CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52

Class 10 Sanskrit Solved Question Papers: CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52

Explore authentic exam materials through the CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52. Tailored for Class 10 learners, utilizing these Sanskrit previous year papers ensures thorough preparation and strengthens time management skills before final CBSE evaluations.

Download Class 10 Sanskrit Question Paper PDF

View or download the dedicated CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 resource below. Engaging with these previous year papers under timed conditions ensures continuous academic progress and mastery of the 2026-27 exam format.

खण्ड: 'क' (10 अङ्का:)

 

अपठितावबोधनम्

 

1. अधोलिखितं गद्यांशं पठित्वा दत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [10 Marks]

परोपकार: अर्थात् परेषाम् उपकार: अस्ति। परोपकारस्य प्रवृत्त्या एव मनुष्य: पशुभ्य: पृथक् भवति। आहारादिप्रवृत्तिषु पशव: मानवै: समं भवन्ति, परं मानव: स्वविवेकेन ज्ञानेन च आत्मन: उन्नतिं करोति। अपि च, न केवलं मानवा: अपितु अस्माकं प्रकृति: अपि परेभ्य: एव अस्ति। यथा वृक्षा: स्वफलानि न खादन्ति, ते परेषां कृते एव फलानि छायां च यच्छन्ति। नद्य: परोपकाराय एव वहन्ति। गाव: अन्येभ्य: एव दुग्धं यच्छन्ति। अस्माकं पुण्यभूमौ अनेके महापुरुषा: अभवन् ये स्वप्राणान् परित्यज्य देशस्य समाजस्य च रक्षाम् अकुर्वन्। राजा शिवि: शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा श्येनाय दत्तवान्। ऋषि: दधीचि: अपि वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत्। अद्यापि लोके अनेके समाजसुधारका: सन्ति ये स्वार्थं परित्यज्य लोककल्याणं कुर्वन्ति। अत: सत्यमेव कथितम् -
अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकार: पुण्याय पापाय परपीडनम्।।

 

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(i) का: परोपकाराय एव वहन्ति ?
(ii) केषु पशव: मानवै: समं भवन्ति ?
(iii) क: वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत् ?

Answer:
(i) नद्य: ।
(ii) आहारादिप्रवृत्तिषु ।
(iii) ऋषि: दधीचि: ।

Teacher's Note:
a) एकपदेन उत्तरे केवलम् एकं पदं लेखनीयम्, पूर्णवाक्यं न आवश्यकम्।
b) त्रिषु प्रश्नेषु केवलं द्वयोः उत्तरं लेखनीयम्।

 

(आ) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) [4 Marks]
(i) मनुष्य: पशुभ्य: कथं पृथक् भवति ?
(ii) राजा शिवि: शरणागतस्य कपोतस्य रक्षायै किं कृतवान् ?
(iii) मानव: केन आत्मन: उन्नतिं करोति ?

Answer:
(i) परोपकारस्य प्रवृत्त्या एव मनुष्य: पशुभ्य: पृथक् भवति।
(ii) राजा शिवि: शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा श्येनाय दत्तवान्।
(iii) मानव: स्वविवेकेन ज्ञानेन च आत्मन: उन्नतिं करोति।

Teacher's Note:
a) उत्तरं पूर्णवाक्येन एव लेखनीयम्, अन्यथा अंकाः न प्राप्यन्ते।
b) गद्यांशस्य शब्दानाम् उपयोगेन एव उत्तरं शुद्धं भवति।

 

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। [1 Mark]

Answer: परोपकार: / परेषाम् उपकार: ।

Teacher's Note:
a) शीर्षकं गद्यांशस्य मुख्यविषयं सूचयेत्।
b) शीर्षकं संक्षिप्तम् एव भवेत्।

 

(ई) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) 'गाव: अन्येभ्य: एव दुग्धं यच्छन्ति' अत्र किं कर्तृपदम् ?
(A) गाव:
(B) अन्येभ्य:
(C) यच्छन्ति
(D) एव
(ii) 'दधीचि:' इति विशेष्यपदस्य विशेषणपदं किम् ?
(A) ऋषि:
(B) गाव:
(C) मानव:
(D) पशव:
(iii) 'तरव:' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
(A) नद्य:
(B) वृक्षा:
(C) गाव:
(D) फलानि
(iv) 'ते परेषां कृते एव फलानि छायां च यच्छन्ति' अस्मिन् वाक्ये 'ते' इति पदं कस्मै प्रयुक्तम् ?
(A) जनेभ्य:
(B) सर्वेभ्य:
(C) नदीभ्य:
(D) वृक्षेभ्य:

Answer: (i) (A) गाव: ; (ii) (A) ऋषि: ; (iii) (B) वृक्षा: ; (iv) (D) वृक्षेभ्य:

Teacher's Note:
a) कर्तृपदं ज्ञातुं क्रियापदस्य कर्तारं गवेषयेत्।
b) चतुर्षु प्रश्नेषु केवलं त्रयाणां उत्तरं लेखनीयम्।

 

खण्ड: 'ख' (15 अङ्का:)

 

रचनात्मकं कार्यम्

 

2. भवत: नाम ध्रुव: । भवान् उत्तरप्रदेशस्य एकस्मिन् छात्रावासे वसति । भवत: माता अरुणा भवन्तम् अनुशासनस्य महत्त्वम् ज्ञापयितुं पत्रं लिखति । ध्रुवं प्रति लिखितं पत्रं पूरयित्वा पुन: लिखत । [5 Marks]
12, गगनविहार:,
दिल्लीत:
प्रिय ध्रुव !
(i) ______________ ।
अत्र (ii) ____________ तत्रास्तु । (iii) ____________ मन्ये तव अध्ययनं सम्यक् चलति यत: त्वम् अनुशासित: छात्र: असि । पुत्र ! जीवनस्य प्रत्येके क्षेत्रे अनुशासनस्य (iv) ___________ आवश्यकता भवति । अनुशासनं हि नाम कर्तव्यपालनम् । सर्वेषां कृते (v) ___________ आवश्यकम् । मानवजीवने कर्तव्य-अकर्तव्यबोध: अनुशासनेन एव भवति । परं च अद्यत्वे छात्रेषु अनुशासनस्य भाव: न दृश्यते । ते (vi) ___________ अनुशासनं न पालयन्ति । गुरून् मातापितृन् च (vii) _________ । त्वं कदापि एवं न कुरु यत: अनुशासनं विना जीवने (viii) ____________ न प्राप्यते । त्वं स्व-स्वास्थ्यं प्रति अपि (ix) _________ भव । समयेन भोजनं कुरु, विश्रामम् अपि आवश्यकम् । शेषं सर्वं कुशलम् ।
भवत: माता
(x) ____________
मञ्जूषा - महती, सावधान:, तिरस्कुर्वन्ति, अनुशासनम्, अहम्, चिरंजीव, अरुणा, साफल्यम्, विद्यालयस्य, कुशलम् ।

Answer:
(i) चिरंजीव
(ii) कुशलम्
(iii) अहम्
(iv) महती
(v) अनुशासनम्
(vi) विद्यालयस्य
(vii) तिरस्कुर्वन्ति
(viii) साफल्यम्
(ix) सावधान:
(x) अरुणा

Teacher's Note:
a) मञ्जूषायाः पदानि व्याकरणदृष्ट्या वाक्ये सम्यक् योजनीयानि।
b) पत्रस्य आरम्भे तथा अन्ते सम्बोधनं, नाम च शुद्धं लेखनीयम्।

 

3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत । [5 Marks]
मञ्जूषा - उपवनम्, महिला, वृक्षा:, सूर्योदय:, स्वच्छम्, कृषका:, हरीतिमा, बालका:, खगा:, उदेति, व्यायाम:, पित्रा, बालिका, पुष्पाणि, धावति, वातावरणम्, आकाशे, सन्ति ।

[Figure: A garden scene at sunrise. Hills are in the background with the sun rising between them. A bird's nest is on a tree branch. Birds fly in the sky. Two tall trees stand on the right side with colourful flowers below them. A woman sits in the middle of the garden. A man walks with a bag. Some children run and play, one throwing a ball-like object.]

Answer:
1. उपवने सूर्योदय: भवति।
2. आकाशे खगा: उड्डयन्ते।
3. बालका: उपवने धावन्ति।
4. वृक्षा: हरीतिमायुक्ता: सन्ति।
5. महिला उपवने उपविशति।

Teacher's Note:
a) चित्रे दृश्यमानान् विषयान् आधृत्य सरलवाक्यानि रचनीयानि।
b) मञ्जूषायाः शब्दाः सहायतार्थं सन्ति, स्वयं शब्दप्रयोगः अपि स्वीकार्यः।

