NCERT Class 8 Sanskrit Deepakam Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru (सुभाषितरसं पीत्वा जीवनं सफलं कुरु) PDF Download

Read Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru of NCERT Class 8 Sanskrit

Explore the complete NCERT textbook for Class 8 Sanskrit. Tailored for the 2026-27 curriculum, this resource breaks down complex topics to help students prepare effectively for school examinations.

Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru PDF Resource

View or download the dedicated Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru resource below. This chapter-by-chapter structuring ensures easy navigation for daily study routines. For comprehensive exam preparation, pair this reading with our verified NCERT Solutions.

तृतीयः पाठः - सुभाषितरसं पीत्वा जीवनं सफलं कुरु

पितामहि! एकां नूतनां कथां कथयतु।

वत्से! त्वं प्रतिदिनं तु कथां शृणोषि, अद्य नीतिश्लोकान् शृणु।

नीतिश्लोकाः ...?

आम्। नीतिश्लोकाः। नीतिश्लोकाः नाम सुभाषितानि।

किं नाम सुभाषितानि?

सुष्ठु भाषितानि इति सुभाषितानि अर्थात् शोभनानि वचनानि। तानि सर्वदा जनानां हिताय भवन्ति।

सुभाषितपठनेन कः लाभः?

सुभाषितपठनेन आदर्श-मानवजीवन-निर्माणाय प्रेरणा प्राप्यते। मानवजीवनस्य सुखाय समृद्धये च सुभाषितानां पठनस्य आवश्यकता अस्ति। यः सुभाषितानि पठित्वा कार्यक्षेत्रे तस्य ज्ञानस्य प्रयोगं करोति सः बहून् लाभान् प्राप्नोति।

अहो सुन्दरम्। यदि एवं तर्हि अहं नूनं सुभाषितानि पठिष्यामि।

सुभाषितानि स्वकर्तव्यस्य अकर्तव्यस्य च विषये स्पष्टतया मार्गदर्शनं कुर्वन्ति। अतः सर्वे अवश्यं सुभाषितानि पठन्तु। तानि पठित्वा सर्वे जीवनस्य रहस्यम् अवगच्छन्तु, जीवनं सुखमयं च कुर्वन्तु।

शिक्षक की टिप्पणी

a) 'सुभाषित' का अर्थ है सुष्ठु भाषित, यानी अच्छी तरह कहा गया वचन।
b) इस संवाद में 'नीतिश्लोक' और 'सुभाषित' एक ही अर्थ में आए हैं।
c) पढ़ते समय देखिए: पोती प्रश्न पूछती है और पितामही उत्तर देती हैं।

गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्॥ १ ॥

पदच्छेदः - गायन्ति देवाः किल गीतकानि धन्याः तु ते भारतभूमिभागे स्वर्गापवर्गास्पद-मार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्।

अन्वयः - भारतभूमिभागे (ये) भवन्ति ते धन्याः इति देवाः गीतकानि गायन्ति किल। स्वर्गापवर्गास्पद-मार्गभूते (भारतभूमिभागे) तु (देवाः) सुरत्वात् भूयः पुरुषाः (भवन्ति)।

भावार्थः - ये मानवाः अस्यां भारतभूमौ जन्म प्राप्नुवन्ति ते धन्याः इति भारतभूमेः गुणगानं देवाः कुर्वन्ति। अतः वयं सर्वे भारतीयाः भाग्यशालिनः स्मः। धर्म-अर्थ-काम-मोक्षादिप्राप्तये मार्गभूते अस्मिन् भूखण्डे देवाः अपि देवत्वं विहाय मनुष्यरूपेण जन्मग्रहणार्थम् अभिलषन्ति।

गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः॥ २ ॥

पदच्छेदः - गुणी गुणम् वेत्ति न वेत्ति निर्गुणः बली बलम् वेत्ति न वेत्ति निर्बलः पिकः वसन्तस्य गुणम् न वायसः करी च सिंहस्य बलम् न मूषकः।

अन्वयः - गुणी गुणं वेत्ति। निर्गुणः (गुणं) न वेत्ति। बली बलं वेत्ति, निर्बलः (बलं) न वेत्ति। पिकः वसन्तस्य गुणं (वेत्ति) वायसः (वसन्तस्य गुणं) न (वेत्ति)। करी च सिंहस्य बलं (वेत्ति)। मूषकः (सिंहस्य बलं) न वेत्ति।

भावार्थः - गुणवान् जनः अन्येषां सद्गुणान् ज्ञातुं शक्नोति। परन्तु गुणहीनः जनः अपरेषां सुगुणान् अवगन्तुं समर्थः न भवति।

[चित्र: सिंह, हाथी, चूहा, कौआ और कोयल, पाठ्यपुस्तक में देखें]

शिक्षक की टिप्पणी

a) हर श्लोक के साथ पदच्छेद, अन्वय और भावार्थ है: पदच्छेद से शब्द अलग कीजिए, फिर अन्वय से वाक्य का क्रम समझिए।
b) 'धन्यास्तु' = धन्याः + तु और 'पिको' = पिकः; पदच्छेद में ऐसे जुड़े शब्द अलग करके लिखे जाते हैं।
c) दूसरे श्लोक में जोड़े देखिए: पिक-वायस और करी-मूषक; अन्वय में हर जोड़ा अलग वाक्य बनाता है।

NCERT Book for Class 8 Sanskrit Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru

Class 8 Sanskrit Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru Official E-Book

Download the certified NCERT Textbook for Class 8 Sanskrit Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru. Educational authorities and instructors recommend this e-textbook as the foundational reference for all terminal tests and school assessments.

English Medium NCERT Textbooks for Class 8

Explore our exhaustive library of NCERT books in English Medium spanning all subjects in Class 8. Every chapter features comprehensive explanations followed by extensive end-of-chapter exercises.

Additional Study Resources for Class 8 Sanskrit

The Class 8 Sanskrit Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru text is carefully engineered to build rock-solid foundational concepts. For an enriched academic journey, learners should pair this with our online NCERT Solutions and revision notes.

FAQs

Where can I download the latest NCERT Class 8 Sanskrit Deepakam Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru (सुभाषितरसं पीत्वा जीवनं सफलं कुरु) PDF Download in PDF for 2026-27?

You can download the latest, teacher-verified PDF for NCERT Class 8 Sanskrit Deepakam Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru (सुभाषितरसं पीत्वा जीवनं सफलं कुरु) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.

Does this Sanskrit book follow the latest NCERT rationalized syllabus?

Yes, our collection of Class 8 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.

Why is it better to download NCERT Class 8 Sanskrit Deepakam Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru (सुभाषितरसं पीत्वा जीवनं सफलं कुरु) PDF Download chapter-wise?

Downloading chapter-wise PDFs for Class 8 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.

Are these NCERT books for Class 8 Sanskrit sufficient for scoring 100%?

NCERT books are the main source for NCERT exams. By reading NCERT Class 8 Sanskrit Deepakam Chapter 03 Subhashitarasam Pitva Jivanam Saphalam Kuru (सुभाषितरसं पीत्वा जीवनं सफलं कुरु) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.