CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52

Download CBSE Class 10 Sanskrit Question Papers

Explore authentic exam materials through the CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52. Tailored for Class 10 learners, utilizing these Sanskrit previous year papers ensures thorough preparation and strengthens time management skills before final CBSE evaluations.

Access CBSE Question Papers and Solutions

Navigate directly to the solved Sanskrit question papers using the digital viewer below. Each practice set includes detailed solutions, allowing students to instantly cross-check their work and identify areas requiring further revision.

खण्ड: 'क' (10 अङ्काः)

 

अपठितावबोधनम्

 

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [10 Marks]

भारतवर्षः अस्माकं जन्मभूमिः अस्ति। भारतदेशः संसारे प्रसिद्धः अस्ति। अत्रैव अन्नेन, जलेन वायुना च वयं पालिताः पोषिताः च भवामः। इयं जन्मभूमिः भारतभूमिः अस्माकं माता अस्ति। अस्याः महिमा वर्णयितुं न शक्यते। इयं सा भारतभूमिः अस्ति, यत्र बहवः महर्षयः देशभक्ताः महाराजाश्च अभवन्। ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम् अकुर्वन्। यदा सर्वस्मिन् जगति अविद्यायाः प्रसारः आसीत्, तदा अत्र ऋषयः वेदानां गानम् कुर्वन्ति स्म। ते विदेशान् गत्वा ज्ञानस्य प्रसारम् अकुर्वन्। अत्रैव श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम् अस्ति। अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम।

 

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(i) जगति कस्याः प्रसारः आसीत् ?
(ii) वयं कस्य सदा उन्नतिं कुर्याम ?
(iii) भारतवर्षः केषां जन्मभूमिः अस्ति ?

Answer:
(i) अविद्यायाः।
(ii) भारतवर्षस्य।
(iii) अस्माकम्।

Teacher's Note:
a) उत्तरं गद्यांशस्य शब्दानाम् एव प्रयोगेण एकपदेन दातव्यम्।
b) केवलं द्वयोः प्रश्नयोः उत्तरम् आवश्यकम्, न त्रयाणाम्।

 

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [4 Marks]
(i) अत्र (भारते) के के महापुरुषाः अभवन् ?
(ii) वयं केन पालिताः पोषिताः भवामः ?
(iii) अस्माकं किं कर्तव्यमस्ति ?

Answer:
(i) अत्र (भारते) श्रीरामचन्द्रः, श्रीकृष्णः, गौतमबुद्धः, दयानन्दः अन्ये च महापुरुषाः अभवन्।
(ii) वयं अन्नेन, जलेन वायुना च पालिताः पोषिताः च भवामः।
(iii) अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम।

Teacher's Note:
a) उत्तरं पूर्णवाक्येन एव लेखनीयम्, न एकपदेन।
b) गद्यांशस्य वाक्यानि यथावत् उपयुज्य उत्तरं लिखेत्।

 

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। [1 Mark]

Answer: भारतवर्षः / अस्माकं जन्मभूमिः / भारतवर्षस्य महिमा।

Teacher's Note:
a) शीर्षकं संक्षिप्तं तथा विषयानुकूलं भवेत्।
b) गद्यांशस्य मुख्यभावं दृष्ट्वा शीर्षकं चयनीयम्।

 

(ई) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) 'देशभक्ताः' अस्य पदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम् ?
(A) बहवः
(B) महर्षयः
(C) महाराजाः
(D) अभवन्
(ii) 'भवामः' क्रियायाः कर्तृपदं किम् ?
(A) ते
(B) वयम्
(C) यूयम्
(D) अहम्
(iii) गद्यांशे 'संसारे' अस्य समानार्थकपदं किं प्रयुक्तम् ?
(A) जगति
(B) भूमौ
(C) भारते
(D) समस्ते
(iv) 'आगत्य' इत्यस्य विपर्ययः कः ?
(A) यदा
(B) ज्ञानस्य
(C) अस्य
(D) गत्वा

Answer:
(i) (B) महर्षयः (the marking scheme also accepts option (C) महाराजाः)
(ii) (B) वयम्
(iii) (A) जगति
(iv) (D) गत्वा

