TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः

Step-by-Step Textbook Solutions for Class 12 Sanskrit Chapter 03 Suhridbheda

Access comprehensive textbook solutions for Chapter 03 Suhridbheda using the official curriculum guides for Class 12 Sanskrit. Designed to align with the 2026-27 TS Board standards, these detailed answers help students reinforce core academic concepts.

Download Chapter 03 Suhridbheda Textbook Solutions PDF

View or download the dedicated Chapter 03 Suhridbheda solution resource below. Engaging with these textbook answers under focused study conditions ensures continuous academic progress and mastery of the 2026-27 curriculum for Sanskrit.

सन्दर्भवाक्यानि (Annotations)

Question 1: सम्प्रति वनमिदमपूर्वसत्त्वाधिष्ठितम् ।

Answer:

परिचयः: इदं वाक्यं नारायणपंडितेन विरचितं “सुहृद्भेदः” इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः: पिङ्गलकः नाम सिंहः दमनकं प्रति एवं अवदत् ।
भावः: इदं वनम् इदानीं केनचित् अपूर्वेण प्राणिना अधिष्ठितम् इति पिङ्गलकः अवदत् ।
विवरणम्: अस्मिन् वने कोऽपि अपूर्वः महाबलः प्राणी वर्तते । सः भीकरं शब्दम् अकरोत् इति सिंहः भीतः ।

Exam Tips:

a) सन्दर्भवाक्ये चतुरः अंशान् लिखत – परिचयः, सन्दर्भः, भावः, विवरणम् ।
b) वक्ता पिङ्गलकः, श्रोता दमनकः इति स्पष्टं लिखत ।

 

Question 2: महानेवासौ देवं द्रष्टुमिच्छति ।

Answer:

परिचयः: इदं वाक्यं नारायणपंडितेन विरचितं “सुहृद्भेदः” इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः: दमनकः पिंगलकं प्रति एवं अवदत् ।
भावः: हे राजन् ! महाकायः असौ त्वां द्रष्टुं इच्छति ।
विवरणम्: महाराज ! महाकायः वृषभः सञ्जीवकः भवन्तं द्रष्टुम् इच्छति । किन्तु सः महाबलः, अतः सज्जीभूय तं पश्यतु इति दमनकः सूचयति ।

Exam Tips:

a) अत्र वक्ता दमनकः, श्रोता पिङ्गलकः; ‘महान्’ इति सञ्जीवकं निर्दिशति इति लिखत ।
b) ‘द्रष्टुम्’ (तुमुन्) इति शुद्धरूपं लिखत, ‘दृष्टुम्’ न ।

 

Question 3: कथमसौ मां जिघांसुर्ज्ञातव्यः ?

Answer:

परिचयः: इदं वाक्यं नारायणपंडितेन विरचितं “सुहृद्भेदः” इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः: संजीवकः दमनकं प्रति एवं अवदत् ।
भावः: सः राजा मां हन्तुम् उद्यतः इति कथं ज्ञातव्यम् ?
विवरणम्: दमनकस्य वचनं श्रुत्वा सञ्जीवकः विस्मितः अभवत् – राज्ञः किं मया अपकृतम् ? राजा मां संहर्तुम् उद्यतः इति कथं ज्ञातव्यम् इति सः दमनकम् अपृच्छत् ।

Exam Tips:

a) वक्ता सञ्जीवकः, श्रोता दमनकः; ‘जिघांसुः’ = हन्तुम् इच्छुः इति अर्थं लिखत ।
b) कथायाः सन्दर्भं – दमनकेन कृतः मित्रभेदः – संक्षेपेण योजयत ।

 

लघुसमाधानप्रश्नाः (Short Answer Questions)

Question 1: कः पानीयं पातुं यमुनाकच्छं अगच्छत् ?

Answer:

पिङ्गलको नाम सिंहः पानीयं पातुं यमुनाकच्छम् अगच्छत् ।

Exam Tips:

a) सिंहस्य नाम ‘पिङ्गलकः’ इति शुद्धं लिखत ।
b) प्रश्नस्थपदानि (पानीयं पातुं, यमुनाकच्छम्) उत्तरे पुनः प्रयोक्तव्यानि ।

 

Question 2: कौ भयप्रतीकारं प्रतिज्ञाय चलितौ ?