OR

निम्नलिखितं विषयम् अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत - 'योगस्य लाभा:' [5 Marks]
मञ्जूषा - शरीरम्, स्वस्थ:, जना:, आनन्दम्, प्रात:काले, मानसिकम्, स्वास्थ्यम्, स्फूर्ति:, भवति, अनुभवन्ति, सर्वे, छात्रा:, समयानुसारम्, यथाशक्ति ।

Answer: योगस्य लाभा: बहवः सन्ति। प्रात:काले योगेन शरीरं स्वस्थं भवति। मानसिकं स्वास्थ्यम् अपि योगेन वर्धते। जना: योगात् आनन्दम् अनुभवन्ति। सर्वे छात्रा: यथाशक्ति योगं कुर्वन्ति। योगेन शरीरे स्फूर्ति: भवति। अत: सर्वैः समयानुसारं योगः करणीयः।

Teacher's Note:
a) अनुच्छेदे न्यूनातिन्यूनं पञ्च वाक्यानि आवश्यकानि।
b) वाक्यरचना व्याकरणदृष्ट्या शुद्धा भवेत्।

 

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्) [5 Marks]
(i) हम सब संस्कृत पढ़ते हैं ।
We all study Sanskrit.
(ii) हमें अपने स्वास्थ्य की रक्षा करनी चाहिए ।
We should take care of our health.
(iii) सैनिकों ने देशरक्षा के लिए युद्ध किया ।
The soldiers fought for the defence of their country.
(iv) वे सब मैदान में खेलने जाएँगे ।
They will go to play in the field.
(v) चारों वेद ईश्वर की वाणी हैं ।
The four Vedas are words of God.
(vi) बच्चों ! तुम वहाँ जाओ ।
Children ! You go there.
(vii) सबको सदैव प्रसन्न रहना चाहिए ।
All should be happy always.

Answer:
(i) वयं सर्वे संस्कृतं पठाम: ।
(ii) वयं स्वस्वास्थ्यं रक्षेम / अस्माभि: स्वस्वास्थ्यस्य रक्षा करणीया ।
(iii) सैनिका: देशरक्षायै युद्धम् अकुर्वन् ।
(iv) ते क्रीडाक्षेत्रे खेलितुं यास्यन्ति ।
(v) चत्वार: वेदा: ईश्वरस्य वाणी सन्ति ।
(vi) बालका: ! यूयं तत्र गच्छत ।
(vii) सर्वे सर्वदा प्रसन्ना: स्यु: ।

Teacher's Note:
a) कर्ता, क्रिया, काल इत्येतेषां सामरस्यं अनुवादे आवश्यकम्।
b) सप्तवाक्येषु केवलं पञ्च वाक्यानाम् अनुवाद: लेखनीयः।

 

खण्ड: 'ग' (25 अङ्का:)

 

अनुप्रयुक्तव्याकरणम्

 

5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) नास्ति योजक: + तत्र दुर्लभ: ।
(ii) जन्तून् पार्थिवरूपेण स कृतान्तो न संशय: ।
(iii) सर्वथा सम्यक् + उक्तं सिंहमहोदयेन ।
(iv) कृषक: क्षेत्रकर्षणं कुर्वन्नासीत् ।
(v) एतयोर्जननी तेनावमानिता निर्वासिता ।

Answer:
(i) योजकस्तत्र ।
(ii) कृतान्त: + न ।
(iii) सम्यगुक्तम् ।
(iv) कुर्वन् + आसीत् ।
(v) एतयो: + जननी ।

Teacher's Note:
a) विसर्गसन्धि, स्वरसन्धि नियमान् स्मरणीयाः।
b) चतुर्षु प्रश्नेषु केवलं चतुर्णां उत्तरं लेखनीयम्।

 

6. रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) नास्ति किञ्चित् निरर्थकम् ।
(A) अर्थस्य योग्यम्
(B) अर्थस्य प्रति
(C) अर्थस्य सहितम्
(D) अर्थस्य अभाव:
(ii) नैव जनग्रसनम् ।
(A) जनेषु ग्रसनम्
(B) जनान् ग्रसनम्
(C) जनानां ग्रसनम्
(D) जनेभ्य: ग्रसनम्
(iii) सर्वेषु अपत्येषु जननी तुल्यवत्सला ।
(A) तुल्यं वत्सलं यस्या: सा
(B) तुल्यं वत्सलं यस्य स:
(C) तुल्यं वत्सलम्
(D) तुल्यं वत्सला सा
(iv) तयो: एक: शरीरेण दुर्बल: आसीत् ।
(A) शरीराद्दुर्बल:
(B) शरीरदुर्बल:
(C) शरीर्दुर्बल:
(D) शरीरेदुर्बल:
(v) क्षत्रियकुलपितामहयो: सूर्ये च चन्द्रे च को वा भवतोर्वंशस्य कर्ता ।
(A) सूर्यचन्द्र:
(B) सूर्यचन्द्रयो:
(C) सूर्यचन्द्राभ्याम्
(D) सूर्यचन्द्रौ

