Download TS Board Solutions for Class 11 Sanskrit Chapter 06 The Great Biologist Jagadish Chandra Bose
Explore reliable textbook solutions for Chapter 06 The Great Biologist Jagadish Chandra Bose tailored for Class 11 learners. Utilizing these Sanskrit answers ensures thorough preparation and strengthens foundational knowledge before final TS Board evaluations.
Access TS Board Solutions and Answers
Access the complete solution PDF for Class 11 Sanskrit below. Regular practice with these targeted textbook answers builds familiarity with standard question patterns and helps secure higher marks in final school evaluations.
लघुसमाधानप्रश्नाः (Short Answer Questions) (స్వల్ప సమాధాన ప్రశ్నలు)
Question 1: बाल्ये जीवभौतिकशास्त्रं प्रति आकृष्टः जगदीशः किं किं करोति स्म ?
Answer:
बाल्ये जीवभौतिकशास्त्रं प्रति आकृष्टः जगदीशः स्वग्रामे विविधान् कीटान् कृमीन् च गृहीत्वा परिशीलयति स्म । अपि च जलप्रवाहात् बहुविधान् मत्स्यान् जलसर्पानपि ज्येष्ठसोदर्याः पर्यवेक्षणे गृहीत्वा परीक्षते स्म ।
Exam Tips:
a) Mention both: he studied कीटान् कृमीन् in his village and examined fish and water snakes under his elder sister's supervision.
b) Use the imperfect habit form with स्म: परिशीलयति स्म, परीक्षते स्म.
Question 2: केन कारणेन जगदीशः वैद्यशास्त्रं अध्येतुम् असमर्थः आसीत् ?
Answer:
वारं वारं ज्वरपीडनकारणेन जगदीशः वैद्यशास्त्रं अध्येतुम् असमर्थः आसीत् ।
Exam Tips:
a) Reason: वारं वारं ज्वरपीडनम् – the fever caught earlier in Assam troubled him repeatedly in London.
b) After that he moved to Cambridge for विज्ञानशास्त्राध्ययनम्.
Question 3: जगदीशः किमिति गाढं विश्वसिति स्म ?
Answer:
भौतिकशास्त्रजीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति, तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एकसूत्रताम् आविष्कर्तुं शक्यते इति च जगदीशः गाढं विश्वसिति स्म ।
Exam Tips:
a) Key idea: a deep relation (गाढः सम्बन्धः) exists between भौतिकशास्त्र and जीवशास्त्र.
b) Add the second part – the unity (एकसूत्रता) of living and non-living matter can be discovered.
Question 4: वृक्षेषु जीवतत्त्वम् आविष्कर्तुं प्रयतमानः जगदीशः किमकरोत् ?
Answer:
वृक्षेषु जीवतत्त्वम् आविष्कर्तुं प्रयतमानः जगदीशः जन्तूनां वृक्षाणां मध्ये च वर्तमानं घनिष्ठं सम्बन्धम् एवं च जीवलक्षणसादृश्यं दर्शयितुं सूक्ष्मतमानि उपकरणानि निर्मितवान् ।
Exam Tips:
a) He built very delicate instruments (सूक्ष्मतमानि उपकरणानि) to show the close relation and similarity of life signs between animals and trees.
b) You may name the crescograph as an example for full marks.
एकवाक्यसमाधानप्रश्नाः (One Word Answer Questions) (ఏకవాక్య సమాధాన ప్రశ్నలు)
Question 1: जगदीशः किं शास्त्रं प्रति आकृष्टः अभवत् ?
Answer:
जगदीशः जीवभौतिकशास्त्रं प्रति आकृष्टः अभवत् ।
Exam Tips:
a) Answer: जीवभौतिकशास्त्रम् (biophysics).
b) Use द्वितीया with प्रति: जीवभौतिकशास्त्रं प्रति.
Question 2: जगदीशचन्द्रबोसः कस्मात् विश्वविद्यालयात् (B.Sc.) उपाधिं प्राप्नोत् ?
Answer:
जगदीशचन्द्रबोसः लण्डन् विश्वविद्यालयात् (B.Sc.) उपाधिं प्राप्नोत् ।
Exam Tips:
a) Answer: लण्डन् विश्वविद्यालयात् (University of London).
b) Do not confuse: B.A. was from Cambridge, B.Sc. from London.
Question 3: मासत्रयं इंग्लाण्डदेशे वसन् जगदीशः कं समागतवान् ?
Answer:
मासत्रयं इंग्लाण्डदेशे वसन् जगदीशः मार्कोनी महोदयं समागतवान् ।
Exam Tips:
a) Answer: मार्कोनीमहोदयम् (Marconi).
b) He was in England for the Liverpool session and lectured at the Royal Institution every Friday.
Question 4: क्रेस्कोग्राफ् नामकं यन्त्रं किं करोति ?
Answer:
क्रेस्कोग्राफ् नामकं यन्त्रं तरोः वृद्धौ अत्यन्तसूक्ष्माम् अपि दशां दर्शयितुं समर्थम् आसीत् ।
Exam Tips:
a) Answer: it showed even the minutest stage of a tree's growth (तरोः वृद्धौ अत्यन्तसूक्ष्मामपि दशाम्).
b) Remember: a tree grows at 1/2000 of a tortoise's speed – the crescograph detects even that.