Answer:

करटकदमनकौ भयप्रतीकारं प्रतिज्ञाय चलितौ ।

Exam Tips:

a) द्विवचनं ‘करटकदमनकौ’ इति शुद्धं लिखत ।

 

Question 3: युद्धे कः केन व्यापादितः ?

Answer:

युद्धे संजीवकः सिंहेन व्यापादितः ।

Exam Tips:

a) कर्मणि प्रयोगः अस्ति – कर्म (सञ्जीवकः) प्रथमायां, कर्ता (सिंहेन) तृतीयायां लिखत ।

 

एकपदसमाधानप्रश्नाः (One Word Questions)

Question 1: पिङ्गलकसिंहस्य मन्त्रिणौ कौ ?

Answer:

पिङ्गलकसिंहस्य मन्त्रिणौ करटकदमनकौ ।

Exam Tips:

a) मन्त्रिणौ द्वौ शृगालौ – करटकः दमनकः च इति लिखत ।

 

Question 2: स्तब्धकर्णः कः ?

Answer:

स्तब्धकर्णः पिङ्गलकस्य अग्रजः ।

Exam Tips:

a) स्तब्धकर्णः पिङ्गलकस्य भ्राता इति सम्बन्धं स्पष्टं लिखत ।

 

Question 3: संजीवकः कस्मिन् नियुक्तः ?

Answer:

संजीवकः अर्थाधिकारे (कोशाधिकारे) नियुक्तः ।

Exam Tips:

a) ‘अर्थाधिकारे’ (कोशाधिकारे) इति शुद्धं लिखत; ‘अर्धाधिकारे’ इति दोषः ।

 

कठिनशब्दार्थाः

1. वणिक् = व्यापारी
2. भग्नजानुः = यस्य प्राणिनः जानु (ऊरुपर्व) भग्नं सः
3. पुरुषसमवायः = पुरुषसमूहः
4. नर्दितम् = वृषभरावः
5. यमुनाकच्छम् = यमुनातीरम्
6. उदकार्थी = जलार्थी
7. सत्त्वम् = प्राणी
8. बलीवर्दः = वृषभः
9. अपूर्वसत्त्वाधिष्ठितम् = अपूर्वप्राणियुक्तम्
10. स्वामित्रासः = स्वामिनः भयम्
11. साटोपम् = साभिमानम्
12. आत्ययिकम् = अमङ्गलकारि
13. लाङ्गूलम् = पुच्छम्
14. विषण्णः = खिन्नः

व्याकरणांशाः (Grammar)

सन्धयः

1. भग्नजानुः + निपतितः = भग्नजानुर्निपतितः – विसर्गसन्धिः
2. वर्धमानः + नाम = वर्धमानो नाम – विसर्गसन्धिः
3. कुतः + अपि = कुतोऽपि – विसर्गसन्धिः (उत्वम्, पूर्वरूपम्)
4. वृषभः + च = वृषभश्च – विसर्गसन्धिः (श्चुत्वम्)
5. स्वामित्रासः + तत्र = स्वामित्रासस्तत्र – विसर्गसन्धिः
6. करटकः + तरुतले = करटकस्तरुतले – विसर्गसन्धिः
7. ततः + तौ = ततस्तौ – विसर्गसन्धिः
8. शिवाः + ते = शिवास्ते – विसर्गसन्धिः
9. पुनः + एव = पुनरेव – विसर्गसन्धिः
10. एतत् + च = एतच्च – श्चुत्वसन्धिः
11. संवर्धितः + च = संवर्धितश्च – विसर्गसन्धिः (श्चुत्वम्)
12. शृङ्गाग्रप्रहरणाभिमुखः + चकितम् = शृङ्गाग्रप्रहरणाभिमुखश्चकितम् – विसर्गसन्धिः (श्चुत्वम्)
13. मृत्युः + एव = मृत्युरेव – विसर्गसन्धिः
14. एतत् + चिन्तयित्वा = एतच्चिन्तयित्वा – श्चुत्वसन्धिः
15. जिघांसुः + ज्ञातव्यः = जिघांसुर्ज्ञातव्यः – विसर्गसन्धिः