Teacher's Note:
a) विशेष्य-विशेषण सम्बन्धं ध्यानेन अवगच्छेत्।
b) कर्तृपदस्य वचनम् क्रियापदेन सह मेलयेत्।
c) समानार्थक-विपर्यय-पदानां ज्ञानं गद्यांशपठनेन एव प्राप्यते।

 

खण्ड: 'ख' (15 अङ्काः)

 

रचनात्मकं कार्यम्

 

2. भवती आशिमा। भवती पुस्तकालयात् एकं संस्कृतपुस्तकं 'सुभाषितम्' स्वीकृत्य पठितवती। तस्य पुस्तकस्य छायाप्रतिं स्वभ्रातुः सकाशं प्रेषयति। अधोलिखितं पत्रं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखतु। [5 Marks]
दिल्ली:
दिनाङ्क: ______________
प्रिय (i) ______________
सस्नेहं नमो नमः।
अत्र कुशलं (ii) ____________ । भवान् लिखितवान् यत् संस्कृतभाषायां लिखितं पुस्तकं पठितुम् (iii) ____________ । मया पुस्तकालयात् (iv) ___________ संस्कृतपुस्तकं स्वीकृत्य पठितम्। तस्मिन् अनेकानि (v) ___________ निहितानि सन्ति, येभ्यः मानवाः सदाचारवन्तः भवितुं शक्नुवन्ति। तस्य (vi) ___________ छायाप्रतिं कारयित्वा अहं (vii) _________ सकाशं प्रेषयामि। पठने भवतः रुचिः सर्वदा (viii) ____________ । भवान् कथमस्ति इति लिखतु। मातापितरौ (ix) _________ मम प्रणामाञ्जलिः निवेदनीया।
भवदीया स्नेहसिक्ता
(x) ____________
आशिमा
मञ्जूषा: प्रति, इच्छामि, भगिनी, तत्रास्तु, वर्धताम्, भ्रातः, भवतः, पुस्तकस्य, जीवनमूल्यानि, सुभाषितम्।

Answer:
(i) भ्रातः
(ii) तत्रास्तु
(iii) इच्छामि
(iv) सुभाषितम्
(v) जीवनमूल्यानि
(vi) पुस्तकस्य
(vii) भवतः
(viii) वर्धताम्
(ix) प्रति
(x) भगिनी

Teacher's Note:
a) मञ्जूषायाः पदानां विभक्तिं वाक्यसन्दर्भानुसारं मेलयेत्।
b) सम्बोधन-पदे विसर्गलोपः स्मर्तव्यः (भ्रातः)।
c) पत्रस्य प्रारूपं (स्थानम्, दिनाङ्कः, सम्बोधनम्, समाप्तिः) यथावत् रक्षणीयम्।

 

3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत। [5 Marks]
मञ्जूषा: हस्ते, उपविशति, सीता, शेते, माला, अस्ति, धनुः, अङ्के, शुकः, अस्ति, वृक्षौ, कण्ठे, रामः, शयनम्।

[Figure: A drawing showing Rama standing with a bow drawn back in his hand, aiming at a parrot sitting on the branch of a tree. Nearby, Sita is shown seated, with another figure lying down resting near her, wearing a garland around the neck.]

Answer:
1. रामः हस्ते धनुः धारयति।
2. शुकः वृक्षौ तिष्ठति।
3. सीता अङ्के शयनम् करोति।
4. सीतायाः कण्ठे माला अस्ति।
5. सीता उपविशति।

Teacher's Note:
a) चित्रे दृश्यमानानि पदार्थान् एव मञ्जूषापदैः सह योजयेत्।
b) वाक्यशुद्धिः एव मुख्यम्, वाक्यदैर्घ्यं नास्ति महत्त्वपूर्णम्।
c) प्रत्येकं वाक्यार्थं भाषा-दृष्ट्या शुद्धं भवेत्।

अथवा

निम्नलिखितं विषयम् अधिकृत्य मञ्जूषा-प्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत - 'वृक्षाः अस्माकं मित्राणि' [5 Marks]
मञ्जूषा: परोपकारम्, वृक्षाः, पक्षिभ्यः, सत्पुरुषाः, वासः आतपम्, सहन्ते, फलानि, छायां, पुष्पाणि, काष्ठम्, गृहाणां कृते, यच्छन्ति, वृष्टिः, भूमेः संरक्षणम्, विश्रामं, सम्यक्, पथिकाः।

