NCERT Class 8 Sanskrit Deepakam Parishisht 01 Vyakaranam (व्याकरणम्) PDF Download

Read Parishisht 01 Vyakaranam of NCERT Class 8 Sanskrit

Explore the complete NCERT textbook for Class 8 Sanskrit. Tailored for the 2026-27 curriculum, this resource breaks down complex topics to help students prepare effectively for school examinations.

Parishisht 01 Vyakaranam PDF Resource

Access the complete PDF for Parishisht 01 Vyakaranam below. This focused excerpt allows students to isolate specific topics for thorough review. Cross-reference your textbook exercises with our detailed NCERT Solutions for Class 8 Sanskrit.

परिशिष्टम् १ - व्याकरणम्

उपसर्गाः

धातोः पूर्वम् उपसर्गान् योजयित्वा नूतनक्रियापदानां निर्माणं क्रियते। सामान्यतः द्वाविंशतिः (२२) उपसर्गाः सन्ति। तद्यथा -

प्र, परा, अप, सम्, अनु, अव, निस्, निर्,
दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति,
सु, उत्, अभि, प्रति, परि, उप
- उपसर्गाः।

  • उपसर्गाः धातोः पूर्वं भवन्ति।
  • उपसर्गकारणतः कदाचित् धातोः अर्थः परिवर्तते। यथा - गच्छति - आगच्छति।
  • कदाचित् उपसर्गः धातोः एव अर्थम् उत्कर्षेण पोषयति। (अर्थात् विपरीतम् अर्थं न सूचयति) यथा - शोभते - सुशोभते।
  • धातोः पूर्वं द्वित्राः उपसर्गाः अपि भवितुम् अर्हन्ति।
    प्रति + आ + गच्छति = प्रत्यागच्छति।
  • उपसर्गकारणतः कदाचित् परस्मैपदी धातुः आत्मनेपदिरूपेण, आत्मनेपदी धातुः परस्मैपदिरूपेण च परिवर्तते। वि + जयति = विजयते; वि + रमते = विरमति।

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
प्रहाराहारसंहारविहारपरिहारवत्॥

[चित्र: हृ = हारः से बने शब्द, पाठ्यपुस्तक में देखें]

हृ = हारः - प्रहारः, आहारः, संहारः, विहारः, परिहारः

शिक्षक की टिप्पणी

a) 22 उपसर्ग चार-चार के समूह में याद कीजिए: प्र, परा, अप, सम् / अनु, अव, निस्, निर् ... ।
b) एक ही 'हारः' पर अलग उपसर्ग लगने से प्रहार, आहार, संहार, विहार, परिहार बनते हैं; श्लोक यही बताता है।
c) 'प्रत्यागच्छति' में दो उपसर्ग हैं: प्रति और आ; ऐसे शब्द को तोड़ते समय दोनों लिखिए।

प्रत्ययाः

धातोः प्रातिपदिकात् च अनन्तरं यः वर्ण-समुदायः वर्णः वा प्रयुज्यते सः प्रत्ययः भवति। धातुभ्यः संज्ञापदानि, विशेषणपदानि अव्ययपदानि वा निर्मातुं कृत्-प्रत्ययाः योज्यन्ते। अत्र केषाञ्चन कृत्-प्रत्ययानां परिचयः दीयते -

क्त्वा

यदा एकः एव कर्ता कार्यद्वयं करोति, तदा पूर्व-कार्यवाचके क्रियापदे 'क्त्वा'-प्रत्ययः भवति।

यथा - बालकः पठति। तदनन्तरं बालकः लिखति।
बालकः पठित्वा लिखति।

  • पठ् + क्त्वा = पठित्वा - छात्रः पुस्तकं पठित्वा उत्तराणि लिखति।
  • लिख् + क्त्वा = लिखित्वा - अहं कवितां लिखित्वा गायामि।
  • कृ + क्त्वा = कृत्वा - त्वं कार्यं कृत्वा गृहं गच्छ।