समासाः

1. भग्नं जानु यस्य सः – भग्नजानुः – बहुव्रीहिः
2. नानाविधद्रव्यैः पूर्णम् – नानाविधद्रव्यपूर्णम् – तृतीयातत्पुरुषः
3. स्वेच्छया आहारविहारः – स्वेच्छाहारविहारः – तृतीयातत्पुरुषः
4. हृष्टानि पुष्टानि च अङ्गानि यस्य सः – हृष्टपुष्टाङ्गः – बहुव्रीहिः
5. पिपासया आकुलितः – पिपासाकुलितः – तृतीयातत्पुरुषः
6. न अनुभूतपूर्वम् – अननुभूतपूर्वम् – नञ्तत्पुरुषः
7. अभिलषितम् अनतिक्रम्य – यथाभिलषितम् – अव्ययीभावः
8. अष्टभिः अङ्गैः सह प्रणिपातम् – साष्टाङ्गप्रणिपातम् – अव्ययीभावः
9. उदकम् अर्थयते इति उदकार्थी – उपपदतत्पुरुषः
10. न पूर्वम् – अपूर्वम्; अपूर्वं च तत् सत्त्वं च – अपूर्वसत्त्वम्; अपूर्वसत्त्वेन अधिष्ठितम् – अपूर्वसत्त्वाधिष्ठितम् – तृतीयातत्पुरुषः
11. करटकः आदिः येषां ते – करटकादयः – बहुव्रीहिः
12. आपदः प्रतीकारः – आपत्प्रतीकारः; आपत्प्रतीकारस्य कालः – आपत्प्रतीकारकालः, तस्मिन् आपत्प्रतीकारकाले – षष्ठीतत्पुरुषः
13. देशस्य व्यवहारः – देशव्यवहारः; न अभिज्ञः – अनभिज्ञः; देशव्यवहारे अनभिज्ञः – देशव्यवहारानभिज्ञः – सप्तमीतत्पुरुषः
14. दमनकश्च करटकश्च – दमनककरटकौ – द्वन्द्वसमासः
15. महांश्चासौ प्रसादश्च – महाप्रसादः; तस्य लाभः – महाप्रसादलाभः – षष्ठीतत्पुरुषः
16. महत् बलं यस्य सः – महाबलः – बहुव्रीहिः

कविपरिचयः

हितोपदेशः नारायणपण्डितेन रचितः । अयं वङ्गदेशस्य पालयितुः धवलचन्द्रमहाराजस्य आस्थानपण्डितः आसीदिति साहित्येतिहासकाराणाम् अभिप्रायः । माघात् कामन्दकीयनीतिसाराच्च श्लोकाः कथाश्च काश्चन हितोपदेशे नारायणेन उद्धृताः दृश्यन्ते इति, १३७३ तमे वर्षे नेपालदेशप्रान्ते हितोपदेशस्य हस्तलिखितं पुस्तकं लब्धम् इत्यतश्च नारायणपण्डितस्य समयः क्रिस्तोः परं दशमशतकात् परम्, चतुर्दशशतकात् पूर्वं च स्यादिति इतिहासग्रन्थेषूक्तमस्ति । ‘‘पञ्चतन्त्रात् तथान्यस्मात् ग्रन्थादाकृष्य लिख्यते” इति नारायणेन स्वयम् आरम्भे उक्तत्वात् पञ्चतन्त्रात् अपि चान्येभ्यः ग्रन्थेभ्यः कथाः सङ्गृह्य तेनेदं रचितम् इति स्पष्टं वक्तुं शक्यते । हितोपदेशे “मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिः” इति चत्वारः भागाः सन्ति । लोकस्य कृते महान्तम् उपदेशं बोधयितुमेव हितोपदेशः रचितः । पञ्चतन्त्रादपि अत्राधिकाः कथाः दृश्यन्ते ।

