Get the most accurate RBSE Solutions for Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् here. Updated for the 2026-27 academic session, these solutions are based on the latest RBSE textbooks for Class 12 Sanskrit. Our expert-created answers for Class 12 Sanskrit are available for free download in PDF format.
Detailed रचनाकार्यम् सङ्केताधारित-वर्णनम् RBSE Solutions for Class 12 Sanskrit
For Class 12 students, solving RBSE textbook questions is the most effective way to build a strong conceptual foundation. Our Class 12 Sanskrit solutions follow a detailed, step-by-step approach to ensure you understand the logic behind every answer. Practicing these रचनाकार्यम् सङ्केताधारित-वर्णनम् solutions will improve your exam performance.
Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् RBSE Solutions PDF
पाठ्य-पुस्तक के संकेताधारित वर्णन
Question 1. प्रदत्त संकेतानुसारं वर्णनं लिखत: 1. संकेतपदनि: रेलस्थानकम्, महान् कोलाहलः, भारवाहकाः, रेलयानानि, हरितदीपं, रक्तदीपं, विटिका, पृच्छावातायनम्, जलपानगृहाणि, कार्यालयः, सुन्दरं दृश्यम्।
Answer: एकदा मम विद्यालयस्य केचन छात्राः भ्रमणार्थं रेलयानेन जयपुरनगरं गताः। वयं सर्वे छात्राः जयपुरस्य रेलस्थानकात् बहिः आगताः। तत्र महान् कोलाहलः श्रूयते स्म। तत्र एकः सुन्दरः कार्यालयः आसीत्। अस्माभिः तत्र उपस्थितं एकम् अधिकारिणं निवेदितं यत् अस्माकं प्रयोगार्थं भारवाहकानां व्यवस्थां करोतु, येन वयं जलयानं ग्रहीतुं शक्नुमः। रेलस्थानकं यात्रिकाणां कृते बहु उपयोगी भवति। अनन्तरं वयं एकं सुन्दरं दृश्यम् अवलोकितवन्तः।
In simple words: वयं रेलयानेन जयपुरं गतवन्तः। रेलस्थानके बहु कोलाहलः आसीत्। वयं भारवाहकान् दृष्टवन्तः, ये सामानं नयन्ति।
🎯 Exam Tip: When describing a place using hint words, ensure each word is naturally integrated into the narrative. Focus on creating a logical flow from one detail to the next.
Question 2. प्रदत्त संकेतानुसारं वर्णनं लिखत: (अभ्यासार्थ) महाकविः कालिदासः, श्रेष्ठः कविः, सप्त कृतयः, प्रसिद्धतमं नाटकं, उपमाप्रयोगः, वैदर्भी रीति, महाकाव्यद्वयं, खण्डकाव्यद्वयं, कला पक्षः भावपक्षः, विश्वसाहित्ये स्थानम्।
Answer: महाकविः कालिदासः विश्वे प्रसिद्धः कविः अस्ति। अस्मिन् संसारे कोऽपि देशो वा प्रान्तो वा नास्ति यत्र जनाः कालिदासं न जानन्ति। भारतीयकविषु कालिदास एव भूयसी कीर्तिं प्राप्तवान्। सर्वेषु कविषु महाकविः कालिदासः श्रेष्ठतमः कविः वर्तते। आनन्दवर्धनाचार्यः कालिदासं महाकविः आह। जयदेवस्तं 'कविकुलगुरुः कालिदासो विलासः' अकथयत्। कालिदासः संस्कृतसाहित्यस्य अद्यावधि कनिष्ठिकाधिष्ठितः कविरस्ति। कालिदासस्य सप्त कृतयः सन्ति। तेषु रघुवंशं कुमारसंभवं चेति द्वे महाकाव्ये स्तः। मेघदूतं ऋतुसंहारं चेति द्वे खण्डकाव्ये स्तः। मालविकाग्निमित्रं विक्रमोर्वशीयं अभिज्ञानशाकुन्तलं चेति त्रीणि नाटकानि सन्ति। संस्कृतनाटकेषु 'अभिज्ञानशाकुन्तलम्' तु प्रसिद्धतमं नाटकं वर्तते। वैदर्भीरीतिप्रयोगे तथा उपमाक्षेत्रे तु कालिदासः अद्वितीयः कविरस्ति। संस्कृतसाहित्ये 'उपमा कालिदासस्य' इति उक्तिः प्रसिद्धा वर्तते। कालिदासस्य ग्रन्थेषु कलापक्षः भावपक्षश्च वैशिष्ट्यपूर्णं वर्तते। विश्वसाहित्ये कालिदासविरचितसाहित्यस्य प्रमुखं स्थानं विद्यते।
In simple words: कालिदासः एकः महान् कविः अस्ति। तेन सप्त ग्रन्थाः रचिताः, येषु 'अभिज्ञानशाकुन्तलम्' प्रसिद्धं नाटकम्। तेषां कृतयः विश्वे बहुमान्याः सन्ति।
🎯 Exam Tip: When describing a personality, ensure to include their key achievements, famous works, and specific qualities that make them stand out. Use accurate names and titles.
