TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा

Official TS Board Solutions for Class 12 Sanskrit: Chapter 06 Bharatabhusha Virayosha

Review structured textbook solutions for Class 12 Sanskrit Chapter 06 Bharatabhusha Virayosha. Built according to TS Board guidelines for the 2026-27 academic year, these downloadable answers support daily revision and problem-solving accuracy.

Chapter-wise Solutions for Sanskrit: Chapter 06 Bharatabhusha Virayosha

Access the complete solution PDF for Class 12 Sanskrit below. Regular practice with these targeted textbook answers builds familiarity with standard question patterns and helps secure higher marks in final school evaluations.

लघुसमाधानप्रश्नाः (Short Answer Questions)

Question 1: एकाकिन्यपि चिन्ता कथं खेलति स्म ?

Answer:

एकाकिन्यपि निश्चिन्ता चिन्ता मृदा दुर्गं निर्माय पुनः तद्भङ्गलीलां खेलति स्म ।

Exam Tips:

a) ‘एकाकिनी अपि’ – सन्धिं विच्छिद्य अर्थं जानीत; उत्तरे ‘मृदा दुर्गं निर्माय’ इति पदम् अवश्यं लिखत ।
b) प्रश्ने ‘कथम्’ इति अस्ति, अतः क्रीडायाः प्रकारं (दुर्गनिर्माणं, तद्भङ्गः) लिखत ।

 

Question 2: रत्नसिंहः कथं कर्माणि कुर्वन् आसीत् ?

Answer:

रत्नसिंहः कर्तव्यबुद्ध्या एव कर्माणि कुर्वन् आसीत् ।

Exam Tips:

a) ‘कर्तव्यबुद्ध्या’ इति तृतीयान्तं पदम् उत्तरस्य मुख्यांशः ।
b) रत्नसिंहस्य गुणौ – शान्तस्वभावः, अविकत्थनः – अपि योजयितुं शक्यते ।

 

Question 3: रत्नसिंहः किमर्थं चितां प्राविशत् ?

Answer:

रत्नसिंहः आत्मनः अपराधस्य प्रायश्चित्तं कर्तुं चितां प्राविशत् ।

Exam Tips:

a) कारणवाचकं ‘प्रायश्चित्तं कर्तुम्’ (तुमुन्) इति स्पष्टं लिखत ।
b) रत्नसिंहस्य अपराधः – युद्धात् पलायनम् – इति एकेन वाक्येन योजयत ।

 

एकपदसमाधानप्रश्नाः (One Word Questions)

Question 1: चिन्तादेवी केन पालिता आसीत् ?

Answer:

चिन्तादेवी पित्रा पालिता आसीत् ।

Exam Tips:

a) कर्मणि प्रयोगे कर्ता तृतीयायाम् – ‘पित्रा’ इति शुद्धरूपं लिखत ।

 

Question 2: राजपुत्रयूनः नाम किम् ?

Answer:

राजपुत्रयूनः नाम रत्नसिंहः ।

Exam Tips:

a) ‘रत्नसिंहः’ इति नाम शुद्धं लिखत; राजपुत्रयुवा = क्षत्रियः युवकः ।

 

Question 3: चिन्तादेवी किं कर्तुं सज्जीबभूव ?

Answer:

चिन्तादेवी परलोकयात्रां कर्तुं सज्जीबभूव ।

Exam Tips:

a) ‘परलोकयात्रां कर्तुम्’ इति प्रश्नस्थक्रियापदेन सह (सज्जीबभूव) पूर्णवाक्यं लिखत ।

 

कठिनशब्दार्थाः

1. आहवः = युद्धम्
2. अविकत्थनः = अहङ्काररहितः
3. चमूः = सैन्यम्
4. वाजी = अश्वः
5. अनलः = अग्निः

व्याकरणांशाः (Grammar)