Answer: वृक्षाः अस्माकं मित्राणि सन्ति। ते सत्पुरुषाः इव सदैव परोपकारं कुर्वन्ति। वृक्षाः पक्षिभ्यः वासं यच्छन्ति। ते पथिकेभ्यः छायां यच्छन्ति तथा स्वयम् आतपं सहन्ते। वृक्षाः अस्मभ्यं फलानि पुष्पाणि काष्ठं च यच्छन्ति। ते भूमेः संरक्षणम् अपि कुर्वन्ति।

Teacher's Note:
a) अनुच्छेदे न्यूनातिन्यूनं पञ्च वाक्यानि आवश्यकानि।
b) मञ्जूषापदानां विभक्तिपरिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते।
c) व्याकरणदृष्ट्या शुद्धता एव मुख्यमूल्याङ्कनाधारः।

 

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्) [5 Marks]
(i) तुम सब विद्यालय जाते हो।
You all go to school.
(ii) मैं कल अपने मामा के घर गया था।
I went to my maternal uncle's home yesterday.
(iii) धनिक निर्धन को धन देते हैं।
The rich give money to the poor.
(iv) गीता कल गाना गायेगी।
Tomorrow Geeta will sing a song.
(v) यह मेरे मित्र का घर है।
This is my friend's home/house.
(vi) हमें पर्यावरण की रक्षा करनी चाहिए।
We should protect the environment.
(vii) निधेय अपने पिताजी के साथ घूमने जाता है।
Nidheya goes for a walk with his father.

Answer:
(i) यूयं सर्वे विद्यालयं गच्छथ।
(ii) अहं ह्यः स्वमातुलगृहम् अगच्छम्।
(iii) धनिकाः निर्धनाय धनं यच्छन्ति।
(iv) गीता श्वः गीतं गास्यति।
(v) इदम् मम मित्रस्य गृहम् अस्ति।
(vi) वयं पर्यावरणं रक्षेम।
(vii) निधेयः स्वपित्रा सह भ्रमणाय गच्छति।

Teacher's Note:
a) केवलं पञ्च वाक्यानि एव अनूदितव्यानि, अतः स्पष्टतमानि पञ्च वाक्यानि चिनुत।
b) कर्ता-क्रिया-कालानुसारं धातुरूपं शुद्धं भवेत्।
c) षष्ठी-विभक्तिः सम्बन्धार्थे (मित्रस्य, मातुलगृहम्) ध्यानेन प्रयोक्तव्या।

 

खण्ड: 'ग' (25 अङ्काः)

 

अनुप्रयुक्त-व्याकरणम्

 

5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) क्रोधो हि शत्रुः प्रथमो नराणाम्।
(ii) कथं जनः + तम् परितोषयिष्यति ?
(iii) महानगरमध्ये चलदनिशम् कालायसचक्रम्।
(iv) "एतत् भवान् पश्यति न ?" इति प्रति + अवोचत्।
(v) आपेदिरेऽम्बरपथं परितः पतङ्गाः।

Answer:
(i) क्रोधः + हि
(ii) जनस्तम्
(iii) चलत् + अनिशम्
(iv) प्रत्यवोचत्
(v) आपेदिरे + अम्बरपथम्

Teacher's Note:
a) विसर्गसन्धिं तथा स्वरसन्धिं ध्यानेन पृथक् कुर्यात्।
b) केवलं चत्वारि प्रश्नानि एव समाधेयानि।

 

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) रामः कुशलवौ आसनार्धम् उपवेशयति।
(A) कुशः च लवौ च
(B) कुशः च लवः च
(C) कुशौ च लवौ च
(D) कुशौ च लवः च
(ii) वृक्षस्य उपरि वानरः आरोहति।
(A) वृक्षे उपरि
(B) वृक्षस्योपरि
(C) वृक्षोपरि
(D) वृक्षौपरि
(iii) अहमेव स्थितप्रज्ञः इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि।
(A) स्थिता प्रज्ञा यस्य सः।
(B) स्थिता प्रज्ञा यस्याः सा
(C) स्थितः प्रज्ञः यस्याः सा
(D) स्थिताः प्रज्ञाः यस्मै तत्
(iv) समयम् अनतिक्रम्य सर्वेषां महत्त्वं विद्यते।
(A) उपसमयम्
(B) अनुसमयम्
(C) प्रतिसमयम्
(D) यथासमयम्
(v) अभियुक्तः च अतीव कृशकायः आसीत्।
(A) कृशः च कायः च
(B) कृशं च कायं च
(C) कृशः कायः यस्य सः
(D) कायं च कृशं च