व्याकरणांशाः (Grammar) (వ్యాకరణము)
विधिलिङ्लकारः
1. एकवचनम् – शिष्यः शास्त्रं पठेत् ।
द्विवचनम् – शिष्यौ शास्त्रं पठेताम् ।
बहुवचनम् – शिष्याः वेदान् पठेयुः ।
2. एकवचनम् – त्वं काव्यं पठेः ।
द्विवचनम् – युवां इतिहासं पठेतम् ।
बहुवचनम् – यूयं निरुक्तं पठेत ।
3. एकवचनम् – अहं ग्रन्थं पठेयम् ।
द्विवचनम् – आवां विज्ञानशास्त्रं पठेव ।
बहुवचनम् – वयं ललितकलाः पठेम ।
4. एकवचनम् – पण्डितः ज्ञानं लभेत ।
द्विवचनम् – पण्डितौ सम्माननं लभेयाताम् ।
बहुवचनम् – पण्डिताः सम्पत्तिं लभेरन् ।
5. एकवचनम् – त्वं विवेकं लभेथाः ।
द्विवचनम् – युवां धनं लभेयाथाम् ।
बहुवचनम् – यूयं भाग्यं लभेध्वम् ।
6. एकवचनम् – अहं मोक्षं लभेय ।
द्विवचनम् – आवां इन्द्रियनिग्रहं लभेवहि ।
बहुवचनम् – वयं अष्टैश्वर्याणि लभेमहि ।
यदा (when) – तदा (then)
1. यदा वसन्तकालः भवति तदा कोकिलः गायति ।
2. यदा मेघः वर्षति तदा मयूरः नृत्यति ।
3. यदा भक्तः पूजां करोति तदा देवः प्रसन्नः भवति ।
4. यदा सूर्योदयः भवति तदा पद्मं विकसति ।
5. यदा चन्द्रोदयः भवति तदा कुमुदं विकसति ।
संस्कृतभाषाकौशलम्
Question 1: ‘यदा – तदा’ पदाभ्यां रिक्तस्थानानि पूरयत ।
1. ………… ग्रीष्मकालः भवति ………… उष्णं भवति ।
2. ………… मेघः वर्षति ………… मयूरः नृत्यति ।
3. ………… सूर्योदयः भवति ………… बालकः उत्तिष्ठति ।
4. ………… सिंहः गर्जति ………… हरिणः धावति ।
5. ………… चोरः आगच्छति ………… शुनकः भषति ।
Answer:
1. यदा ग्रीष्मकालः भवति तदा उष्णं भवति ।
2. यदा मेघः वर्षति तदा मयूरः नृत्यति ।
3. यदा सूर्योदयः भवति तदा बालकः उत्तिष्ठति ।
4. यदा सिंहः गर्जति तदा हरिणः धावति ।
5. यदा चोरः आगच्छति तदा शुनकः भषति ।
Exam Tips:
a) यदा goes with the first (cause) clause and तदा with the second (result) clause.
b) Do not change the verbs – only fill यदा and तदा.
Question 2: षड्रुचिवाचकशब्दाः – कोष्ठस्थैः पदैः रिक्तस्थानानि पूरयत ।
उदा – (मधुरः) गुडस्य (Jaggery) (బెల్లం) रुचिः मधुरः ।
1. (आम्लः) तिन्त्रिण्याः (Tamarind) (చింతపండు) रुचिः ………… ।
2. (लवणः) लवणस्य (Salt) (ఉప్పు) रुचिः ………… ।
3. (कटुः) मरीचिकायाः (Chilli) (మిర్చి) रुचिः ………… ।
4. (कषायः) आमलकस्य (Gooseberry) (ఉసిరికాయ) रुचिः ………… ।
5. (तिक्तः) कारवेल्लस्य (Bitter gourd) (కాకరకాయ) रुचिः ………… ।
Answer:
1. तिन्त्रिण्याः रुचिः आम्लः ।
2. लवणस्य रुचिः लवणः ।
3. मरीचिकायाः रुचिः कटुः ।
4. आमलकस्य रुचिः कषायः ।
5. कारवेल्लस्य रुचिः तिक्तः ।
Exam Tips:
a) The six tastes: मधुरः, आम्लः, लवणः, कटुः, कषायः, तिक्तः – learn them with their examples.
b) The taste word is singular masculine to agree with रुचिः (e.g. लवणः, not लवणाः).
Question 3: वर्णवाचकशब्दाः – उचितैः वर्णवाचकशब्दैः रिक्तस्थानं पूरयत ।
(हंसस्य वर्णः श्वेतः । काकस्य वर्णः कृष्णः । आकाशस्य वर्णः नीलः । शुकस्य वर्णः हरितः । रक्तस्य वर्णः रक्तः । हरिद्रायाः वर्णः पीतः । घटस्य वर्णः कपिशः ।)
1. बकस्य वर्णः ………… ।
2. कोकिलस्य वर्णः ………… ।
3. आकाशस्य वर्णः ………… ।
4. पत्रस्य वर्णः ………… ।
5. पद्मस्य वर्णः ………… ।
6. हरिद्रायाः वर्णः ………… ।
7. मृत्तिकायाः वर्णः ………… ।
Answer:
1. बकस्य वर्णः श्वेतः ।
2. कोकिलस्य वर्णः कृष्णः ।
3. आकाशस्य वर्णः नीलः ।
4. पत्रस्य वर्णः हरितः ।
5. पद्मस्य वर्णः रक्तः ।
6. हरिद्रायाः वर्णः पीतः ।
7. मृत्तिकायाः वर्णः कृष्णः ।
Exam Tips:
a) Learn the colour words: श्वेतः, कृष्णः, नीलः, हरितः, रक्तः, पीतः, कपिशः.
b) The thing takes षष्ठी (बकस्य, हरिद्रायाः) and the colour is प्रथमा. For मृत्तिका, कपिशः (brown) is also acceptable.
Question 4: ‘क्त्वा’ अव्ययं योजयित्वा वाक्यं लिखत ।
(उदा – छात्रः विद्यालयं गच्छति । पठति । → छात्रः विद्यालयं गत्वा पठति ।
पुरुषः कार्यं करोति । धनम् अर्जयति । → पुरुषः कार्यं कृत्वा धनम् अर्जयति ।
बालकः शृणोति । लिखति । → बालकः श्रुत्वा लिखति ।
शिक्षकः लिखति । कथयति । → शिक्षकः लिखित्वा कथयति ।
वधूः पश्यति । हसति । → वधूः दृष्ट्वा हसति ।)
1. शिष्यः विद्यालयं गच्छति । पठति ।
2. जनकः कार्यं करोति । धनम् अर्जयति ।
3. माणवकः शृणोति । लिखति ।
4. अध्यापकः लिखति । कथयति ।
5. कन्या शुकं पश्यति । हसति ।
6. माणवकः धावति । पतति ।
7. भिक्षुकः भोजनं खादति । जलं पिबति ।
8. पितामही जलं पिबति । पात्रं यच्छति ।
9. सज्जनः धनं यच्छति । गच्छति ।
10. भृत्यः सेवते । वेतनं लभते ।
11. अर्चकः देवं वन्दते । प्रदक्षिणं करोति ।
12. नायकः विजयं लभते । लोके वर्धते ।
Answer:
1. शिष्यः विद्यालयं गत्वा पठति ।
2. जनकः कार्यं कृत्वा धनम् अर्जयति ।
3. माणवकः श्रुत्वा लिखति ।
4. अध्यापकः लिखित्वा कथयति ।
5. कन्या शुकं दृष्ट्वा हसति ।
6. माणवकः धावित्वा पतति ।
7. भिक्षुकः भोजनं खादित्वा जलं पिबति ।
8. पितामही जलं पीत्वा पात्रं यच्छति ।
9. सज्जनः धनं दत्त्वा गच्छति ।
10. भृत्यः सेवित्वा वेतनं लभते ।
11. अर्चकः देवं वन्दित्वा प्रदक्षिणं करोति ।
12. नायकः विजयं लब्ध्वा लोके वर्धते ।
Exam Tips:
a) क्त्वा joins two actions of the same subject – the first verb becomes the क्त्वा form.
b) Learn irregular forms: गम् → गत्वा, कृ → कृत्वा, श्रु → श्रुत्वा, दृश् → दृष्ट्वा, पा → पीत्वा, दा → दत्त्वा, लभ् → लब्ध्वा.
c) With इट्: लिखित्वा, खादित्वा, धावित्वा, सेवित्वा, वन्दित्वा.
महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः Summary in Sanskrit
कवि परिचयः
महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः इति पाठ्यांशोऽयं कविकुलगुरु – कालिदास – विश्वविद्यालयस्य बालसाहित्यग्रन्थमालातः गृहीतः । बुधवरः आचार्य – पैन्ना – मधुसूदनः अस्य रचयिता ।
श्रीमतीभारती श्रीनरसिंह – शर्मणोः पुत्रोऽयं विपश्चित् तेलंगाणा – राज्यस्थ – नलगोंड – जिल्लायां नार्कटपल्लि – नाम्नि मण्डले अजायत । दशमीकक्ष्यानन्तरं संस्कृताध्यायनरतो भूत्वा आचार्य मधुसूदनः न्यायः – व्याकरण – साहित्य योगशास्त्रादिषु प्रावीण्यम् अलभत ।
उस्मानिया विश्वविद्यालये अध्ययनं कृत्वा ततः नागपुरस्थ कविकुलगुरु – कालिदास संस्कृत विश्वविद्यालये उपाचार्यत्वम् अधिगम्य क्रमेण प्राचार्यत्वं प्राप्य इदानीम् सङ्कायाध्यक्ष (Dean, Faculty of Indian Philosophy and Culture) पदवीम् अलङ्करोति । भारते “युवविपश्चित्” इति पुरस्कारेण सम्मानितः आचार्य – मधुसूदनः ‘काव्यकण्ठचरितम्, प्रज्ञाचाक्षुषम्’ इति महाकाव्यद्वयम्, सप्तलघु काव्यानि च अरचयत् । संस्कृत – तेलुगु – मराठी – आंग्ल – जर्मन् भाषासु निष्णातोऽयं पण्डितः नैकानि काव्यानि अनूदितवान् ।
महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः Summary in English
Poet Introduction
The lesson “Jagadeesh Chandra Bose – The Biologist” is taken from the book “Bala Sahityam” which belongs to the university “Kavikulaguru Kalidas”. It is written by Acharya Penna Madhusudan. He is the son of Sri Narasimha Sharma and Smt. Bharati. He was born in Narketpalli Mandal of Nalgonda district in Telangana.
After 10th std, he learnt Sanskrit and excelled in Nyaya (logic), Vyakarana (grammar), Sahitya (literature) and Yoga. After getting graduated from Osmania University, he worked as a lecturer in “Kavikulaguru Kalidasa” Sanskrit University, Nagpur and is now the Dean, Faculty of Indian Philosophy and Culture. He was honoured with the “Yuva Vipaschit” award in India. Acharya Madhusudan wrote two epic poems ‘Kavyakantha Charitam’ and ‘Prajnachakshusham’ and also wrote seven small poems. He is proficient in Sanskrit, Telugu, Marathi, English and German languages. He translated many poetic works.
महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः Summary in Telugu
కవి పరిచయం
“మహాన్ జీవశాస్త్రజ్ఞో జగదీష్ చంద్రబోసః” అను ఈ పాఠము కవికులగురు కాళిదాస్విశ్వవిద్యాలయం (యూనివర్సిటీ)కి చెందిన బాల సాహిత్యం అను పుస్తకము నుండి గ్రహించబడినది. దీనిని డా. మధుసూధన్ పెన్నా గారు రచించిరి. వీరు శ్రీ నరసింహశర్మగారు మరియు శ్రీమతి భారతిగారి దంపతులకు జన్మించిరి. వీరు అవిభాజ్య తెలంగాణలోని నల్గొండజిల్లాలో నార్కటపల్లి మండలంలో జన్మించిరి.
పదవతరగతి తర్వాత సంస్కృతము, న్యాయశాస్త్రము, వ్యాకరణం, సాహిత్యము మరియు యోగాను అభ్యసించిరి. ఉస్మానియా విశ్వ విద్యాలయం నుండి గ్రాడ్యుయేషన్ చదివిన తర్వాత కవికులగురు కాళిదాస సంస్కృత విశ్వవిద్యాలయం నాగపూర్లో లెక్చరర్ గా పనిచేసిరి. అంతేగాక వీరు భారతీయ దర్శనం మరియు సంస్కృత విషయంలో డీన్ ఫ్యాకల్టీగా పదోన్నతి పొందెను. వీరు “యువ విపశ్చిత్” అవార్డును పొందియుండిరి. ఆచార్య మధుసూదనగారు రెండు మహాకావ్యాలను రచించిరి. అవి కావ్యకంఠచరితమ్ మరియు ప్రజ్ఞాచాక్షుషమ్. అంతేగాక వీరు ఏడు చిన్న కవితలను కూడా రచించిరి. వీరు సంస్కృతము, మరాఠీ, ఆంగ్లము మరియు జర్మన్ భాషలలో ప్రావీణ్యం కలవారు. వీరు అనేక కావ్యాలను అనువదించిరి.
अनुवादः (Translation) (అనువాదం)
वङ्गदेशे फरीदापुरस्य मैमन् सिंग् ग्रामे जातः श्री जगदीशचन्द्र बोसः । तस्य पिता भगवानचन्द्र बोसः । सः भारते ब्रिटिश शासने उन्नताधिकारी आसीत् । देशभक्तिः, साङ्केतिकविद्यां प्रति श्रद्धा, पर्यावरणपरिरक्षणं इत्यादयः गुणाः पितरि तस्मिन् आसन् । ते एव गुणाः पुत्रे जगदीशे अपि आनुवांशिकरुपेण आगताः आसन् ।
Jagadeesh Chandra Bose was born in Mymensingh village of Faridpur in Bengal. Bhagvan Chandra Bose was his father. He was a high officer under the British government in India. His father had patriotism, respect for technical education and concern for protecting the environment. Jagadeesh Chandra Bose also got these traits from his father.
జగదీష్ చంద్రబోస్ గారు బెంగాల్ (వంగదేశం)లోని ఫరీదాపూర్లోని మైమన్సింగ్ గ్రామంలో జన్మించిరి. భగవాన్ చంద్రబోస్ గారు వీరి తండ్రిగారు. వీరి తండ్రిగారు బ్రిటీష్ కార్యాలయంలో ఒక ఆఫీసర్గా పనిచేయుచుండిరి. వీరి నాన్నగారు సాంకేతిక విద్య నేర్చుకొనుటలో చాలా అభిరుచి కలవారు. అతడు దేశభక్తి మరియు పర్యావరణ పరిరక్షణ పట్ల శ్రద్ధ కలిగినవాడు. ఈ విధంగా జగదీష్ చంద్రబోస్ గారు కూడా తన తండ్రిగారి నుండి వారసత్వ రీత్యా ఈ గుణాలను కలిగి ఉండిరి.