Question 3. प्रदत्त संकेतानुसारं वर्णनं लिखत: 3. संकेतपदानि: (अभ्यासार्थ) अस्माकं, मातृभूमौ, स्मरिष्यति, अत्र, मधुरतराणि, परमेश्वराः, नानाविधानि, जन्मभूमिश्च
Answer: अस्माकं मातृभूमिः वीराणां विदुषां शूराणां च भूमिः अस्ति। अस्माकं मातृभूमौ गङ्गायमुनाप्रभृतयः देवनद्यः प्रवहन्ति। अत्र मधुरतराणि विविधानी फलानि सन्ति। अत्रत्यं प्राकृतिकसौन्दर्यं सर्वेषां मनांसि मोहयति। विविधतायां एकता अस्याः प्रमुखा विशेषता अस्ति। अस्माकं मातृभूमौ अनेके परमेश्वराः अवतरिताः। अत्र नानाविधानि रमणीयस्थलानि सन्ति। ज्ञानविज्ञाने इयं भूमिः विश्वगुरुः इति कथ्यते। वस्तुतः इयं भूमिः शस्यश्यामला, धनधान्यैः पूर्णा, वीरप्रसूता चास्ति। अस्याः महत्त्वविषये सत्यमेव कथितम्- "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।” मातृभूमिः सदैव वन्दनीया अस्ति।
In simple words: अस्माकं मातृभूमिः वीराणां भूमिः अस्ति। अत्र अनेकाः नद्यः प्रवहन्ति, सुन्दरानि फलानि च सन्ति। अस्याः प्राकृतिकं सौन्दर्यं मनोहारी अस्ति।
🎯 Exam Tip: To describe 'Matrubhumi' (Motherland), focus on its natural beauty, historical significance, cultural richness, and the contributions of its people. Always include famous quotes related to the topic if applicable.
अन्यमहत्त्वपूर्ण संकेताधारितम् वर्णनम्
Question. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: सत्सङ्गते महत्त्वम्
Answer: सतां सज्जनानां वा सङ्गतिः सत्सङ्गतिः कथ्यते। सत्सङ्गते मानवजीवने अतिमहत्त्वं वर्तते। सत्सङ्गत्या मानवः सर्वत्र यशः सुखं च प्राप्नोति। तस्य बुद्धिः निपुणा भवति, मनः पवित्रं जायते। मानवः यादृशैः जनैः सङ्गतिं करोति, सः तादृश एव भवति। सज्जनैः सह सङ्गत्या सज्जनः तथा असज्जनैः सह सङ्गत्या असज्जनः जायते। सज्जनानां सङ्गत्या मानवः सर्वत्र पूज्यः भवति तथा आदरं विद्याकीर्तिश्च लभते। कुसंगत्या मानवस्य पतनं विनाशं च भवति। अतः जनैः सर्वदा सत्सङ्गतिः करणीया। सत्सङ्गतिः जीवनस्य आधारः अस्ति।
In simple words: सज्जनैः सह मित्रता सत्सङ्गतिः कथ्यते। एषा मानवस्य सुखाय यशसे च लाभप्रदा भवति। दुर्जनैः सह सङ्गतिः पतनं करोति।
🎯 Exam Tip: For topics like 'Satsangati', define the term, explain its importance, describe its positive and negative effects (through contrast), and conclude with a strong recommendation.