Answer:
(i) (B) कुशः च लवः च
(ii) (C) वृक्षोपरि
(iii) (A) स्थिता प्रज्ञा यस्य सः।
(iv) (D) यथासमयम्
(v) (C) कृशः कायः यस्य सः

Teacher's Note:
a) द्वन्द्वसमासे उभयोः पदयोः लिङ्ग-वचनं ध्यानेन दृश्यताम्।
b) बहुव्रीहिसमासे विग्रहवाक्ये सर्वनामपदस्य लिङ्गं मूलपदानुसारं भवति।
c) अव्ययीभावसमासे प्रथमा-एकवचनं सर्वदा भवति (यथासमयम्)।

 

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चित् वित्तम् उपार्जितवान्।
(A) उप + अर्ज् + क्तवतु
(B) उप + अर्ज् + क्त
(C) उप + अर्ज् + तव्यत्
(D) उप + अर्ज् + अनीयर्
(ii) अवक्र + तल् यथा चित्ते तथा वाचि भवेद्यदि।
(A) अवक्रत्वम्
(B) अवक्रता
(C) अवक्रतला
(D) अवक्रतल्
(iii) किं कुपिता एवं भणति ?
(A) कुप् + ता
(B) कुपित + ता
(C) कुपित + टाप्
(D) कुपित + तल्
(iv) पुत्रद्वयोपेता बुद्धि + मतुप् पितुर्गृहं प्रति चलिता।
(A) बुद्धिमान्
(B) बुद्धिमन्तः
(C) बुद्धिमत्यः
(D) बुद्धिमती
(v) तपोवनवासिनो देवी इति नाम्ना आह्वयन्ति।
(A) देव + ङीप्
(B) देवी + ङीप्
(C) देव + ई
(D) देव + टाप्

Answer:
(i) (A) उप + अर्ज् + क्तवतु
(ii) (B) अवक्रता
(iii) (C) कुपित + टाप्
(iv) (D) बुद्धिमती
(v) (A) देव + ङीप्

Teacher's Note:
a) कृदन्त-तद्धितप्रत्ययानां रूपाणि सम्यक् स्मर्तव्यानि।
b) स्त्रीलिङ्गप्रत्ययाः (टाप्, ङीप्) मूलशब्दानुसारं भिद्यन्ते।
c) मतुप्-प्रत्ययस्य स्त्रीलिङ्गरूपं 'मती' भवति, इति स्मर्तव्यम्।

 

8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) राधिका - आराध्ये ! त्वं कुत्र गच्छसि ?
आराध्या - राधिके ! मया तु हट्टम् _________ ।
(A) गच्छ्यते
(B) गम्यते
(C) गच्छामि
(D) गम्यन्ते
(ii) राधिका - ________ हट्टं किमर्थं गम्यते ?
आराध्या - अहं पुस्तकं क्रेतुं तत्र गच्छामि।
(A) त्वम्
(B) त्वया
(C) अहम्
(D) मया
(iii) राधिका - एवं वा। मह्यमपि पुस्तक-पठनं रोचते।
आराध्या - तव प्रियं पुस्तकं किम् ________ ?
(A) अस्ति
(B) भूयते
(C) स्तः
(D) सन्ति
(iv) राधिका - मम प्रियं पुस्तकं हितोपदेशः अस्ति।
आराध्या - अस्तु। अधुना ________ चलामि।
(A) मया
(B) आवाभ्याम्
(C) आवाम्
(D) अहम्