जगदीशस्य माता वामासुन्दरी सुगुणवती आसीत् । रामायण- महाभारतादिग्रन्थेषु विद्यमानान् उत्तमविषयान् सा कथामाध्यमेन वदति स्म । एतेषां प्रभावः अपि बालस्य जगदीशस्य उपरि आसीत् । पितुः नियमबद्धं जीवनं मातुः पवित्रं च सम्यक् अनुशील्य जगदीशः बाल्यादेव सम्यक् शिक्षितः अभवत् ।
Vama Sundari was his mother. She knew the mythological stories Ramayana and Mahabharata. She used to teach the morals in those books through stories. This had a huge impact on Chandrabose. Father’s discipline and mother’s sincerity influenced him to become a good student from his childhood.
వామసుందరి జగదీష్ చంద్రబోస్ గారి అమ్మగారు. ఈమెకు రామాయణ మహాభారత గాథలు తెలుసు. ఆమె ఆ పుస్తకాలలోని నీతి కథలను బోధించేది. దీని ప్రభావం జగదీష్ చంద్రబోస్ గారిపై ఎక్కువగా ఉండేది. తండ్రిగారి క్రమశిక్షణ అమ్మగారి సిన్సియారిటీ జగదీష్ చంద్రబోస్ గారిని బాల్యంలో ఒక మంచి విద్యార్థిగా తయారు చేయుటలో ప్రభావితం చేసెను.
विद्याभ्यासः (విద్యాభ్యాసం)
स्वपुत्रः सर्वत्र समाभावनं वहेत्, प्रथमं मातृभाषाम् अधीयात् च इति धिया भगवानचन्द्रः तं ग्रामे साधारणविद्यालये एव प्रवेशितवान् । धीवरपुत्राः तक्षकपुत्राः, कर्मकरपुत्राः सर्वेऽपि तत्र आगच्छन्ति स्म । उन्नताधिकारिणः पुत्रः जगदीशः तैः सह अध्ययनं कुर्वन् बहून् विषयान् अजानात् ।
विभिन्नवर्गीयाणां बालकानां साहचर्येण सः क्रमेण सर्वविधज्ञानं लब्धवान् ।
Bhagvan Chandra his father first sent him to a normal school in his village so that he would develop a feeling of equality and first learn his mother tongue. Sons of fishermen, carpenters and labourers all studied there. He learnt many things studying there with all kinds of people and improved his intelligence.
భగవాన్ చంద్రబోస్ గారు తన కుమారుడు జగదీష్ చంద్రబోసు ముందుగా తన గ్రామంలోని సాధారణ పాఠశాలలో సమాజాన్ని అర్థం చేసుకొనుటకు, సమానత్వ భావాన్ని అతనిలో నింపుటకు, ధనిక- పేద, తెలివిగల్గినవారు, తెలివిలేనివారు అందరి పిల్లలతో మెలుగుటకు చేర్పించిరి. జగదీష్ చంద్రబోస్ గారు ఇక్కడ చదువుకుంటూ చాలా విషయాలను గమనించిరి. ఇక్కడ అన్ని రకాలైన ప్రజలను చూసి వారి నుండి తన తెలివితేటలను అభివృద్ధి పరచుకొనెను.
तथा ग्रामे साधारणे विद्यालये अधीत्य अपि जगदीशः उत्तमामेव विद्यां प्राप्तवान् । ततः प्राथमिकोन्नतविद्यायै कलकत्तानगरस्थां सेंट जेवियर् (St. Xavier) संस्थायाः पाठशालां, ततः कलाशालां च प्राविशत् ।
Even though he studied in a local school, he had a real good education. Then, he went to Calcutta for his higher education. He studied at St. Xavier’s school and then in college.
అతడు స్థానిక పాఠశాలలో చదివినప్పటికీ ఒక మంచి యథార్థవిద్యను పొందెను. తర్వాత ఉన్నత విద్యకై కలకత్తా వెళ్ళెను. సెయింట్ జేవియర్ పాఠశాలలో తదుపరి కళాశాలలో చదివిరి.
बाल्ये एव जगदीशो जीवभौतिकशास्त्रं प्रति आकृष्टः अभवत् । प्राग्वङ्गदेशस्थे स्वग्रामे विविधान् कीटान् कृमीन् च गृहीत्वा परिशीलयति स्म । जलप्रवाहात् बहुविधान् मत्स्यान् जलसर्पानपि ज्येष्ठसोदर्याः पर्यवेक्षणे गृहीत्वा परीक्षते स्म । अत एव सः जीवशास्त्रमेव अध्येतव्यमिति निरचिनोत्। किन्तु तदानीं कलकत्ताविश्वविद्यालये जीवशास्त्रं वा जीवभौतिकशास्त्रं वा अध्येतुं अवकाशः न आसीत् । किञ्च सेंट जेवियर् कलाशालायाः भौतिकशास्त्राध्यापकस्य लाफोंट् महोदयस्य बोधनगरिम्णा प्रभाविताः भूत्वा बहवः विद्यार्थिनः भौतिकशास्त्रमेव अधीयते स्म । तथैव जगदीशः अपि भौतिकशास्त्रमेव स्वीकृत्य तस्मिन् शास्त्रे कलकत्ता विश्वविद्यालयस्य स्नातकपदं (Bachelor’s Degree) प्राप्तवान् ।
Jagadeesh was interested in Biology from his childhood. He collected insects and worms in his village in East Bengal and observed them. He also examined different fish and water snakes from streams under the supervision of his elder sister. So, he decided to study Biology, but at that time Calcutta University had no course in Biology or Biophysics. Moreover, many students, influenced by the teaching of Father Lafont, the physics teacher at St. Xavier’s College, studied Physics. He chose physics and got a bachelor’s degree from University of Calcutta.
