, these practice sheets provide reliable academic support. Cross-reference your completed work with our detailed solutions to learn standard answer-writing formats for CBSE exams.

Enhance Speed with Online Practice

Wrap up your chapter revision by testing your knowledge against standard objective question formats. Explore our full library of free, up-to-date printable assignments to maximize your academic results in upcoming CBSE evaluations.

FAQs

Where can I download the 2026-27 CBSE printable worksheets for Class 9 Languages Sanskrit?

You can download the latest chapter-wise printable worksheets for Class 9 Languages Sanskrit for free from StudiesToday.com. These have been made as per the latest CBSE curriculum for this academic year.

Are these Sanskrit Languages worksheets based on the new competency-based education (CBE) model?

Yes, Class 9 Languages worksheets for Sanskrit focus on activity-based learning and also competency-style questions. This helps students to apply theoretical knowledge to practical scenarios.

Do the Class 9 Languages Sanskrit worksheets have answers?

Yes, we have provided solved worksheets for Class 9 Languages Sanskrit to help students verify their answers instantly.

Can I print these Sanskrit Languages test sheets?

Yes, our Class 9 Languages test sheets are mobile-friendly PDFs and can be printed by teachers for classroom.

What is the benefit of solving chapter-wise worksheets for Languages Class 9 Sanskrit?

For Sanskrit, regular practice with our worksheets will improve question-handling speed and help students understand all technical terms and diagrams.