सारांशः

सुहृद्भेदः इति पाठ्यभागोऽयं करटकदमनकयोः कथा इत्याख्येन प्रसिद्धः लोके । कदाचित् वर्धमानो नाम वणिक् नानाविधद्रव्यैः पूर्णं शकटं चालयन् ग्रामान्तरं गच्छति । किन्तु सञ्जीवकनामा वृषभः भग्नजानुः अरण्ये निपतति । तं वृषभं तत्र त्यक्त्वा वर्धमानः अग्रे सरति । सञ्जीवकः स्वेच्छाहारविहारादिना हृष्टपुष्टाङ्गो भूत्वा उच्चैः नदति । तच्छ्रुत्वा पिङ्गलकनामा सिंहः भीतिमाप्नोति । तदा करटकदमनकौ पिङ्गलकं प्रति गत्वा न भेतव्यमनेन शब्देन इति तस्मिन् विश्वासं परिकल्प्य तस्य आरक्षकौ भवतः । अपि च तौ सञ्जीवकं तत्र आनीय पिङ्गलकेन सह तस्य मैत्रीं कारयतः ।

अत्रान्तरे स्तब्धकर्णः नाम पिङ्गलकस्य भ्राता तत्रागत्य “करटकदमनकौ न कदापि विश्वसनीयौ, तौ बहिः सम्प्रेष्य सस्यभक्षकं सञ्जीवकमेव अर्थाधिकारपदे नियोजयतु” इति वदति । पिङ्गलकः भ्रातुः वचनमनुसृत्य सञ्जीवकं तत्पदे नियोजयति । तेन क्रुद्धौ करटकदमनकौ उपायेन तयोः मध्ये वैरं परिकल्पयतः । तदा युद्धे पिङ्गलकः सञ्जीवकं हन्ति । दमनकः च सन्तुष्टः सुखेन तिष्ठति ।

Introduction

Hitopadesa was written by Narayana Pandita. The lesson Suhridbheda is an extract from it. Narayana is believed to have been the court poet of King Dhavalachandra, who ruled Bengal. His date is placed after the 10th century and before the 14th century AD, since a manuscript of the Hitopadesa dated 1373 AD was found in Nepal. Hitopadesa is divided into four parts, namely Mitralabha, Suhridbheda, Vigraha and Sandhi.

Suhridbheda tells the story of the jackals Karataka and Damanaka who create a rift between the lion Pingalaka and the bull Sanjeevaka, which results in the killing of Sanjeevaka by Pingalaka.

अनुवादः (Translations)

कदाचित् वर्धमानो नाम वणिक् शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः । अथ कस्मिंश्चिन्महारण्ये सञ्जीवकनामा तस्य वृषभः भग्नजानुर्निपतितः । तं तत्र परित्यज्य अन्यं गृहीत्वा वर्धमानः चलितः । ततो दिनेषु गच्छत्सु सञ्जीवकः स्वेच्छाहारविहारं कृत्वा हृष्टपुष्टाङ्गो बलवन्ननाद । तस्मिन्वने पिङ्गलकनामा सिंहः पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगच्छत् । तेन च तत्र सिंहेन अननुभूतपूर्वं सञ्जीवकनर्दितमश्रावि । तच्छ्रुत्वा पानीयमपीत्वा सचकितः परिवृत्य स्वस्थानमागत्य स्थितः ।

तं तथाविधं दृष्ट्वा तस्य मन्त्री दमनकनामा शृगालः अन्यमाह – “सखे करटक ! अयं तावत्स्वामी पिङ्गलकः कुतोऽपि कारणात्सचकितः परिवृत्तः । अत्र भयप्रस्तावे प्रज्ञावबलेनाहमेनं स्वामिनमात्मीयं करिष्यामि ” । करटको ब्रूते – “यथाभिलषितमनुष्ठीयताम्” इति ।