జగదీష్ చంద్రబోస్ గారు బాల్యము నుండి జీవశాస్త్రవిషయంలో అభిరుచి కలిగియుండెను. ఆయన తన తూర్పు బెంగాల్లోని స్వంత గ్రామంలో కీటకములు, క్రిములు మొదలైన వాటిపై పరిశోధన చేసెను. అంతేకాక ఆయన వివిధ రకాలైన చేపలు, నీటిపాములు, నీటిపాములపై తన అక్కగారి పర్యవేక్షణలో పరిశోధన చేసెను. అందువలన అతను జీవశాస్త్రమును తన డిగ్రీలో చదువగోరెను. కానీ ఆ రోజుల్లో కలకత్తా విశ్వవిద్యాలయంలో జీవశాస్త్రం చదివే అవకాశం లేదు. అంతేకాక సెయింట్ జేవియర్స్ కళాశాల భౌతికశాస్త్ర అధ్యాపకుడైన లాఫాంట్ గారి బోధనకు ప్రభావితులై చాలామంది విద్యార్థులు భౌతికశాస్త్రమును చదివేవారు. అతను భౌతికశాస్త్రమును ఎంపిక చేసుకొని కలకత్తా విశ్వవిద్యాలయం నుండి బ్యాచిలర్స్డిగ్రీని పొందెను.
तदनन्तरं उन्नतविद्याभ्यासः कुत्र करणीयः इति गृहे चर्चायां जातायां जगदीशस्य पिता पुत्रस्य इंग्लण्डदेशगमनमेव अभिलषितवान् । जगदीशः प्रशासनाधिकारी भूत्वा सामान्यजनानां सेवां कर्तुमैच्छत् । किन्तु स्वयं प्रशासनाधिकारी तस्य पिता सः उन्नतविद्यावान् स्वतन्त्रः च भवेत् इति ऐच्छत् । पितुः इच्छानुसारं जगदीशः लंडन् विश्वविद्यालये वैद्यशास्त्रम् अध्येतुं तत्र गतवान् । परन्तु दैवगतिः अन्यथा आसीत् । पुरा असम (Assam) प्रदेशे निवसन् जगदीशः केनापि ज्वरेण पीडितः अभवत् । स एव ज्वरः लंडन् विश्वविद्यालये वैद्यशास्त्रम् अभ्यसन्तं अपि तं वारं वारं पीडयन् आसीत् । तेन कारणेन वैद्यशास्त्रम् अध्येतुम् असमर्थः सः केंब्रिड्ज् विश्वविद्यालये विज्ञानशास्त्राध्ययनम् आरब्धवान् ।
Jagadeesh’s father wanted to send him to England for his further Education and research. Jagadeesh wanted to become an administrative officer and serve the common people. But his father, himself an administrative officer, wanted him to become a highly educated and independent man. As his father wished, he went to London University to study Medicine. But fate was otherwise. While living in Assam earlier, he had suffered from a fever, and the same fever troubled him again and again while he studied Medicine in London. So he gave up Medicine and began studying Science at Cambridge University.
జగదీష్ చంద్రబోసు తండ్రిగారు తనను తన ఉన్నత విద్యాభ్యాసము మరియు పరిశోధన కొరకు ఇంగ్లాండ్ పంపగోరుచుండెను. కాని జగదీష్ చంద్రబోస్ గారు ఒక పరిపాలనా అధికారియై సాధారణ ప్రజలకు సహాయం చేయదలచుకొనెను. కానీ స్వయంగా పరిపాలనా అధికారి అయిన తన నాన్నగారు అతనితో ఇంకా ముందు ముందు బాగా చదివి స్వతంత్ర వ్యక్తి కావలెనని చెప్పిరి. అప్పుడు జగదీష్ చంద్రబోస్ గారు లండన్ విశ్వవిద్యాలయం వెళ్ళి మెడిసిన్ (వైద్య విద్య) చదువ నిర్ణయించుకొనెను. కానీ విధి మరోలా ఉంది. ఆయన మునుపు అస్సాంలో ఉన్నప్పుడు సోకిన జ్వరం లండన్లో వైద్యవిద్య చదువుతున్నప్పుడు మళ్ళీ మళ్ళీ బాధించెను. ఆ కారణంగా వైద్యవిద్యను కొనసాగించలేకపోయిరి. అందువలన వారు కేంబ్రిడ్జి విశ్వవిద్యాలయంలో సామాన్యశాస్త్రం (సైన్స్) చదివిరి.
वृक्षशास्त्रं जन्तुशास्त्रं च अधिकश्रद्धया पठन् जगदीशः बहुविधान् वृक्षान् लताः च परिशीलयन् आसीत् । तस्मिन्नेव समये सः लार्ड् रेले महोदयं समागतवान् । वस्तुतः रेले महोदयस्य नायकत्वे एव जगदीशः वृक्षशास्त्रे अधिकं परिशोधनं कृतवान् । केंब्रिड्ज् विश्व विद्यालयात् B.A. उपाधिं लण्डन् विश्वविद्यालयात् B.Sc. उपाधिं च प्राप्य जगदीशः भारतदेशं प्रत्यागच्छत् ।
He studied Botany and Zoology with great interest and observed many kinds of trees and creepers. During that time he met the great scientist Lord Rayleigh. He did much research under the guidance of Lord Rayleigh. He got B.A. degree from Cambridge University and B.Sc., degree from London University. After this he came to India.
ఆయన జీవశాస్త్రం – వృక్షశాస్త్రాలను చాలా అభిరుచితో చదివిరి. ఆయన చాలా చెట్లపై (మొక్కలపై) పరిశోధన చేసిరి. ఆ సమయంలో ఆయన గొప్ప శాస్త్రవేత్త అయిన లార్డ్ రేలే గారిని కలిసిరి. లార్డ్ రేలేగారి ఆధ్వర్యంలో ఆయన అనేక పరిశోధనా కార్యములను చేసిరి. ఆయన కేంబ్రిడ్జి యూనివర్సిటీ నుండి B.A. డిగ్రీని, లండన్ యూనివర్సిటీ నుండి B.Sc డిగ్రీని పొందిరి. తదుపరి శ్రీ జగదీష్ చంద్రబోసుగారు ఇండియా తిరిగి వచ్చిరి.
स्वाभिमानी जगदीशः (స్వాభిమాని జగదీష్)
प्रत्यागमनानन्तरं जगदीशः कलकत्तानगरे प्रेसिडेन्सी कलाशालायां भौतिकशास्त्रस्य आचार्यपदं प्राप्तवान् । तस्मिन् काले आंग्लेयानां अपेक्षया भारतीयाचार्येभ्यः अतीव न्यूनं वेतनं दीयते स्म । तं दुराचारं निरस्यन् जगदीशः संवत्सरत्रयं यावत् किमपि वेतनम् अगृह्णन्नेव तत्र अध्यापितवान् । यदा तस्य मेधसः आविष्कारः जातः तदा कलाशालाधिकारिणः तस्मै प्रथमदिनादारभ्य पूर्णं वेतनं अदुः ।
Jagadeesh was a man with great pride. He started working as a lecturer at Presidency College in Calcutta. During that time, Indian lecturers were paid much less than the British. Protesting against this injustice, Jagadeesh taught there for three years without taking any salary. When his brilliance was recognised, the college authorities paid him his full salary from the first day of his joining.