Question 2. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 2. संकेतपदानि: संस्कृत भाषा, प्राचीनतमा, शुद्धं, संस्कृतम्, संस्कृतिः संस्कृते, वेदाः भारतस्य, जननी, भाषा, सरला, सङ्गणकस्य, विज्ञानम्, ज्ञानम्, वयं, संस्कृत, संस्कृतेन, कुरु
Answer: संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वर्तते। इयं भाषा सर्वासां भाषाणां जननी वर्तते। संस्कृतभाषायां भारतस्य प्राचीनग्रन्थाः चत्वारो वेदाश्च सन्ति। इयं सरला शुद्धा सुसंस्कृतं च भाषा अस्ति। अस्माकं सर्वमपि ज्ञानं विज्ञानं च संस्कृते एव निहितमस्ति। भारतीयसंस्कृतिः संस्कृतभाषायामेव दृश्यते। सङ्गणकस्य कृते संस्कृतभाषा एवं सर्वोत्तमा वर्तते। वयं संस्कृतेनैव भारतीयसंस्कृतेः स्वरूपस्य ज्ञानं प्राप्तुं शक्नुमः। इयं भाषा अस्माभिः भारतीयैः रक्षणीया पठनीया संवर्द्धनीया च। संस्कृतं केवलं भाषा न अपितु ज्ञानस्य स्रोतम् अस्ति।
In simple words: संस्कृतभाषा विश्वस्य प्राचीनतमा जननीभाषा अस्ति। अत्र वेदाः विज्ञानं च सन्ति। एषा भारतीयसंस्कृतेः आधारः अस्ति।
🎯 Exam Tip: When describing the importance of Sanskrit, emphasize its antiquity, its role as a mother language, its connection to ancient texts like the Vedas, and its relevance to modern fields like computer science.
Question 3. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 3. संकेतपदानि: विनयगुणः, प्रधानः, विनयवान्, सर्वेषां, प्रेमास्पदं, विनयरहितः, अनादृतः, विनयी, प्रतिष्ठा, प्राप्नोति, मानवस्य, महद्भूषणम्, विनयवतः कोऽपि शत्रुः न, शान्त्यै, समृद्धये, विनयस्य महती, आवश्यकता
Answer: विनयगुणः सर्वेषु गुणेषु प्रधानः वर्तते। संसारे विनयवान् जनः सर्वेषां कृते प्रेमास्पदं भवति। सर्वे जनाः तस्य आदरं कुर्वन्ति। विनयरहितः तु सर्वत्र अनादृतः भवति। विनयी एव संसारे प्रतिष्ठां प्राप्नोति। वस्तुतः मानवस्य विनयगुणः एव वास्तविकं महद्भूषणं भवति। विनयवतः कोऽपि शत्रुः न भवति। सर्वे जनाः तेन सह मित्रतायुक्तं व्यवहरन्ति। मानव-जीवने सुख-शान्त्यै, समृद्धये च विनयस्य महती आवश्यकता वर्तते। विनयः सर्वदा शान्तिं ददाति।
In simple words: विनयः महत्त्वपूर्णः गुणः अस्ति। विनयी जनः सर्वैः प्रियः भवति, सम्मानं च लभते। विनयः सुख-शान्तिं ददाति।
🎯 Exam Tip: To describe a virtue like 'Vinayaguna' (humility), explain its definition, list its benefits, contrast it with its opposite (arrogance), and highlight its necessity for personal and social well-being.