Answer: (i) (D) अर्थस्य अभाव: ; (ii) (C) जनानां ग्रसनम् ; (iii) (A) तुल्यं वत्सलं यस्या: सा ; (iv) (B) शरीरदुर्बल: ; (v) (B) सूर्यचन्द्रयो:

Teacher's Note:
a) समासस्य नाम (नञ्, तत्पुरुष, बहुव्रीहि, द्विगु) ज्ञात्वा विग्रहः करणीयः।
b) पञ्चप्रश्नेषु केवलं चतुर्णां उत्तरं लेखनीयम्।

 

7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) कुसुमावलि: समीरचालिता मे वरणीया ।
(A) वरणीय + आ
(B) वरणीया + आ
(C) वरणीय + टाप्
(D) वरणीय + इन्
(ii) मम पिता मह्यम् एकां संस्कृतस्य मास + ठक् पत्रिकाम् आनीतवान् ।
(A) मासिकम्
(B) मासिका
(C) मासिकीम्
(D) मासिक:
(iii) आकारस्य लघु + त्व कार्यबाधक: न भवति ।
(A) लघुत्वम्
(B) लघुत्व
(C) लघुता
(D) लघुत्वा
(iv) जनै: गङ्गाया: शुद्धता करणीया ।
(A) शुद्ध + टाप्
(B) शुद्ध + तल्
(C) शुद्ध + त्व
(D) शुद्ध + क्त्वा
(v) ता: कन्या: गुणवत्य: सन्ति ।
(A) गुण + मतुप्
(B) गुण + टाप्
(C) गुण + त्व
(D) गुण + क्तवत्

Answer: (i) (C) वरणीय + टाप् ; (ii) (C) मासिकीम् ; (iii) (A) लघुत्वम् ; (iv) (B) शुद्ध + तल् ; (v) (A) गुण + मतुप्

Teacher's Note:
a) प्रत्ययस्य लिङ्ग-विभक्ति-अनुसारं रूपं परिवर्तते।
b) पञ्चप्रश्नेषु केवलं चतुर्णां उत्तरं लेखनीयम्।

 

8. वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) त्वया चित्राणि __________ ।
(A) दृश्यन्ते
(B) दृश्ये
(C) दृश्येते
(D) दृश्यते
(ii) __________ ध्यानेन पठनं करोमि ।
(A) मह्यम्
(B) माम्
(C) अस्माभि:
(D) अहम्
(iii) साधुना __________ क्रियते ।
(A) पूजायाम्
(B) पूजा
(C) पूजाया:
(D) पूजाम्
(iv) किं त्वया ग्राम: __________ ?
(A) गम्यन्ते
(B) गम्येते
(C) गच्छामि
(D) गम्यते

Answer: (i) (A) दृश्यन्ते ; (ii) (D) अहम् ; (iii) (B) पूजा ; (iv) (D) गम्यते

Teacher's Note:
a) कर्मवाच्ये कर्ता तृतीयाविभक्तौ, कर्म च प्रथमाविभक्तौ भवति।
b) चतुर्षु प्रश्नेषु केवलं त्रयाणां उत्तरं लेखनीयम्।

 

9. कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) मम मित्रं प्रात: (6:45) धावनं करोति ।
(ii) तदा स: (8:00) विद्यालयं गच्छति ।
(iii) (1:30) विद्यालयात् गृहम् आगच्छति ।
(iv) सायंकाले (4:15) क्रिकेटक्रीडां क्रीडति ।
(v) तदनन्तरं स: (7:00) पठनं करोति ।

Answer:
(i) पादोन-सप्तवादने ।
(ii) अष्टवादने ।
(iii) साध-एकवादने ।
(iv) सपाद-चतुर्वादने ।
(v) सप्तवादने ।

Teacher's Note:
a) पादोन, सपाद, सार्ध इत्यादि शब्दान् स्मरणीयाः।
b) पञ्चप्रश्नेषु केवलं चतुर्णां उत्तरं लेखनीयम्।

 