ल्यप्

यदा धातुः उपसर्गेण युक्तः भवति, तदा क्त्वा-प्रत्ययस्य स्थाने 'ल्यप्' भवति।

यथा - शिष्यः गुरुं प्रणमति। तदनन्तरं शिष्यः पठति।
शिष्यः गुरुं प्रणम्य पठति।

  • सम् + पूज् + ल्यप् = सम्पूज्य - भक्तः देवं सम्पूज्य प्रसादं स्वीकरोति।
  • वि + ज्ञा + ल्यप् = विज्ञाय - अहं वार्तां विज्ञाय सूचयामि।
  • आ + नी + ल्यप् = आनीय - माता जलम् आनीय स्थापयति।

तुमुन्

यदा प्रथमा क्रिया द्वितीयायाः क्रियायाः निमित्तं भवति, तदा निमित्तार्थक-क्रियापदे 'तुमुन्'-प्रत्ययः भवति।

यथा - रमेशः पठितुं विद्यालयं गच्छति।

  • खाद् + तुमुन् = खादितुम् - बालः भोजनं खादितुम् आगच्छति।
  • स्ना + तुमुन् = स्नातुम् - अहं स्नातुं तरणतालं गच्छामि।
  • गम् + तुमुन् = गन्तुम् - सः गृहं गन्तुम् उद्यतः।

शिक्षक की टिप्पणी

a) पहचान का आसान नियम: धातु से पहले उपसर्ग नहीं है तो 'क्त्वा', उपसर्ग है तो 'ल्यप्'।
b) 'क्त्वा' का अर्थ 'करके' (पढ़कर), और 'तुमुन्' का अर्थ 'के लिए' (पढ़ने के लिए) होता है।
c) 'तुमुन्' वाले शब्द के अंत में '-तुम्' आता है; जैसे गम् + तुमुन् = गन्तुम्, इसे 'गमितुम्' न लिखिए।

Download NCERT E-Textbook: Class 8 Sanskrit Parishisht 01 Vyakaranam

Chapter Textbook PDF for Class 8 Sanskrit

Download the certified NCERT Textbook for Class 8 Sanskrit Parishisht 01 Vyakaranam. Educational authorities and instructors recommend this e-textbook as the foundational reference for all terminal tests and school assessments.

Digital E-Book Collection for Class 8 Sanskrit

Explore our exhaustive library of NCERT books in English Medium spanning all subjects in Class 8. Every chapter features comprehensive explanations followed by extensive end-of-chapter exercises.

Complete Your Chapter Preparation

The Class 8 Sanskrit Parishisht 01 Vyakaranam text is carefully engineered to build rock-solid foundational concepts. For an enriched academic journey, learners should pair this with our online NCERT Solutions and revision notes.

FAQs

Where can I download the latest NCERT Class 8 Sanskrit Deepakam Parishisht 01 Vyakaranam (व्याकरणम्) PDF Download in PDF for 2026-27?

You can download the latest, teacher-verified PDF for NCERT Class 8 Sanskrit Deepakam Parishisht 01 Vyakaranam (व्याकरणम्) PDF Download for free on StudiesToday.com. These digital editions are updated as per 2026-27 session and are optimized for mobile reading.

Does this Sanskrit book follow the latest NCERT rationalized syllabus?

Yes, our collection of Class 8 Sanskrit NCERT books follow the 2026 rationalization guidelines. All deleted chapters have been removed and has latest content for you to study.

Why is it better to download NCERT Class 8 Sanskrit Deepakam Parishisht 01 Vyakaranam (व्याकरणम्) PDF Download chapter-wise?

Downloading chapter-wise PDFs for Class 8 Sanskrit allows for faster access, saves storage space, and makes it easier to focus in 2026 on specific topics during revision.

Are these NCERT books for Class 8 Sanskrit sufficient for scoring 100%?

NCERT books are the main source for NCERT exams. By reading NCERT Class 8 Sanskrit Deepakam Parishisht 01 Vyakaranam (व्याकरणम्) PDF Download line-by-line and practicing its questions, students build strong understanding to get full marks in Sanskrit.