జగదీష్ చంద్రబోస్ గారు బాగా ఆత్మాభిమానం కల వ్యక్తి. ఆయన ప్రెసిడెన్సీ కళాశాల, కలకత్తాలో లెక్చరర్ గా జీవితాన్ని ఆరంభించిరి. ఆ సమయంలో బ్రిటీష్వారితో పోలిస్తే భారతీయ లెక్చరర్స్కు తక్కువ వేతనాలు లభిస్తుండేవి. ఈ వ్యత్యాసాన్ని తొలగించుటకు జగదీష్ చంద్రబోసు గారు మూడు సంవత్సరాలు జీతం తీసుకొనకుండా ఉండిరి. కళాశాల వారు దీనిని గమనించి వెంటనే అతను ఉద్యోగంలో చేరిన మొదటి రోజే జీతమును ఇచ్చిరి.
जगदीशस्य आविष्काराः (జగదీష్ చంద్రబోస్ గారి ఆవిష్కరణలు)
प्रेसिडेन्सी कलाशालायां समीचीनां प्रयोगशाला न आसीत्, अध्यापनस्य कार्यभारस्तु अत्यधिकः । तथापि जगदीशः स्वस्य धनेनैव प्रयोगसामग्री सम्पादयन् रात्रिषु प्रयोगान् कुर्वन् च बहून् अपूर्वविषयान् आविष्कृतवान् । ततः विंशतिवर्षेभ्यः प्राक् JC Maxwell नामकः भौतिकशास्त्रज्ञः विविधतरङ्गदैर्घ्ययुक्तायाः विद्युदयस्कान्त धार्मिकशक्तेः उपस्थितिं केवलं सिद्धान्तरूपेण प्रतिपादितवान् । प्रयोगैः तस्य निरुपणात् पूर्वमेव सः दिवङ्गतः ।
तदनन्तरं Hertz नामकः जर्मन देशीयः अपि शून्ये वर्तमानायाः विद्युदयस्कान्तशक्तेः तरङ्गाणां विषये स्वस्य परिशोधनं तत्फलितं च प्रकाशितवान् । तस्य मरणानन्तरं Oliver Lodge महोदयः तस्य स्मारकोपन्यासं कुर्वन् रेडियोतरङ्गाणां प्रसारणयोग्यत्वं प्रादर्शयत् । ग्रन्थरूपेण प्रकाशितेन तेन उपन्यासेन प्रभावितेषु बहुषु जगदीशः अन्यतमः । सः तं परिशोधनम् अग्रे नीत्वा रेडियोतरङ्गाणां तरङ्गदैर्घ्यं न्यूनीकृत्य तान् सूक्ष्मतां (5 mm) अनयत् । निस्तन्त्रीमार्गेण रेडियोतरङ्गाणां प्रसारणे जगदीश एव आद्यः आसीत् । अर्धवाहकसन्धायकम् (Semiconductor junction) उपयुज्य रेडियो तरङ्गाणां परिज्ञाने अपि स एव आद्यः आसीत् । मार्कोनीनामकात् भौतिकशास्त्रज्ञात् पूर्वमेव जगदीशः निस्तन्त्रीपद्धत्या रेडियोतरङ्गाणां ग्रहणे च समर्थं यन्त्रं निर्माय तस्य प्रयोगं कलकत्तायां पट्टणसभाभवने जनानां समक्षं प्रादर्शयत् ।
There were no laboratories in Presidency College at that time. It became really difficult even to teach. But he didn’t stop. He bought equipment with his own money and worked on his research at nights and found out many new things. Twenty years before that, the physicist J.C. Maxwell had proposed the existence of electromagnetic waves of different wavelengths only in theory; he died before proving them by experiments.
Then, Hertz, a German scientist worked on electromagnetic waves and published them. After Hertz’s death, Oliver Lodge, in a memorial lecture on him, showed that radio waves could be transmitted. That lecture was published as a book, and Jagadeesh was one of the many inspired by it. He carried the research forward and reduced the wavelength of radio waves to 5 mm. Jagadeesh was the first to transmit radio waves without wires, and also the first to use a semiconductor junction to detect radio waves. Even before Marconi, he built an instrument that could receive radio waves wirelessly and demonstrated it before the public at the Town Hall in Calcutta.
ఆ సమయంలో ప్రెసిడెన్సీ కళాశాలలో ప్రయోగశాలలు ఉండేవికావు. అందువలన బోధన చేయుటకు కూడా చాలా కష్టంగా ఉండేది. అయినప్పటికీ ఆయన తన పనిని ఆపలేదు. ఆయన తన స్వంత డబ్బుతో పరికరాలను కొని రాత్రులందు కూడా తన పరిశోధనలను కొనసాగించి ఎన్నో క్రొత్త విషయాలను కనుగొనెను. JC మ్యాక్స్వెల్ అను భౌతికశాస్త్రవేత్త వివిధ విద్యుత్ మరియు అయస్కాంత తరంగాలపై పరిశోధనలు చేసెను.
కానీ వాటిని నిరూపించక ముందే చనిపోయెను. అప్పుడు హెర్ట్జ్ అను జెర్మన్ శాస్త్రవేత్త ఎలక్ట్రోమేగ్నటిక్ వేవ్స్ (విద్యుదయస్కాంత తరంగాలు)పై పనిచేసి వాటిని ముద్రించెను. తర్వాత ఆలివర్ లాడ్జ్ అనునతడు హెర్ట్జ్ స్మారకోపన్యాసంలో రేడియో తరంగాలను గురించి ప్రకటించెను. ఆ ప్రసంగం ఒక పుస్తకంగా ముద్రించబడినది. జగదీష్ చంద్రబోస్ గారు దానిని చదివిరి. ఆయన వీటిపై ఇంకా ఎక్కువ పరిశోధనలు చేయసాగెను. రేడియో తరంగాల తరంగదైర్ఘ్యాన్ని 5 మి.మీ. వరకు తగ్గించెను. జగదీష్ చంద్రబోస్ గారు వైర్లెస్ ట్రాన్సమిషన్ను ఉపయోగించిన వారిలో మొట్ట మొదటివారు. రేడియో తరంగాలను గుర్తించుటకు సెమీకండక్టర్ జంక్షన్ను ఉపయోగించిన వారిలో కూడా ఆయనే మొదటివారు. రేడియో తరంగాలను గుర్తించుటకు ఒక పరికరమును అభివృద్ధి పరచి దానిని కలకత్తా టౌన్హాల్లో ప్రజల ఎదుట ప్రదర్శించెను.