सन्धयः

1. अनुग्रहः + चेत् = अनुग्रहश्चेत् – विसर्गसन्धिः (श्चुत्वम्)
2. पुनः + समराङ्गणम् = पुनस्समराङ्गणम् – विसर्गसन्धिः (सत्वम्)
3. वीराः + ते = वीरास्ते – विसर्गसन्धिः
4. पुरः + सरेयुः = पुरस्सरेयुः – विसर्गसन्धिः
5. अविकत्थनः + च = अविकत्थनश्च – विसर्गसन्धिः (श्चुत्वम्)
6. निक्षिपन् + अपि = निक्षिपन्नपि – ङमुडागमसन्धिः
7. पश्चात् + गन्तुम् = पश्चाद्गन्तुम् – जश्त्वसन्धिः
8. अन्ततः + च = अन्ततश्च – विसर्गसन्धिः (श्चुत्वम्)

समासाः

1. कालिन्दी इति नदी – कालिन्दीनदी; कालिन्दीनद्याः तटः – कालिन्दीनदीतटः, तस्मिन् – षष्ठीतत्पुरुषः
2. समुपचितश्चासौ समरश्च – समुपचितसमरः; समुपचितसमरस्य समयः – समुपचितसमरसमयः, तस्मिन् समुपचितसमरसमये – षष्ठीतत्पुरुषः
3. लब्धं जनुः यया सा – लब्धजनुः – बहुव्रीहिः
4. मात्रा विहीना – मातृविहीना – तृतीयातत्पुरुषः
5. निर्गता चिन्ता यस्याः सा – निश्चिन्ता – बहुव्रीहिः
6. तस्य भङ्गः – तद्भङ्गः; तद्भङ्गस्य लीला – तद्भङ्गलीला, तां तद्भङ्गलीलाम् – षष्ठीतत्पुरुषः
7. आत्मनः बलिदानम् – आत्मबलिदानम्; आत्मबलिदानस्य कथाः – आत्मबलिदानकथाः, ताभिः आत्मबलिदानकथाभिः – षष्ठीतत्पुरुषः
8. सह चरन्ति इति सहचराः – उपपदतत्पुरुषः
9. अश्रुभिः सहितानि – साश्रूणि; साश्रूणि नयनानि येषां ते – साश्रुनयनाः – बहुव्रीहिः
10. स्मितं मुखे यस्याः सा – स्मितमुखी – बहुव्रीहिः
11. सन्तोषं बिभर्ति इति सन्तोषभरः, तस्य – सन्तोषभरस्य – उपपदतत्पुरुषः
12. न विद्यते नाथः यस्याः सा – अनाथा, तस्याः – अनाथायाः – बहुव्रीहिः
13. गम्भीरश्चासौ स्वरश्च – गम्भीरस्वरः, तेन गम्भीरस्वरेण – विशेषणपूर्वपदकर्मधारयः
14. वीरश्चासौ पिता च – वीरपिता, तस्य वीरपितुः – विशेषणपूर्वपदकर्मधारयः
15. शान्तः स्वभावः यस्य सः – शान्तस्वभावः – बहुव्रीहिः

कविपरिचयः

अस्याः कथायाः रचयिता महामहोपाध्यायः राष्ट्रपतिपुरस्कारभाक् ‘गलगली रामाचार्यः’ कर्णाटकराज्यस्थः सकलशास्त्रपारङ्गतः मधुरवाणीति संस्कृतमासपत्रिकायाः संस्थापकः प्रधानसम्पादकः साहित्यरत्नबिरुदाङ्कितश्च आसीत् । अयं कविपण्डितः क्रि.श. 1893 तमे वर्षे कर्णाटकस्थबीजापुरजनपदस्य कृष्णानदीकूलस्थे गलगलीग्रामे लब्धजनिः । बहूनां ग्रन्थानां सम्पादकः संशोधकश्च श्रीमान् गलगली रामाचार्यः । प्रस्तुतपाठ्यांशः ‘भारतभूषा वीरयोषा’ “मधुराञ्जलिः” इति नामकात् पण्डितगलगलीरामाचार्याणां रचनासङ्कलनात् सङ्गृहीतः ।