ततो दमनकः पिङ्गलकसमीपं गतः साष्टाङ्गप्रणिपातं प्रणिपत्य ब्रूते “देव ! उदकार्थी स्वामी पानीयमपीत्वा किमिति प्रतिनिवृत्तः ” ? पिङ्गलकोऽवदत्- “भद्र, सम्प्रति वनमिदमपूर्वसत्त्वाधिष्ठितम्। तथा च श्रुतो मया महानपूर्वशब्दः । अस्य प्राणिनो महता बलेन भवितव्यम्” । दमनको ब्रूते – “देव ! यावदहं जीवामि तावद्भयं न कर्तव्यम् । किन्तु करटकादयोऽप्याश्वास्यतां यस्मादापत्प्रतीकारकाले दुर्लभः पुरुषसमवायः ” |

Once, a merchant named Vardhamana filled a cart with different varieties of goods and set out for business. In some forest, his bull Sanjeevaka fell down breaking his knee. Vardhamana left him there and went on yoking another bull. As the days passed, Sanjeevaka, roamed freely eating as he liked and having become fat with contentment bellowed. In that forest a lion named Pingalaka, oppressed by thirst came to drink water from the stream of Yamuna. There he heard the bellowing of Sanjeevaka, which he had never heard previously. On hearing it, he was perplexed and without drinking water, returned to his place. On seeing him like that his minister Damanaka said to the other minister. “Good one, Karataka! Our lord Pingalaka is for some reason frightened. On this occasion of fear, by my intelligence, I will make the lord mine.” Karataka said, “Do as you wish.” Damanaka went near the lion and having prostrated before him, said. “Lord, why have you returned without drinking water when you went for water?” Pingalaka replied. “Friend, this forest is occupied by some extraordinary creature. I heard a strange sound. That must be a very strong beast.” Damanaka said, “Lord, as long as I live, there need be no fear. But let Karataka and others also be encouraged. For, it is hard to find men while warding off difficult situation.”

ततस्तौ दमनककरटकौ राज्ञा पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ । दमनकः करटकमाह – “मित्र ! ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं तत् । वृषभाः अस्माकमपि भक्ष्याः । किं पुनः सिंहस्य ? यदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमयं महाप्रसादलाभः स्यात्” ?

ततः करटकस्तरुतले साटोपमुपविष्टः । दमनकः सञ्जीवकसमीपं गत्वा अब्रवीत् । “अरे वृषभ ! राज्ञा पिङ्गलकेनारण्यरक्षार्थं नियुक्तः सेनापतिः करटकः समाज्ञापयति-सत्वरमागच्छ । न जाने क्रुद्धः स्वामी किं विधास्यति” । तच्छ्रुत्वा देशव्यवहारानभिज्ञः सञ्जीवकः सभयमुपसृत्य साष्टाङ्गपातं करटकं प्रणतवान् । ततस्तौ सञ्जीवकं कियद्दूरे संस्थाय पिङ्गलकसमीपं गतौ । राजाह – “त्वया स दृष्टः ?” दमनको ब्रूते- “देव ! दृष्टः, महानेवासौ देवं द्रष्टुमिच्छति । किन्तु महाबलोऽसौ, ततः सज्जीभूयोपविश्य दृश्यताम्” । ततः सञ्जीवकमानीय दर्शनं कारितम् । पश्चात्तत्रैव परमप्रीत्या निवसति ।

Later, Damanaka and Karataka, honoured by the king, promised to counter the fear, and took leave. Damanaka said to Karataka. “Friend, I know the cause of fear. It is the bellowing of a bull. Bulls are food to us also. Why to speak of a lion? If the fear of the lord is left there, how can we get this great reward?” Then Karataka sat under a tree in a royal manner, Damanaka went to Sanjeevaka and said, “O bull, Karataka, the General appointed by king Pingalaka to guard the forest orders you to be present at once. I don’t know what will he do if he gets angry.” Having heard that Sanjeevaka, who was unaware of worldly affairs, approached him in fear and prostrated before Karataka.