10. मञ्जूषायां प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) तव भोजनावकाश: __________ भविष्यति ?
(ii) __________ मम जन्मदिवसे मम गृहे यज्ञम् अभवत् ।
(iii) यदि सर्वे प्रयासं न करिष्यन्ति __________ पर्यावरणं शुद्धं न भविष्यति ।
(iv) शिशु: __________ चलित्वा मातु: समीपम् आगच्छत् ।
मञ्जूषा - ह्य:, शनै:, तर्हि, कदा ।

Answer:
(i) कदा ।
(ii) ह्य: ।
(iii) तर्हि ।
(iv) शनै: ।

Teacher's Note:
a) अव्ययपदानां रूपं न परिवर्तते, अत: अर्थानुसारं चयनं करणीयम्।
b) चतुर्षु प्रश्नेषु केवलं त्रयाणां उत्तरं लेखनीयम्।

 

11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुन: लिखत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) सा शोभना कन्या सन्ति ।
(A) आसम्
(B) स्त:
(C) अस्तु
(D) अस्ति
(ii) नील: गगनं शोभते ।
(A) नीलाम्
(B) नीलम्
(C) नीला
(D) नीलस्य
(iii) शाखेषु खगा: सन्ति ।
(A) शाखायाम्
(B) शाखे
(C) शाखा
(D) शाखया
(iv) पिता पुत्राय स्निह्यति ।
(A) पुत्रस्य
(B) पुत्रेण
(C) पुत्रे
(D) पुत्रौ

Answer: (i) (D) अस्ति ; (ii) (B) नीलम् ; (iii) (A) शाखायाम् ; (iv) (C) पुत्रे

Teacher's Note:
a) कर्ता-क्रियापदयोः, विशेष्य-विशेषणयोः च लिङ्ग-संख्या-सामरस्यं परीक्षणीयम्।
b) चतुर्षु प्रश्नेषु केवलं त्रयाणां उत्तरं लेखनीयम्।

 

खण्ड: 'घ' (30 अङ्का:)

 

पठितावबोधनम्

 

12. अधोलिखितं गद्यांशं पठित्वा दत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [5 Marks]

अस्ति देउलाख्यो ग्राम: । तत्र राजसिंह: नाम राजपुत्र: वसति स्म । एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितृगृहं प्रति चलिता । मार्गे गहनकानने सा एकं व्याघ्रं ददर्श । सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्र्यात् पुत्रौ चपेटया प्रहत्य जगाद - "कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ: ? अयमेकस्तावद्विभज्य भुज्यताम् । पश्चाद् अन्यो द्वितीय: कश्चिल्लक्ष्यते ।"

 

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [1 Mark]
(क) राजसिंह: कुत्र वसति स्म ?
(ख) बुद्धिमती पुत्रद्वयोपेता कुत्र चलिता ?
(ग) सा कुत्र एकं व्याघ्रं ददर्श ?

Answer:
(क) देउलाख्ये ग्रामे ।
(ख) पितृगृहं प्रति ।
(ग) मार्गे गहनकानने ।

Teacher's Note:
a) एकपदेन उत्तरे संक्षेपः आवश्यकः।
b) त्रिषु प्रश्नेषु केवलं द्वयोः उत्तरं लेखनीयम्।

 

(ii) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) सा पुत्रौ चपेटया प्रहत्य किं जगाद ?
(ख) एकदा का पितृगृहं प्रति चलिता ?
(ग) बुद्धिमती किमर्थं पितृगृहं प्रति चलिता ?

Answer:
(क) सा पुत्रौ चपेटया प्रहत्य जगाद - "कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ: ? अयमेकस्तावद्विभज्य भुज्यताम् । पश्चाद् अन्यो द्वितीय: कश्चिल्लक्ष्यते ।"
(ख) एकदा राजसिंहस्य भार्या बुद्धिमती पितृगृहं प्रति चलिता।
(ग) बुद्धिमती केनापि आवश्यककार्येण पितृगृहं प्रति चलिता।

Teacher's Note:
a) उत्तरे मूलगद्यांशस्य वाक्यरचना यथावत् उपयुज्यते।
b) द्वयोः प्रश्नयोः उत्तरं पर्याप्तम्।

 

(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) 'जगाद' इति क्रियापदस्य कर्तृपदं किम् ?
(ख) 'व्याघ्रम्' इति पदस्य विशेषणपदं किम् ?
(ग) अनुच्छेदे 'अपश्यत्' इत्यस्य पदस्य क: पर्याय: प्रयुक्त: ?