सारांशः

मातृविहीना चिन्तादेवी शूरेण पित्रा पालिता । त्रयोदशे वयसि वीरस्वर्गं गते पितरि सेनायाः नायकत्वं स्वीचकार । सा सर्वतः प्रभुत्वम् आविश्चकार । सैनिकेषु अन्यतमं शूराग्रेसरं रत्नसिंहं परिणीतवती चिन्तादेवी । अकस्मात् दुर्गम् आक्रान्तुम् आगतां शत्रुसेनाम् अभिमुखीकर्तुं स्वसेनया गतः रत्नसिंहः मनसा गृहाभिमुख एवासीत् । सेनां विहाय सः कुत्रापि निलीनः । नायकविहीना सेना शत्रुभिः पराजिता । सेनायाः पराजयस्य वार्तां ज्ञात्वा चितां प्रज्वाल्य चिन्तादेवी परलोकयात्रायै सज्जीबभूव । समये आगतेन रत्नसिंहेन निवारितापि सा युद्धक्षेत्रात् पलायितं पतिं धिक्कृत्य चितायां स्वशरीरम् आहुतीकृतवती । पश्चात्तापदग्धः रत्नसिंहः तामेव चितां प्रविश्य प्रायश्चित्तं चकार ।

Introduction

The lesson Bharatabhusha Virayosha is taken from Madhuranjali written by Sri Galagali Ramacharya. Sri Ramacharya was born in Galagali in Bijapur district, Karnataka in 1893. He was the founder editor of Madhuravani, a Sanskrit monthly magazine. He received President’s medal and was awarded the title Sahityaratna.

अनुवादः (Translations)

कालिन्दीनदीतटे काल्पीनाम्नी काचन नगरी आसीत् । तस्यां कस्यचन शूरस्य कन्या चिन्तादेवी या समुपचितसमरसमये लब्धजनुः । बाल्ये एव मातृविहीना सा पितैव पालिता आसीत् । चिन्ताया बाल्यम् अतीयाय समरभूमौ एव । पिता किल तां वने कुटीरे त्यक्त्वा रणाङ्गणम् उपधावति स्म । एकाकिन्यपि निश्चिन्ता चिन्ता मृदा दुर्गं निर्माय पुनः तद्भङ्गलीलां खेलति स्म । सा वीराणामात्मबलिदानकथाभिः सावेशभटमुखनिस्सृताभिः आत्मानं व्यनोदयत् ।

एकदा दिनत्रयं यावत् सा जनकस्य वार्तामपि नाशृणोत् । तृतीये दिने पितुः सहचराः केचन अभ्येत्य साश्रुनयनाः व्यलपन् । तदा त्रयोदशवर्षीया सा धीरा बालिका स्मितमुखी जगाद ‘पितरि मे वीरस्वर्गं गते सन्तोष्टव्ये अस्मिन् प्रसङ्गे कुतो वा शोकावेगः । नायं विलापस्य समयः किन्तु सन्तोषभरस्य इति ।

There was a city named Kalpi on the banks of river Yamuna. Chinta Devi, a warrior’s daughter, was born there during the times of war. She lost her mother in childhood, she was brought up by her father. Chinta spent her childhood in battlefields only. Her father used to leave her in a cottage in a wood and go to battle. She would play making mud forts and destroying them. She listened to the adventurous stories of the soldiers.

Once there was no news of her father for three days. On the third day she received the news of the death of her father from his associates, who were sad. But Chinta smiled and said that it was an occasion for rejoicing and not mourning, as her father achieved the heaven of the warriors.

कश्चन सैनिको व्याजहार ‘वयं न शोचामः ते पितुः कृते, परम् अनाथायाः ते स्थितिं परिचिन्त्य । कुत्र वा स्थास्यते भवत्या इतःपरम्’ इति । चिन्ता गम्भीरस्वरेण आह – ‘अहं वीरपितुः कन्या अस्मि । तमेव अनुचिकीर्षामि तादृशैः एव कर्मभिः । यदि मम जनके वास्तवो वः अभिमानः तर्हि सङ्गृह्यन्तां सैनिकाः । भगवतः अनुग्रहश्चेत् भवत्साहाय्येन आहवे विजयेन सङ्गता स्याम् । साम्प्रतं गम्यतां पुनस्समराङ्गणम् ।’ व्यतीयुः पञ्च वसन्ताः । सर्वतः प्रभुत्वम् आविश्चकार चिन्तादेवी । विजयश्रियम् इव मूर्तिमतीं समरे निश्शङ्कं निर्भयं च अवस्थितां तां निरीक्ष्यैव सैनिका नितराम् उत्साहशालिनः समपद्यन्त । पुरो गच्छन्त्यां तस्यां वीरास्ते पुरुषाः कथं न पुरस्सरेयुः ।