Later they stopped Sanjeevaka at some distance and themselves went on to meet Pingalaka. The king asked, “Have you seen him?” Damanaka said. “Lord! that great one wishes to meet the lord. But as he is very strong, be seated and get prepared and grant audience to him.” Then they brought Sanjeevaka and showed him. Later he lived there happily.

अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः ब्रूते – “शृणु भ्रातः ! चिराश्रितावेतौ दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अयं सञ्जीवकः सस्यभक्षकोऽर्थाधिकारे नियुज्यताम् । एतद्वचनात्तथानुष्ठिते सति तदारभ्य पिङ्गलकसञ्जीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्यं चिन्तयतः । तदाह दमनकः करटकम् – “मित्र ! यथानयोः सौहार्दं मया कारितं तथा मित्रभेदोऽपि मया कार्यः ” । करटको ब्रूते – “यद्येवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः” | ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच- ‘देव ! आत्ययिकं किमपि महाभयकारि कार्यं मन्यमानः समागतोऽस्मि । सञ्जीवकः तवोपरि असदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निधाने श्रीमद्देवपादानां निन्दां कृत्वा राज्यमेवाभिलषति । सर्वामात्यपरित्यागं कृत्वैक एवायं यत्त्वया सर्वाधिकारी कृतः स एव दोषः । अत्र प्रमाणं स्वामी” |

Once, the lion’s brother Stabdakarna said to him, “Brother, listen. These two, Damanaka and Karataka, who are in your service for a long time and who are the authority to make friends and enemies, should never be given authority over treasury. Appoint this Sanjeevaka, who eats grass as the authority of wealth (food).” As Pingalaka acted accordingly, then onwards time passed with the friendship between Pingalaka and Sanjeevaka growing stronger, leaving all other kith of the king. Observing that there had been a slackness in distributing food to the dependents, Damanaka and Karataka consulted each other. Damanaka said to Karataka, “Friend, as I have brought about their friendship, I shall bring about their separation also.” Karataka replied, “If so, go. May your path be prosperous!” Then Damanaka went to Pingalaka and said, “Lord, I have come reflecting on some dreadful emergency. Sanjeevaka seems to be behaving improperly with you. He abuses you in front of us and desires this kingdom. It is a mistake that you have made him the authority over all, removing all other ministers. Here your majesty is the authority.”

सिंहो विमृश्याह – “भद्र ! यद्यप्येवं तथापि सञ्जीवकेन सह मम महान् स्नेहः” । दमनकः पुनराह – “देव ! त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः । एतच्चानुचितं कृतम्” । सिंहो ब्रूते – “मया यदभयवाचं दत्वा अनुनीतः संवर्धितश्च तत्कथं मह्यं द्रुह्यति ? तदा सञ्जीवकः किं प्रत्यादिश्यताम्” ? दमनकः ससंभ्रममाह “देव ! मा मैवम् । यद्यसौ दृष्टदोषोऽपि दोषान्निवर्त्य सन्धातव्यः” । सिंहः पृच्छति – “कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति” ? दमनक आह “यदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी” ।

The lion reflected and said, “Still my friendship with Sanjeevaka is very strong.” Damanaka said again, “Lord, disregarding your old servants, you have honoured this stranger. This is an improper act.” The lion asked, “When I gave him protection and looked after him, how can he plot against me? Should Sanjeevaka be admonished then?” Damanaka hurriedly replied, “No, Sir, no. When he has been proved guilty, you should not correct him and continue friendship with him.” The lion asked, “How can we determine that indeed he has treacherous intentions?” Damanaka said, “If that proud one comes, with his horns lowered ready to strike, as if he is apprehensive, then the lord will know.”