Answer:
(i) (B) गम्यते
(ii) (B) त्वया
(iii) (A) अस्ति
(iv) (D) अहम्

Teacher's Note:
a) कर्मवाच्ये कर्तृपदस्य तृतीया विभक्तिः भवति (त्वया, मया)।
b) कर्तृवाच्ये कर्तृपदं प्रथमा विभक्तौ भवति।
c) केवलं त्रयाणां प्रश्नानाम् उत्तरम् आवश्यकम्।

 

9. कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) राघवः प्रतिदिनं प्रातः (5:30) वादने उत्तिष्ठति।
(ii) सः (6:00) वादने योगासनं करोति।
(iii) ततः (7:15) वादने स्नाति।
(iv) तदनन्तरं मित्रेण सह (8:45) वादने विद्यालयं गच्छति।
(v) (2:00) वादने विद्यालयात् गृहमागच्छति।

Answer:
(i) सार्धपञ्च
(ii) षड् / षट्
(iii) सपादसप्त
(iv) पादोननव
(v) द्वि

Teacher's Note:
a) कालवाचकशब्दानां रूपाणि (सार्ध, सपाद, पादोन) ध्यानेन स्मर्तव्यानि।
b) केवलं चतुर्णां रिक्तस्थानानाम् उत्तरम् आवश्यकम्।

 

10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) हयाः नागाः __________ बोधिताः वहन्ति।
(ii) यदा किञ्चिद् अविनयं पश्यति __________ एवम् अधिक्षिपति।
(iii) न तावत् कलहेन समयं __________ यापयन्तु।
(iv) __________ गच्छति भवान् ?
मञ्जूषा: वृथा, तदा, कुत्र, च।

Answer:
(i) च
(ii) तदा
(iii) वृथा
(iv) कुत्र

Teacher's Note:
a) अव्ययपदानि विभक्तिरहितानि भवन्ति, अतः वाक्यार्थानुसारं चयनं कुर्यात्।
b) केवलं त्रयाणाम् एव रिक्तस्थानानां पूर्तिः अपेक्षिता।

 

11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) एका सिंहः सुखेन विश्राम्यते।
(A) एकम्
(B) एकः
(C) एकेन
(D) एकाः
(ii) त्वम् पाठं पठति।
(A) पठसि
(B) पठामि
(C) पठथः
(D) पठथ
(iii) ह्यः मम मातुलः युद्धक्षेत्रात् प्रत्यागमिष्यति।
(A) प्रत्यागमिष्यसि
(B) प्रत्यागच्छति
(C) प्रत्यागच्छत्
(D) प्रत्यागच्छन्
(iv) कीदृशः तव मैत्री ?
(A) कीदृशम्
(B) कीदृश्यः
(C) कीदृशी
(D) कथम्

Answer:
(i) (B) एकः
(ii) (A) पठसि
(iii) (C) प्रत्यागच्छत्
(iv) (C) कीदृशी

Teacher's Note:
a) लिङ्गवचनकर्तृ-विशेषण-सामञ्जस्यं ध्यानेन दृश्यताम् (एकः सिंहः)।
b) कर्ता 'त्वम्' इत्यस्य क्रियापदं मध्यमपुरुष-एकवचने भवति (पठसि)।
c) भूतकालस्य क्रिया (ह्यः) लङ्लकारे भवति (प्रत्यागच्छत्)।

 

खण्ड: 'घ' (30 अङ्काः)

 

पठितावबोधनम्

 

12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [5 Marks]

कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुदन् अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तम् उत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः।

 

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [1 Mark]
(क) कृषकः कीदृशं वृषभं तोदनेन नुदन् अवर्तत ?
(ख) तथापि कः न उत्थितः ?
(ग) कः क्षेत्रकर्षणं कुर्वन् आसीत् ?

Answer:
(क) दुर्बलम्।
(ख) वृषः।

Teacher's Note:
a) एकपदेन एव उत्तरं देयम्, वाक्येन नहि।
b) केवलं द्वयोः प्रश्नयोः उत्तरम् आवश्यकम्।

 

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) दुर्बलः वृषभः केन गन्तुमशक्तः आसीत् ?
(ख) कृषकः काभ्यां क्षेत्रकर्षणं कुर्वन् आसीत् ?
(ग) कीदृशः कृषीवलः तमुत्थापयितुं बहुवारं यत्नम् अकरोत् ?