When she was reminded of her lonely state, she said that she was the daughter of a warrior. She would follow the path of her father alone. She asked them to gather soldiers. They could win if there was the grace of god.

Five years passed. Chinta Devi established her authority everywhere. Soldiers were inspired by her presence in the battlefield. They followed her.

तेषु सैनिकेषु रत्नसिंहो नाम राजपुत्रयुवा आसीत् यस्मिन् विशेषतो स्निह्यति स्म चिन्ता । शान्तस्वभावः अविकत्थनश्च रत्नसिंहः कर्तव्यबुद्ध्यैव कर्माणि कुर्वन् आसीत् । तस्य पराक्रमेण सन्तुष्टा चिन्ता तं परिणीतवती । प्रायो विधिः न सहते प्रणयिनोः चिरं विलाससुखम् । अकस्मात् दुर्गम् उपासन्ना रिपुवरूथिनी इति वार्तां श्रुत्वा रत्नसिंहः स्वीचकार करे अरिभीकरं करवालम् । हयमारुढं रत्नसिंहं विलोक्य चिन्ता मनसा प्रार्थयामास विजयाय भगवतीं कुलदेवताम् ।

सहचरैः सैनिकैः सह रणाभिमुखं पदं निक्षिपन्नपि मनसा गृहाभिमुख एवासीत् रत्नसिंहः । अतः समासन्ने समरप्रदेशे अनुयायिवर्गं सहसा विहाय तेन अज्ञातः क्वापि निलिल्ये रत्नसिंहः । ततश्च नायकविहीनां शिथिलितोत्साहां च चिन्तादेव्याः चमूं सकलाम् अपि भृशम् अवासादयद् विपुलं रिपुबलम् ।

सन्ध्यासमये कश्चन सैनिकः अभ्येत्य निश्शस्त्रः तूष्णीम् अतिष्ठत् चिन्तायाः पुरतः । तस्य मुखात्सर्वसैन्यस्य क्षयं शत्रूणां दुर्गाक्रमणं च श्रुत्वा निष्कम्पेन स्वरेण आदिदेश चिन्ता – ‘सत्वरं सज्जीक्रियतां चिता’ ।

There was a young Rajput warrior named Ratnasimha among the soldiers, whom Chinta especially liked. He was calm, modest, composed and devoted to his work. Chinta married him. However, fate would not allow happy times to lovers. Suddenly their fort was attacked by the enemy. Ratnasimha took his sword and Chinta prayed for his victory.

Though Ratnasimha went to the battlefield, his mind was at home only. He left his followers and hid somewhere. The enemy easily defeated the army of Chinta that was without leader.

A soldier reported the matter to Chinta that evening. Chinta firmly ordered them to prepare the funeral pyre.

सायं दीपप्रज्वालनसमये चितापि प्रज्वालिता । साध्वी चिन्तादेवी सर्वालङ्कारमण्डिता परलोकयात्रां कर्तुं सज्जीबभूव । चितां परितो दिदृक्षूणां जनानां महान् समूहः समागतः । दुर्गं पर्यवृण्वन् शत्रवः । तदा अश्रूयत वाजिनः खुरपुटध्वनिः । कोऽपि सैनिकवेषधारी युवा प्राविशत् तत्प्राङ्गणम् । जनाः साश्चर्यम् अपश्यन् । सोऽयं रत्नसिंहः ।

रत्नसिंहः चितासमीपम् आगत्य कम्पमानशरीरो अवदत् – ‘प्रिये ! अद्यापि प्राणिमि रत्नसिंहोऽहम् । किमिदम् असाम्प्रतम् आरब्धं त्वया ?’ परं चिन्तादेवी न ददर्श चक्षुरुन्मील्य तम् । केवलं दक्षिणपाणिसंज्ञया पश्चाद्गन्तुम् असूचयत् तं रत्नसिंहम् ।