Question 4. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: प्रातःकालम्
Answer: प्रातःकालम् अतीव रमणीयं भवति। प्रातःकालस्य दृश्यं मनोहारी स्वास्थ्यवर्धकं च भवति। प्रातःकाले वातावरणं नितान्तं विशुद्धं शान्तं च भवति। प्रातःकाले शीतलवायुः मन्दं मन्दं प्रवहति। प्रातः सूर्योदयः भवति। सः कालः अतीव रम्यः भवति यदा सूर्योदयः भवति। तदा सर्वत्र प्रकाशः जायते। उद्यानेषु विविधानि पुष्पाणि विकसन्ति। तेषु मधुरं भ्रमरगुञ्जनम् अतीव मनोहारि भवति। प्रातःकाले खगाः गीतं गायन्ति। प्रातः उद्यानेषु भ्रमणं स्वास्थ्यवर्धकम् अतीव हितकरं च भवति। प्रातःकाले केचन जनाः व्यायामं, केचन क्रीडनं केचन च स्व-स्व-कार्यं कुर्वन्ति। प्रातःकालस्य शुद्धवायुः मनसे शान्तिं ददाति।
In simple words: प्रातःकालः बहु सुन्दरः स्वास्थ्यकरः च भवति। वायुः निर्मला भवति, पुष्पाणि विकसन्ति च। जनाः व्यायामादिकं कुर्वन्ति।
🎯 Exam Tip: Describe the sights, sounds, and feelings associated with morning. Emphasize its refreshing and health-benefiting aspects using vivid descriptive words.
Question 5. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 5. संकेतपदानि: भारते उत्सवाः द्विविधाः, राष्टियाः, अगस्तमासस्य, देशः स्वतन्त्रः, देशेउत्सवाः जनवरी मासस्य, राष्यिा. ॥ः उत्सवाः, संस्कृतज्ञाः संस्कृतोत्सवः, अस्माभिः संस्कृतकार्यक्रमेषु, विदुषां, संस्कृतञ्चैव संस्कृतिः
Answer: राष्ट्रियाः उत्सवाः भारते उत्सवाः द्विविधाः भवन्ति-राष्ट्रियाः लौकिकाश्च। राष्ट्रियोत्सवेषु स्वतन्त्रता-दिवसः, गणतन्त्रदिवसश्च प्रमुखौ वर्तते। 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः सञ्जातः। अस्मिन् दिने प्रतिवर्षं स्वतन्त्रता-दिवसस्य उत्सवः सम्पूर्णभारतदेशे आयोज्यते। एवमेव जनवरी-मासस्य षड्विंशतिः दिनाङ्के गणतन्त्रदिवसस्य उत्सवः भवति। अन्येऽपि अनेके राष्ट्रियः उत्सवाः सन्ति। रक्षाबन्धनदिवसे संस्कृतज्ञाः संस्कृतोत्सवस्य आयोजनं कुर्वन्ति। अस्माभिः संस्कृतकार्यक्रमेषु सोत्साहं भागं गृह्यते। अस्मिन् दिवसे संस्कृतस्य विदुषां सम्मानमपि भवति। वस्तुतः संस्कृतञ्चैव संस्कृतिः वर्तते। राष्ट्रियाः उत्सवाः देशप्रेमं वर्धयन्ति।
In simple words: भारते द्विविधाः उत्सवाः सन्ति - राष्ट्रियाः लौकिकाश्च। स्वतन्त्रता-दिवसः गणतन्त्रदिवसश्च प्रमुखौ राष्ट्रीयोत्सवौ स्तः। एते उत्सवाः देशे एकतां जनयन्ति।
🎯 Exam Tip: When discussing national festivals, mention their types, key examples, and their historical significance. Also, highlight their role in fostering unity and culture.