Answer:
(क) दुर्बलः वृषभः जवेन गन्तुमशक्तः आसीत्।
(ख) कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत्।

Teacher's Note:
a) गद्यांशस्य वाक्यानि प्रायः यथावत् उपयुज्य पूर्णवाक्ये उत्तरं लिखेत्।
b) विभक्तिशुद्धता मूल्याङ्कने महत्त्वपूर्णा।

 

(iii) यथानिर्देशम् उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) 'क्रुद्धः कृषीवलः' अनयोः विशेष्यपदं किम् ?
(ख) 'सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात' अत्र 'पपात' क्रियायाः कर्तृपदं किम् ?
(ग) 'असमर्थः' इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तम् ?

Answer:
(क) कृषीवलः।
(ख) सः ऋषभः / सः।

Teacher's Note:
a) विशेष्य-विशेषण-सम्बन्धं वाक्यरचनायां ध्यानेन दृश्यताम्।
b) कर्तृपदं क्रियापदस्य लिङ्ग-वचनानुसारं निर्धार्यते।

 

13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत - [5 Marks]

गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषकः।।

 

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [1 Mark]
(क) कः बलं वेत्ति ?
(ख) वायसः कस्य गुणं न वेत्ति ?
(ग) सिंहस्य बलं कः जानाति ?

Answer:
(क) बली।
(ख) वसन्तस्य।

Teacher's Note:
a) पद्यांशस्य शब्दानां प्रत्यक्षप्रयोगेण एकपदे उत्तरं देयम्।
b) केवलं द्वयोः प्रश्नयोः उत्तरम् आवश्यकम्।

 

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) गुणं कः वेत्ति कः न वेत्ति ?
(ख) वसन्तस्य गुणं कः जानाति ?
(ग) करी कस्य बलं वेत्ति ?

Answer:
(क) गुणी गुणं वेत्ति निर्गुणः न वेत्ति।
(ख) वसन्तस्य गुणं पिकः जानाति।

Teacher's Note:
a) पद्यांशस्य पंक्तिं यथावत् उपयुज्य पूर्णवाक्ये उत्तरं लिखेत्।
b) श्लोकस्य भावः - गुणज्ञानं गुणिनः एव भवति, इति स्मर्तव्यम्।

 

(iii) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) 'निर्बलः' इत्यस्य विलोमपदं किं प्रयुक्तम् ?
(ख) 'गजः' अस्य कः पर्यायः अत्र प्रयुक्तः ?
(ग) 'न वेत्ति निर्बलः' अत्र क्रियापदं किम् ?

Answer:
(क) बली।
(ख) करी।

Teacher's Note:
a) विलोमपदम् अर्थतः विपरीतं पदं भवति (बली-निर्बलः)।
b) पर्यायपदज्ञानाय शब्दकोशाभ्यासः उपयोगी।

 

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [5 Marks]

राम: - अतिदीर्घः प्रवासोऽयम् दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः ?
विदूषकः - (जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी ?
लव: - तस्याः द्वे नामनी।
विदूषकः - कथमिव ?
लव: - तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिर्वधूरिति।
राम: - अपि च इतस्तावद्वयस्य ! मुहूर्तमात्रम्।
विदूषकः - (उपसृत्य) आज्ञापयतु भवान्।
राम: - अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः ?
(नेपथ्ये)
इयती वेला सञ्जाता, रामायणगानस्य नियोगः किमर्थं न विधीयते ?
उभौ - राजन् ! उपाध्यायदूतोऽस्मान् त्वरयति।
राम: - मयापि सम्माननीय एव मुनिनियोगः।

 

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [1 Mark]
(क) 'आज्ञापयतु भवान्' इति कः वदति ?
(ख) तपोवनवासिनः युवयोः जननीं केन नाम्ना आह्वयन्ति ?
(ग) 'तस्याः द्वे नामनी' इति कः कथयति ?

Answer:
(क) विदूषकः।
(ख) देवी।

Teacher's Note:
a) नाट्यांशे वक्तृनामानि पात्रस्य वाक्यात् पूर्वं दत्तानि भवन्ति, तानि ध्यानेन दृश्यन्ताम्।
b) केवलं द्वयोः प्रश्नयोः उत्तरम् आवश्यकम्।

 

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) राम: केन आविष्टः अनयोः मातरं नामतो वेदितुम् इच्छति ?
(ख) कः अस्मान् त्वरयति ?
(ग) 'वधूः' इति नाम्ना सीतां कः आह्वयति ?