Answer:
(क) सा / बुद्धिमती ।
(ख) एकम् / आगच्छन्तम् ।
(ग) ददर्श ।

Teacher's Note:
a) कर्तृपदम् ज्ञातुं क्रियापदस्य कर्तारं गवेषयेत्।
b) पर्यायपदं गद्यांशे एव अन्वेषणीयम्।

 

13. अधोलिखितं पद्यांशं पठित्वा दत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [5 Marks]

रे रे चातक ! सावधानमनसा मित्र क्षणं श्रूयताम्
अम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशा: ।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वच: ।।

 

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [1 Mark]
(क) अस्मिन् श्लोके कवि: कं सम्बोधयति ?
(ख) कीदृशं वच: न ब्रूहि ?
(ग) अम्भोदा: कुत्र सन्ति ?

Answer:
(क) चातकम् ।
(ख) दीनम् ।
(ग) गगने ।

Teacher's Note:
a) श्लोकस्य प्रथमपादे सम्बोधनपदं दृश्यते।
b) एकपदेन उत्तरे विभक्तिः सम्यक् उपयोज्या।

 

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) बहव: के सन्ति ?
(ख) सर्वस्य पुरत: किं न वक्तव्यम् ?
(ग) के वृष्टिभि: वसुधां आर्द्रयन्ति ?

Answer:
(क) बहव: अम्भोदा: सन्ति।
(ख) सर्वस्य पुरत: दीनं वच: न वक्तव्यम्।
(ग) अम्भोदा: वृष्टिभि: वसुधां आर्द्रयन्ति।

Teacher's Note:
a) श्लोकस्य अर्थं समझकर पूर्णवाक्ये उत्तरं लेखनीयम्।
b) कर्ता-क्रिया-कर्म त्रयाणां सामरस्यं परीक्षणीयम्।

 

(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) 'केचिद् वृथा गर्जन्ति ।' अत्र 'केचिद्' पदं केभ्य: प्रयुक्तम् ?
(ख) 'बहव: अम्भोदा:' अनयो: पदयो: विशेषणपदं किम् ?
(ग) श्लोके 'समक्षम्' इत्यस्य पदस्य क: पर्याय: प्रयुक्तोऽस्ति ?

Answer:
(क) अम्भोदेभ्य: ।
(ख) बहव: ।
(ग) पुरत: ।

Teacher's Note:
a) विशेषणपदं विशेष्यपदस्य लिङ्ग-संख्या-अनुसारं परिवर्तते।
b) पर्यायपदं श्लोके एव अन्वेषणीयम्।

 

14. अधोलिखितं नाट्यांशं पठित्वा दत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - [5 Marks]

सुरभि: - भो वासव ! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि । स: दीन इति जानन्नपि कृषक: तं बहुधा पीडयति । स: कृच्छ्रेण भारमुद्वहति । इतरमिव धुरं वोढुं स: न शक्नोति । एतत् भवान् पश्यति न ?" इति प्रत्यवोचत् ।
"भद्रे ! नूनम् । सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?" इति इन्द्रेण पृष्टा सुरभि: प्रत्यवोचत् - "बहून्यपत्यानि मे सन्तीति सत्यम् तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि । यतो हि अयमन्येभ्यो दुर्बल: । सर्वेष्वपत्येषु जननी तुल्यवत्सला एव । तथापि दुर्बले सुते मातु: अभ्यधिका कृपा सहजैव" इति । सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत् ।
स च तामेवमसान्त्वयत् - "गच्छ वत्से ! सर्वं भद्रं जायेत ।"

 

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) [1 Mark]
(क) कस्य दैन्यं दृष्ट्वा सा रोदिति ?
(ख) सर्वेष्वपत्येषु का तुल्यवत्सला ?
(ग) स: केन भारमुद्वहति ?

Answer:
(क) पुत्रस्य ।
(ख) जननी ।
(ग) कृच्छ्रेण ।

Teacher's Note:
a) नाट्यांशस्य संवादांशं ध्यानपूर्वकं पठनीयम्।
b) एकपदेन उत्तरे केवलं मूलपदं लेखनीयम्।

 

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) कस्मिन् मातु: अभ्यधिका कृपा सहजैव ?
(ख) सुरभिवचनं श्रुत्वा किम् अभवत् ?
(ग) आखण्डल: किं कथयित्वा सुरभिम् असान्त्वयत् ?