एवमुक्त्वा सञ्जीवकसमीपं गतः दमनकः सुनिभृतमाह – “मित्र ! अयं स्वामी तवोपरि विकृतबुद्धिः मां रहस्युक्तवान् – सञ्जीवकमेव हत्वा स्वपरिवारं तर्पयामि” इति । एतच्छ्रुत्वा सञ्जीवकः क्षणं विमृश्याह – “किं मयापकृतं राज्ञः? भेदमुपगताद्राज्ञः सदा भेतव्यम् । अतः संग्रामे मृत्युरेव वरम्” । एतच्चिन्तयित्वा सञ्जीवक आह – “भो मित्र ! कथमसौ मां जिघांसुर्ज्ञातव्यः” ? दमनको ब्रूते – “यदासौ पिङ्गलकः समुन्नतलाङ्गूल उन्नतचरणो विवृतास्यस्त्वां पश्यति तदा त्वमेव स्वविक्रमं दर्शयिष्यसि ” ।

ततो दमनकः पिङ्गलकसमीपं गत्वा “देव ! समागतोऽसौ पापाशयः । ततः सज्जीभूय स्थीयताम् ” इत्युक्त्वा पूर्वोक्ताकारं कारयामास । सञ्जीवकोऽप्यागत्य तथाविधं विकृताकारं सिंहं दृष्ट्वा स्वानुरूपं विक्रमं चकार । ततस्तयोर्युद्धे सञ्जीवकः सिंहेन व्यापादितः । विषण्णोऽपि दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः “विजयतां महाराजः, शुभमस्तु सर्वजगताम् ” इत्युक्त्वा यथासुखमवस्थितः ।

Having said so, Damanaka went to Sanjeevaka and told him in secret, “Friend, our lord has cruel intentions regarding you, and said to me secretly, I will kill Sanjeevaka and feed all my servants.” On hearing it, Sanjeevaka thought for a moment and said, “What wrong have I committed towards him? One should be always wary when he has differences with the king. Hence it is better to die in a fight.” Having thought so, Sanjeevaka asked. “Friend, how can I know that he wants to kill me?” Damanaka said, “If Pingalaka looks at you with tail lifted, paw upraised and jaw wide open, then show your power.” Later approaching Pingalaka, Damanaka said, “Lord, this wicked one has arrived. So stay prepared.” And he made him look as briefed previously. Sanjeevaka, who came there saw the lion in such an offensive posture and showed his skill in fighting. The lion killed Sanjeevaka in their fight. Though dejected, having been entertained by Damanaka, Pingalaka occupied his throne. Damanaka said, “May the king be victorious, let there be prosperity to the whole world.” Having said so, he stayed happily.

Free study material for Sanskrit

Step-by-Step Textbook Answers: Class 12 Sanskrit Chapter 03 Suhridbheda

Textbook Solutions for Class 12 Sanskrit Chapter 03 Suhridbheda

Review comprehensive exercise answers for Class 12 Sanskrit Chapter 03 Suhridbheda. Fully updated to match current TS Board syllabus guidelines, these textbook solutions help students verify their work and maintain accurate study notes.

Mastering Theoretical and Practical Questions

Clear, methodical explanations accompany every challenging problem within the Class 12 Sanskrit text. Engaging with these detailed answers lays a solid foundation for advanced learning and improves foundational clarity for upcoming assessments.

Effective Self-Study and Homework Assistance

Frequent review of these structured answers builds strong analytical capabilities and response efficiency. Maximize your academic readiness by combining these textbook solutions with our curated study materials and mock evaluations for Class 12 Sanskrit.

FAQs

Where can I find the latest TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः for the 2026-27 session?

The complete and updated TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः is available for free on StudiesToday.com. These solutions for Class 12 Sanskrit are as per latest TS Board curriculum.

Are the Sanskrit TS Board solutions for Class 12 updated for the new 50% competency-based exam pattern?

Yes, our experts have revised the TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.

How do these Class 12 TS Board solutions help in scoring 90% plus marks?

Toppers recommend using TS Board language because TS Board marking schemes are strictly based on textbook definitions. Our TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः will help students to get full marks in the theory paper.

Do you offer TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः in multiple languages like Hindi and English?

Yes, we provide bilingual support for Class 12 Sanskrit. You can access TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः in both English and Hindi medium.

Is it possible to download the Sanskrit TS Board solutions for Class 12 as a PDF?

Yes, you can download the entire TS Inter 2nd Year Sanskrit Study Material Chapter 3 सुहृद्भेदः in printable PDF format for offline study on any device.