पञ्चसप्तति (75) मीटर् दूरे प्रकोष्ठे ग्राहकयन्त्रेण सह एकां घण्टां मारकयन्त्रं (pistol) च स्थापयित्वा स्वप्रकोष्ठात् रेडियेटर् द्वारा विद्युदयस्कान्ततरङ्गान् प्रासारयत् । तेषां प्रभावेण ग्राहकयन्त्रं स्वयं घण्टां वादयित्वा मारकयन्त्रमपि प्रयुक्तवत् । तेन विजयेन जगदीशस्य नाम शास्त्रलोके बहुधा विश्रुतमभवत् । सः लिवरपूल् अधिवेशने भागं वोढुं ब्रिटिश संस्थया आहूतः । इंग्लैण्ड्देशम् अगच्छत्। ततः तत्रत्यानां प्रार्थनया प्रतिशुक्रवासरं रायल्संस्थायाम् उपन्यास्यन् मासत्रयं तत्रैव तस्थौ ।
तस्मिन्नेव काले सः मार्कोनीमहोदयं समागतवान्। तदनन्तरमेव मार्कोनीवर्यस्य परिशोधनं सफलं जातमित्यपि केचित् वदन्ति ।
He placed a receiver along with a bell and a pistol in a room 75 m away and sent electromagnetic waves from his own room through a radiator. Because of these waves the receiver itself rang the bell and fired the pistol. With this success his name became famous in the scientific world. He was invited by the British Association to take part in its Liverpool session and went to England. At their request he stayed there for three months, lecturing every Friday at the Royal Institution. During that time he met Marconi. Some say that Marconi’s research became successful only after this meeting.
ఆయన 75 మీటర్ల దూరంలోని గదిలో గ్రాహక యంత్రంతో పాటు ఒక గంటను, ఒక పిస్టల్ను ఉంచి, తన గది నుండి రేడియేటర్ ద్వారా విద్యుదయస్కాంత తరంగాలను పంపెను. ఆ తరంగాల ప్రభావంతో గ్రాహక యంత్రం తనంతట తానే గంటను మోగించి, పిస్టల్ను పేల్చెను. దీని విజయంతో సాంకేతిక ప్రపంచంలో ఒక గొప్ప పేరు సంపాదించెను. జగదీష్ చంద్రబోస్ గారు లివర్పూల్ మీటింగ్లో బ్రిటీషు వారి ఆహ్వానం మేరకు పాల్గొనిరి. వారి ఆహ్వానం మేరకు జగదీష్ చంద్రబోస్ గారు అక్కడ మూడు నెలలు ఉండిరి. అంతేకాకవారు ప్రతి శుక్రవారం రాయల్ ఇన్స్టిట్యూషన్ నందు ఉపన్యశించిరి. ఆ సమయంలో ఆయన ‘మార్కోని’ని కలిసెను. కొంతమంది అభిప్రాయం ప్రకారం మార్కోని పరిశోధనలు జగదీష్ చంద్రబోస్ గారిని కలిసిన తర్వాతనే సఫలమైనవి.
भौतिक जगतः अवगमनार्थं भौतिकशास्त्रम् अधीत्य जगदीशः तदर्थं बहूनि उपकरणानि निर्मितवान्। ततः सः बाल्यात् प्रभृति स्वस्य प्रीतिपात्रे जीवभौतिकशास्त्रे मनः अधात् ।
To understand the physical world, Jagadeesh studied physics and built many instruments for it. Then he turned his mind to biophysics, his favourite subject from childhood.
భౌతిక ప్రపంచాన్ని అర్థం చేసుకొనుటకు జగదీష్ చంద్రబోస్ గారు భౌతికశాస్త్రాన్ని అధ్యయనం చేసి ఎన్నో పరికరాలను తయారుచేసెను. తర్వాత బాల్యం నుండి తనకు ఇష్టమైన జీవభౌతికశాస్త్రంపై మనస్సు నిలిపెను.
एकदा तेन निर्मित कोहेरर् (coherer) नामकं यन्त्रं किञ्चित्कालं कर्म कृत्वा व्यरमत् ।
किञ्चित्कालानन्तरं पुनः कर्म कर्तुम् आरभत । तेन जगदीशः अवगतवान् यत् निर्जीवपदार्थाः अपि श्रान्ताः भूत्वा विश्रान्तिम् अपेक्षन्ते इति । ततः सः निर्जीवपदार्थानां जीवधर्मान् अध्येतुं प्रारभत । तेन सहैव वृक्षेषु विद्यमानं जीवपदार्थम् अधिकृत्य अपि तस्य अध्ययनम् अन्ववर्त । भौतिकशास्त्रजीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एकसूत्रताम् आविष्कर्तुं शक्यते इति च सः गाढं विश्वसिति स्म । पृथक् दृश्यमानानां शास्त्राणां मध्ये कश्चन सूक्ष्मः सम्बन्धः अवश्यं वर्तते इति, तस्य ज्ञानेन सर्वेषां पदार्थानां श्रमः निद्रा उत्साहः मूर्च्छा इत्याद्याः स्थितयः भवन्ति इत्ययं तस्य सिद्धान्तः प्रथमं सर्वेषां शास्त्रज्ञानां परिहासपात्रम् अजायत ।
वृक्षेषु जीवतत्त्वम् आविष्कर्तुं प्रयतमानो जगदीशः जन्तूनां वृक्षाणां मध्ये लोहानां वृक्षाणां मध्ये च वर्तमानं घनिष्ठं सम्बन्धम् एवं च जीवलक्षणसादृश्यं दर्शयितुं सूक्ष्मतमानि उपकरणानि निर्मितवान् येषां साहाय्येन तरुषु अपि जीवतत्त्वस्य प्रदर्शनं सुशकम् आसीत् ।
Once a device called the coherer, made by him, worked for some time and then stopped. After some time it started working again. From this Jagadeesh understood that even non-living things get tired and need rest. So he began to study the life-like properties of non-living things. He researched on the life of plants. He understood there was a huge relation between physics and biology.
He believed that a relation could be formed between the life and lifeless objects. Even though physics and biology look different from outside. He thought they were interlinked. He believed that trees, grass also had stress, sleep and excitement. At first this theory of his was ridiculed by other scientists. He started working on feeling of animals and trees and their life movements. He invented very delicate devices for research. He proved his research using these devices.
ఆయన కొహెరర్ అను పరికరమును కనుగొనెను. అది కొంతసేపు పనిచేసి ఆగిపోయినది. కొద్దిరోజుల తర్వాత మరలా పనిచేయుట ఆరంభించినది. దానిని బట్టి జీవంలేని పదార్థాలు కూడా అలసిపోయి విశ్రాంతిని కోరుకుంటాయని జగదీష్ చంద్రబోస్ గారు గుర్తించిరి. కావున ఆయన జీవంలేని పరికరాలను పరిశోధించుట ప్రారంభించెను. ఆయన మొక్కల జీవనంపై కూడా పరిశోధనలు చేసెను. ఆయన భౌతిక జీవశాస్త్రాల మధ్య చాలా సంబంధము ఉన్నదని గ్రహించెను.