Answer:
(क) रामः कुतूहलेन आविष्टः अनयोः मातरं नामतो वेदितुम् इच्छति।
(ख) उपाध्यायदूतः अस्मान् त्वरयति।

Teacher's Note:
a) पूर्णवाक्ये कर्ता, क्रिया, कर्म स्पष्टतया लिखेत्।
b) नाट्यांशस्य सन्दर्भं अवगत्य एव उत्तरं लिखनीयम्।

 

(iii) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) 'अहं पुनः पृच्छामि' अत्र 'पृच्छामि' क्रियायाः कर्तृपदं किम् ?
(ख) 'ज्ञातुम्' इति पदस्य समानार्थकं पदं किम् ?
(ग) 'अतिदीर्घः प्रवासः' अनयोः विशेषणपदं किम् ?

Answer:
(क) अहम्।
(ख) वेदितुम्।

Teacher's Note:
a) कर्तृपदं क्रियापदस्य पुरुष-वचनानुसारं निर्धार्यते।
b) पर्यायशब्दज्ञानाय नाट्यांशस्य शब्दावली पुनः पठनीया।

 

15. अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) बकः छलेन मीनान् भक्षयति।
(ii) मन्त्री सभायाम् अपि अकातरः भवेत्।
(iii) निर्मलम् जलं नास्ति।
(iv) बुद्धिमती आत्मपुत्रौ चपेटया प्रहरन्ती जगाद।
(v) सः कृच्छ्रेण भारं वहति।

Answer:
(i) बकः छलेन कान् भक्षयति ?
(ii) मन्त्री कस्याम् अपि अकातरः भवेत् ?
(iii) कीदृशम् जलं नास्ति ?
(iv) बुद्धिमती आत्मपुत्रौ कया प्रहरन्ती जगाद ?

Teacher's Note:
a) रेखाङ्कितपदस्य विभक्ति-वचन-लिङ्गानुसारं प्रश्नसर्वनाम चयनीयम्।
b) केवलं चतुर्णां प्रश्नानाम् एव निर्माणम् आवश्यकम्।

 

16. मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुनः लिखत - [4 Marks]
विचित्रे खलु संसारे नास्ति किञ्चित् निरर्थकम्।
अश्वश्चेद्धावने वीरः भारस्य वहने खरः ।।
अन्वयः -
(i) _________ संसारे खलु किञ्चित् (ii) _________ न अस्ति। (iii) ________ चेद् धावने वीरः (तर्हि) भारस्य (iv) ________ खरः (वीरः) भवति।
मञ्जूषा: वहने, विचित्रे, अश्वः, निरर्थकम्।

Answer:
(i) विचित्रे
(ii) निरर्थकम्
(iii) अश्वः
(iv) वहने

Teacher's Note:
a) श्लोकस्य पदक्रमं गद्यक्रमे रूपान्तरित कृत्वा अन्वयं निर्धारयेत्।
b) मञ्जूषापदानां विभक्तिं मूलश्लोकानुसारं मेलयेत्।

अथवा

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषायाः सहाय्येन पूरयित्वा पुनः लिखत - [4 Marks]
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।
भावार्थः -
यः जनः धर्मप्रदां (i) _________ वदति, सः न केवलं स्वस्य जीवनम् अपितु अन्येषामस्य जीवनं रसमयं करोति। किन्तु (ii) _________ उक्त्वा यः सर्वत्र कटुतां (iii) ___________ । एतादृशः जनः मूर्खः भवति। कठोरवचनानां प्रयोगः तु (iv) __________ कटुफलस्य भक्षणस्य सदृशम् एव भवति।
मञ्जूषा: कठोरवचनम्, अपक्वस्य, प्रसारयति, वाचम्।

Answer:
(i) वाचम्
(ii) कठोरवचनम्
(iii) प्रसारयति
(iv) अपक्वस्य

Teacher's Note:
a) श्लोकस्य भावार्थं मञ्जूषापदैः तर्कसङ्गतरूपेण पूरयेत्।
b) श्लोकस्य सन्देशः - मधुरवाणी एव श्रेष्ठा, कठोरवचनं त्याज्यम्।