Answer:
(क) दुर्बले सुते मातु: अभ्यधिका कृपा सहजैव।
(ख) सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।
(ग) आखण्डल: इदं कथयित्वा सुरभिम् असान्त्वयत् - "गच्छ वत्से ! सर्वं भद्रं जायेत ।"

Teacher's Note:
a) संवादस्य उद्धृतवाक्यं यथावत् उद्धृत्य लेखनीयम्।
b) द्वयोः प्रश्नयोः उत्तरं पर्याप्तम्।

 

(iii) भाषिककार्यम् - (केवलं प्रश्नद्वयम्) [2 Marks]
(क) 'सुते' इति पदस्य विशेषणपदं किम् ?
(ख) 'पीडयति' इति क्रियापदस्य कर्तृपदं किम् ?
(ग) 'आकर्ण्य' इति पदस्य पर्यायपदं किं प्रयुक्तम् ?

Answer:
(क) दुर्बले ।
(ख) कृषक: ।
(ग) श्रुत्वा ।

Teacher's Note:
a) विशेषणपदस्य लिङ्ग-विभक्ति विशेष्यपदेन समाना भवेत्।
b) पर्यायपदं मूलनाट्यांशे अन्वेषणीयम्।

 

15. अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं प्रश्नचतुष्टयम्) [4 Marks]
(i) जनकेन शैशवे सुताय विद्याधनं दीयते ।
(ii) प्रकृत्या: सन्निधौ वास्तविकं सुखं विद्यते ।
(iii) आवां भ्रातरौ सोदर्यौ स्व: ।
(iv) सिंह: वानराभ्यां स्वरक्षायाम् असमर्थ: एवासीत् ।
(v) तत्र राजसिंह: नाम राजपुत्र: वसति स्म ।

Answer:
(i) जनकेन शैशवे कस्मै विद्याधनं दीयते ?
(ii) कस्या: सन्निधौ वास्तविकं सुखं विद्यते ?
(iii) आवां कौ सोदर्यौ स्व: ?
(iv) सिंह: काभ्यां स्वरक्षायाम् असमर्थ: एवासीत् ?
(v) तत्र क: नाम राजपुत्र: वसति स्म ?

Teacher's Note:
a) प्रश्नवाचकपदं रेखाङ्कितपदस्य विभक्तौ, लिङ्गे, संख्यायां च समानं भवेत्।
b) प्रश्ने केवलं प्रश्नवाचकपदं लेखनीयम्, पूर्णवाक्यं न आवश्यकम्।

 

16. मञ्जूषात: समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुन: लिखत - [4 Marks]
दुष्कराण्यपि कर्माणि मतिवैभवशालिन: ।
नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते ।।
अन्वय: -
मतिवैभवशालिन: (जना:) (i) _________ युक्तिं (च) (ii) _________ दुष्कराणि (iii) _________ कर्माणि (iv) _________ एव प्रकुर्वते ।
मञ्जूषा - लीलया, नीतिम्, अपि, समालम्ब्य ।

Answer:
(i) नीतिम्
(ii) समालम्ब्य
(iii) अपि
(iv) लीलया

Teacher's Note:
a) अन्वये पदक्रमः प्रचलितगद्यक्रमानुसारं भवेत्।
b) मञ्जूषायाः पदानि विभक्त्यनुसारं मेलनीयानि।

OR

अधोलिखितश्लोकस्य भावार्थं रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत -
काक: कृष्ण: पिक: कृष्ण: को भेद: पिककाकयो: ।
वसन्तसमये प्राप्ते काक: काक: पिक: पिक: ।।
भावाथ: -
अस्य भावोऽस्ति यत् काकस्य वर्ण: (i) _________ वर्तते (ii) _________ अपि वर्ण: कृष्ण: एव अस्ति । अत: तयो: (iii) _________ मध्ये क: भेद: अस्ति ? अर्थात् वर्णदृष्ट्या तयो: कश्चिद् भेदो न दृश्यते । परन्तु यदा (iv) _________ समय: आगच्छति तदा तयो: स्वरै: ज्ञायते यत् क: काक: अस्ति कश्च पिको वर्तते ।
मञ्जूषा - वसन्तस्य, पिकस्य, पिककाकयो:, कृष्ण: । [4 Marks]

Answer:
(i) कृष्ण:
(ii) पिकस्य
(iii) पिककाकयो:
(iv) वसन्तस्य

Teacher's Note:
a) श्लोकस्य भावार्थे वाच्यार्थं यथावत् गृहीत्वा रिक्तस्थानपूर्तिः करणीया।
b) मञ्जूषायाः पदानि सन्दर्भानुसारं चयनीयानि।

 