జీవించివున్న, జీవం లేని వాటిమధ్య సంబంధమును ఏర్పరచవచ్చునని ఆయన దృఢ విశ్వాసం. అయినప్పటికీ భౌతిక జీవశాస్త్రాలు రెండూ బయటి నుండి తేడా కలిగినవిగా ఉంటాయి. అవి రెండూ అంతర సంబంధం కలిగి ఉంటాయని ఆయన నమ్మకం. చెట్లు, గడ్డి కూడా ఒత్తిడి, నిద్ర, ఉత్సాహమును కలిగి వుంటాయని ఆయన నమ్మకం. ఈ సిద్ధాంతం మొదట ఇతర శాస్త్రవేత్తల పరిహాసానికి గురైనది. జంతువులు, చెట్ల యొక్క భావాలను వారి జీవన కదలికలను తెలుసుకొనుటకు పనిని ప్రారంభించెను. ఆయన చాలా సున్నితమైన పరికరాలను పరిశోధన నిమిత్తం కనుగొనెను. ఈ పరికరాలను ఉపయోగించి ఆయన తన పరిశోధనలను నిరూపించెను.
तदर्थं सः क्रेस्कोग्राफ् (crescograph) नामकं यन्त्रं निर्मितवान् । तरोः वृद्धौ अत्यन्तसूक्ष्मामपि दशां तद् यन्त्रं दर्शयितुं समर्थम् आसीत् । यदा तरुः वर्धते तद्वर्धनं चक्षुर्भिः द्रष्टुं न शक्यते परन्तु अस्य यन्त्रस्य साहाय्येन तदपि वर्धनं ज्ञातुं शक्यते । अतिमन्दगमने जनाः कच्छपम् उदाहरणरूपेण स्वीकुर्वन्ति । परन्तु तस्य कच्छपस्य गमनस्य यः द्विसहस्रतमः अंशः अस्ति तावता वेगेन वर्धते तरुः । तादृशं चलनमपि तेन यन्त्रेण ज्ञातुं शक्यम् आसीत् ।
He invented Crescograph for his research. The device could show even the slightest change in the growth of a tree. It is not possible to see a tree grow with our eyes, but with the help of this device even that growth can be measured. People take the tortoise as an example of very slow movement, but a tree grows at only one two-thousandth (1/2000) of the speed of a tortoise. Even such slow movement could be detected by this device.
ఆయన క్రెస్కోగ్రాఫ్ అను పరికరమును తన పరిశోధన నిమిత్తం కనుగొనెను. ఈ పరికరము మొక్కల పెరుగుదలలో జరిగే అతి సూక్ష్మమైన మార్పులను కూడా కనుగొనును. చెట్టు పెరుగుదలను గమనించడం సాధ్యం కాదు. కానీ ఈ పరికరం ద్వారా అది సాధ్యపడును. తాబేలు నిదానంగా నడిచే ఒక జంతువు. ప్రజలు అతి నెమ్మదికి తాబేలును ఉదాహరణగా చెబుతారు. కానీ చెట్టు తాబేలు నడక వేగంలో 2000వ వంతు వేగంతో మాత్రమే పెరుగును. అంతటి నెమ్మది కదలికను కూడా ఈ పరికరం కనుగొనగలదు.
एवं स्वस्य भौतिकशास्त्रस्य परिशोधनानुभवेन जगदीशचन्द्रमहोदयः जीवशास्त्रस्य रहस्यानि शोधयितुम् उत्तमानि उपकरणानि निर्माय तरूणां प्रस्तराणाम् अपि जीवचैतन्यं कथं भवतीति प्रदर्शितवान् । एतेन वस्तुतः प्राचीनशास्त्रज्ञानां नवीनशास्त्रज्ञानां च सिद्धान्तानां समन्वयोऽभवत् ।
In this way, using his experience of research in physics, Jagadeesh Chandra Bose built excellent instruments to find out the secrets of biology and showed how life and consciousness exist even in trees and stones. Through this, the theories of ancient and modern scientists were harmonised.
ఈ విధంగా భౌతికశాస్త్ర పరిశోధనానుభవంతో జగదీష్ చంద్రబోస్ గారు జీవశాస్త్రంలో ఎన్నో రహస్యాలను కనుగొనెను. వారు ఎన్నో పరికరాలను తయారుచేసి చెట్లలోనూ, రాళ్ళలోనూ జీవచైతన్యం ఎలా ఉంటుందో చూపించెను. దీని ద్వారా ప్రాచీన, నవీన శాస్త్రవేత్తల సిద్ధాంతాలకు సమన్వయం కుదిరినది.
Free study material for Sanskrit
Step-by-Step Textbook Answers: Class 11 Sanskrit Chapter 06 The Great Biologist Jagadish Chandra Bose
Textbook Solutions for Class 11 Sanskrit Chapter 06 The Great Biologist Jagadish Chandra Bose
Review comprehensive exercise answers for Class 11 Sanskrit Chapter 06 The Great Biologist Jagadish Chandra Bose. Fully updated to match current TS Board syllabus guidelines, these textbook solutions help students verify their work and maintain accurate study notes.
Mastering Theoretical and Practical Questions
Clear, methodical explanations accompany every challenging problem within the Class 11 Sanskrit text. Engaging with these detailed answers lays a solid foundation for advanced learning and improves foundational clarity for upcoming assessments.
Effective Self-Study and Homework Assistance
Frequent review of these structured answers builds strong analytical capabilities and response efficiency. Maximize your academic readiness by combining these textbook solutions with our curated study materials and mock evaluations for Class 11 Sanskrit.
FAQs
The complete and updated TS Inter 1st Year Sanskrit Study Material Chapter 6 महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः is available for free on StudiesToday.com. These solutions for Class 11 Sanskrit are as per latest TS Board curriculum.
Yes, our experts have revised the TS Inter 1st Year Sanskrit Study Material Chapter 6 महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.
Toppers recommend using TS Board language because TS Board marking schemes are strictly based on textbook definitions. Our TS Inter 1st Year Sanskrit Study Material Chapter 6 महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः will help students to get full marks in the theory paper.
Yes, we provide bilingual support for Class 11 Sanskrit. You can access TS Inter 1st Year Sanskrit Study Material Chapter 6 महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः in both English and Hindi medium.
Yes, you can download the entire TS Inter 1st Year Sanskrit Study Material Chapter 6 महान् जीवशास्त्रज्ञो जगदीशचन्द्रबोसः in printable PDF format for offline study on any device.