 

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत - [4 Marks]
(i) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(ii) सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्ट्यात् पुत्रौ चपेटया प्रहृत्य जगाद।
(iii) अस्ति देउलाख्यो ग्रामः।
(iv) पश्चाद् अन्यो द्वितीयः कश्चिद् लक्ष्यते।
(v) मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
(vi) अयमेकस्तावद् विभज्य भुज्यताम्।
(vii) कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ?
(viii) तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।

Answer:
1. अस्ति देउलाख्यो ग्रामः।
2. तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
3. तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
4. मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
5. सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्ट्यात् पुत्रौ चपेटया प्रहृत्य जगाद।
6. कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ?
7. अयमेकस्तावद् विभज्य भुज्यताम्।
8. पश्चाद् अन्यो द्वितीयः कश्चिद् लक्ष्यते।

Teacher's Note:
a) कथायाः आरम्भः स्थान-परिचयेन (देउलाख्यो ग्रामः) एव भवति।
b) घटनाक्रमे कार्य-कारण-सम्बन्धं ध्यानेन विचारयेत्।
c) कथायाः अन्ते समाधानसूचकं वाक्यं भवति (पश्चाद् अन्यो द्वितीयः कश्चिद् लक्ष्यते)।

 

18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) यदि एवं तर्हि मां निजगले बद्ध्वा सत्वरम् चल।
(A) शीघ्रम्
(B) सत्यम्
(C) वनम्
(D) अनृतम्
(ii) वायुमण्डलं भृशम् दूषितमस्ति।
(A) न्यूनम्
(B) अत्यधिकम्
(C) सर्वम्
(D) अन्तिकम्
(iii) दुर्बलः वृषः जवेन गन्तुम् अशक्तः चासीत्।
(A) समर्थः
(B) सबलः
(C) असमर्थः
(D) शक्यः
(iv) गावश्च गोभिः तुरगाः तुरङ्गैः।
(A) खराः
(B) गजाः
(C) सिंहाः
(D) अश्वाः

Answer:
(i) (A) शीघ्रम्
(ii) (B) अत्यधिकम्
(iii) (C) असमर्थः

Teacher's Note:
a) प्रसङ्गानुसारं सर्वाधिकसमीपार्थकं पदं चयनीयम्।
b) केवलं त्रयाणां प्रश्नानाम् एव उत्तरम् आवश्यकम्।

Please click the link below to download pdf file of CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52

CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 & Previous Year Question Papers for Class 10 Sanskrit

Previous Year Question Papers: Class 10 Sanskrit

Explore downloadable past papers for Class 10 Sanskrit. Utilizing the CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 ensures complete preparedness by offering clear insights into historical question styles and marking expectations.

Boost Your Exam Score with Past Papers

Reviewing official papers clarifies the exact marking scheme and structural layout established by the CBSE, enabling students to structure answers for maximum score potential.

Enhance Practice with Sample Papers & Solutions

Wrap up your exam preparation by reviewing detailed answer keys and tackling additional practice sets. All resources on our platform are free to access.

FAQs

Where can I download the official PDF for CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52?

The CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 is available for download on StudiesToday.com. It includes complete set with all sections so that Class 10 students can practice with the exact same paper that came in the CBSE exams.

Are the solutions for CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 based on the official CBSE marking scheme?

Yes, the solutions for CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 are prepared by subject matter experts as per official marking scheme. Class 10 students will understand the structure of answers and 'step-marks' methodology Sanskrit.

How does solving CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 help in preparing for the 2026 exams?

Solving previous year papers like CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 is important to understand repeat themes and question difficulty levels of Sanskrit. It helps Class 10 students to test their time management skills too.

Can I access CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 in different languages?

Yes, where applicable, CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52 is available in both English and Hindi mediums. All students from Class 10 can access Sanskrit study material in their preferred language.

Is there a charge to download the CBSE Class 10 Sanskrit solved papers?

No, all previous year question papers on StudiesToday, including CBSE Class 10 Sanskrit Question Paper 2026 Solved Code 52, are provided free of charge in mobile-friendly PDF.