17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत - [4 Marks]
(i) एक: सिंह: विश्राम्यते स्म ।
(ii) तत: प्रकृतिमाता प्रविशति ।
(iii) वानरा: तं तुदन्ति स्म ।
(iv) अनुज्ञा पशु: राजा न भवेत् अपितु कोऽपि पक्षी एव राजेति निश्चेतव्यम् ।
(v) सर्वे प्राणिन: सिंहस्य दशां दृष्ट्वा हसन्ति ।
(vi) सर्वेषां प्राणिनामेव यथासमयं महत्त्वं विद्यते ।
(vii) सर्वे प्राणिन: परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति । अन्ते निर्णयं कुर्वन्ति यत् -
(viii) मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम् ।

Answer:
सम्यक् क्रमः इति भवति - (i), (iii), (v), (vii), (iv), (ii), (vi), (viii) ।
अर्थात् - एक: सिंह: विश्राम्यते स्म। वानरा: तं तुदन्ति स्म। सर्वे प्राणिन: सिंहस्य दशां दृष्ट्वा हसन्ति। सर्वे प्राणिन: परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति। अन्ते निर्णयं कुर्वन्ति यत् - अधुना पशु: राजा न भवेत् अपितु कोऽपि पक्षी एव राजेति निश्चेतव्यम्। तत: प्रकृतिमाता प्रविशति। सर्वेषां प्राणिनामेव यथासमयं महत्त्वं विद्यते। मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्।

Teacher's Note:
a) कथायाः कार्यकारणसम्बन्धं ध्यानेन अवगत्य क्रमः निश्चेयः।
b) प्रत्येकं वाक्यस्य मूलक्रमांकं सुरक्षितं राखितव्यम्।

 

18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत - (केवलं प्रश्नत्रयम्) [3 Marks]
(i) अश्वश्छेद् धावने वीर: भारस्य वहने खर: ।
(A) गज:
(B) सिंह:
(C) गर्दभ:
(D) व्याघ्र:
(ii) सर्वेषु अपत्येषु जननी तुल्यवत्सला ।
(A) सन्ततिषु
(B) पुत्रीषु
(C) शिष्येषु
(D) जनेषु
(iii) वायस: वसन्तस्य गुणं न जानाति ।
(A) पिक:
(B) काक:
(C) मयूर:
(D) शुक:
(iv) अनृतं वदसि चेत् काक: दशेत् ।
(A) उच्चै:
(B) शनै:
(C) सत्यम्
(D) असत्यम्

Answer: (i) (C) गर्दभ: ; (ii) (A) सन्ततिषु ; (iii) (B) काक: ; (iv) (D) असत्यम्

Teacher's Note:
a) रेखाङ्कितपदस्य प्रसङ्गानुकूलं पर्यायपदं चयनीयम्।
b) चतुर्षु प्रश्नेषु केवलं त्रयाणां उत्तरं लेखनीयम्।

Please click the link below to download pdf file of CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52

Past Exam Papers & Solutions for Class 10 Sanskrit

Previous Year Question Papers: Class 10 Sanskrit

Explore downloadable past papers for Class 10 Sanskrit. Utilizing the CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 ensures complete preparedness by offering clear insights into historical question styles and marking expectations.

Boost Your Exam Score with Past Papers

Practicing past question sets under timed home conditions helps refine pacing and time management skills, ensuring you complete your Sanskrit examination comfortably within the official duration.

Enhance Practice with Sample Papers & Solutions

Pair your past paper revision with our official Class 10 Sanskrit sample papers and online practice modules to achieve total curriculum mastery.

FAQs

Where can I download the official PDF for CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52?

The CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 is available for download on StudiesToday.com. It includes complete set with all sections so that Class 10 students can practice with the exact same paper that came in the CBSE exams.

Are the solutions for CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 based on the official CBSE marking scheme?

Yes, the solutions for CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 are prepared by subject matter experts as per official marking scheme. Class 10 students will understand the structure of answers and 'step-marks' methodology Sanskrit.

How does solving CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 help in preparing for the 2026 exams?

Solving previous year papers like CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 is important to understand repeat themes and question difficulty levels of Sanskrit. It helps Class 10 students to test their time management skills too.

Can I access CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 in different languages?

Yes, where applicable, CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52 is available in both English and Hindi mediums. All students from Class 10 can access Sanskrit study material in their preferred language.

Is there a charge to download the CBSE Class 10 Sanskrit solved papers?

No, all previous year question papers on StudiesToday, including CBSE Class 10 Sanskrit Question Paper 2025 Solved Code 52, are provided free of charge in mobile-friendly PDF.