तस्याः मुखकमलम् अनलेन कवलितम् । तदानीमपि चिन्ता स्पष्टस्वरेण आह – ‘सर्वं जानामि । भवान् न मे रत्नसिंहः । मदीयो रत्नसिंहः सत्यं शूराग्रेसर आसीत् । एतस्य तुच्छदेहस्य रक्षणाय आत्मनः पवित्रक्षत्रियधर्मात् न कदापि प्रच्युतो भवति । यस्याहं चरणदासी स रत्नसिंहो विभ्राजते देवलोके । मा दूषय रत्नसिंहस्य पावनं नामधेयम् । स वीरो राजपुत्रः’ ।

चरमशब्दे समुच्चार्यमाण एव अग्निज्वालाः समाच्छादयन् चिन्तायाः शिरः । रत्नसिंहो विभ्रान्त इव ददर्श तं भीकरं दृश्यम् । अन्ततश्चैकं निश्वासं निस्सार्य आत्मनः अपराधस्य प्रायश्चित्तं विधातुं प्राविशत्सहसा चिताम् । अहो प्राचीनानाम् आर्यललनानाम् ओजस्विता ।

The pyre was lit at the time of lighting the evening lamps. Chinta Devi adorned herself with ornaments in preparation for her final journey. Onlookers gathered around the pyre. Then they heard the sound of hooves. A person entered that place in the attire of a soldier. Lo, he was Ratnasimha.

He came to the pyre and said that he was alive. But Chinta did not look at him. She waved her right hand to indicate to him to step aside.

Her face was singed with heat. She said clearly that she knew everything. He was not her Ratnasimha. Her husband was a true warrior. He would never step away from his royal duty for the sake of his worthless body. He was in heaven now. His name should not be sullied.

As she ended her speech, the fire engulfed her head. Ratnasimha saw that in awe. Later sighing deeply, he also entered the fire as if to atone his sin. Oh, the greatness of the women of ancient times!

Free study material for Sanskrit

Sanskrit Class 12 Curriculum Solutions: Chapter 06 Bharatabhusha Virayosha

Official TS Board Solutions for Chapter 06 Bharatabhusha Virayosha

Explore reliable textbook solutions for Chapter 06 Bharatabhusha Virayosha tailored for Class 12 learners. Utilizing these complete exercise answers ensures your preparation aligns exactly with official TS Board standards for Sanskrit.

Step-by-Step Explanations for Chapter 06 Bharatabhusha Virayosha

Clear, methodical explanations accompany every challenging problem within the Class 12 Sanskrit text. Engaging with these detailed answers lays a solid foundation for advanced learning and improves foundational clarity for upcoming assessments.

Next Steps in Your Sanskrit Revision

Frequent review of these structured answers builds strong analytical capabilities and response efficiency. Maximize your academic readiness by combining these textbook solutions with our curated study materials and mock evaluations for Class 12 Sanskrit.

FAQs

Where can I find the latest TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा for the 2026-27 session?

The complete and updated TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा is available for free on StudiesToday.com. These solutions for Class 12 Sanskrit are as per latest TS Board curriculum.

Are the Sanskrit TS Board solutions for Class 12 updated for the new 50% competency-based exam pattern?

Yes, our experts have revised the TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.

How do these Class 12 TS Board solutions help in scoring 90% plus marks?

Toppers recommend using TS Board language because TS Board marking schemes are strictly based on textbook definitions. Our TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा will help students to get full marks in the theory paper.

Do you offer TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा in multiple languages like Hindi and English?

Yes, we provide bilingual support for Class 12 Sanskrit. You can access TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा in both English and Hindi medium.

Is it possible to download the Sanskrit TS Board solutions for Class 12 as a PDF?

Yes, you can download the entire TS Inter 2nd Year Sanskrit Study Material Chapter 6 भारतभूषा वीरयोषा in printable PDF format for offline study on any device.