Question 6. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 6. संकेतपदानि: यत् परितः, पर्यावरणम्, साकं मानवजीवनस्य, प्रकृत्याः वर्तमानकाले सुखस्वरूपा, सुखशान्तियुता अस्ति, वृक्षलतागुल्मवायुजलजीवाः, दुर्लभाः विलुप्यन्ते, अस्माभिः, विषपानं, ऊष्मा, आप्नोति, दुःखमयं सञ्जातम्, पर्यावरणस्य, भूयः भूयः, पर्यावरणदिवसः, प्रवर्धमाना मानवसभ्यतायाः, वर्तते।
Answer: पर्यावरण-संरक्षणम् यत् परितः अस्ति, तत् पर्यावरणम् इति कथ्यते। मानवजीवनस्य साकं प्रकृत्याः महत्त्वपूर्णं सम्बन्धः अस्ति। वर्तमानकाले प्रकृत्याः सुखस्वरूपा, सुखशान्तियुता अस्ति। परन्तु प्रवर्धमाना मानवसभ्यतायाः कारणेन वृक्षलतागुल्मवायुजलजीवाः दुर्लभाः विलुप्यन्ते च। अस्माभिः विषपानं कृतम् अस्ति। ऊष्मा अपि वर्धते, येन जीवनं दुःखमयं सञ्जातम्। पर्यावरणस्य रक्षणं बहु आवश्यकम् अस्ति। प्रतिवर्षं पर्यावरणदिवसः आचर्यते। पर्यावरणस्य सन्तुलनं मानवजीवनस्य कृते परमावश्यकम् अस्ति।
In simple words: यत् परितः अस्ति तत् पर्यावरणम् इति कथ्यते। मानवसभ्यतायाः कारणेन पर्यावरणं प्रदूषितं भवति। अतः पर्यावरणस्य संरक्षणं कर्तव्यम्।
🎯 Exam Tip: Explain the meaning of environment, its importance for human life, the threats it faces due to human activities, and the necessity of its conservation.
Question 7. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 7. संकेतपदानि: जगति सत्यस्य आवश्यकता, सत्येनैव, सत्यभाषणेन, अभ्युदयः सत्यमाश्रयति, सफलं भवति, समाजस्य देशस्य, सत्यात् परोधर्मः, पातकं परम्, सत्यपालनार्थमेव, भारतस्य, सत्यमेव जयते।।
Answer: सत्यमेव जयते। जगति सत्यस्य अत्यधिकं आवश्यकता भवति। सत्येनैव संसारस्य स्थितिः वर्तते। सत्यभाषणेन मनः पवित्रं भवति। जनानां सकलः अभ्युदयः सत्यम् आश्रयति। सत्येन एव मानवजीवनं सफलं भवति। सत्यमेव समाजस्य देशस्य च आधारः अस्ति। सत्यात् परो धर्मः न वर्तते। असत्यं पातकं परं मन्यते। सत्यपालनार्थमेव राजा दशरथः स्वप्राणान् अत्यजत्। भारतस्य विश्वे या प्रतिष्ठा वर्तते, सा सत्याधारेणैव अस्ति। वस्तुतः सत्यमेव जयते नानृतम्। सत्यं सर्वदा विजयी भवति।
In simple words: सत्यं जगति आवश्यकम् अस्ति। सत्येनैव संसारः तिष्ठति, मनः पवित्रं च भवति। सत्यात् परः धर्मः नास्ति।
🎯 Exam Tip: Highlight the universal importance of truth. Explain its impact on individuals, society, and nations, citing examples or famous sayings to support the argument.
Question 8. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 8. संकेतपदानि: शिक्षाक्षेत्रे संगणकाना, शिक्षणे उपयोगः, परीक्षा-कार्येषु, पुस्तकादिप्रकाशनेऽपि, कम्प्यूटर-माध्यमेन, आदर्श चित्रं सारल्येन, व्यापारक्षेत्रे, वित्तीय-संस्थानां कृते, यत् किंचिद् ज्ञानम्, माध्यमेन विधीयते
Answer: संगणकम् आधुनिकयुगे न केवलं शिक्षाक्षेत्रे अपितु सर्वेषु क्षेत्रेषु बहुमहत्त्वं वर्तते। शिक्षणे, परीक्षा-कार्येषु, पुस्तकादिप्रकाशनेऽपि च संगणकयन्त्रस्य अतीव उपयोगः भवति। आङ्गलभाषायाम् अस्य कृते कम्प्यूटर इति शब्दः अस्ति। कम्प्यूटरमाध्यमेन आदर्शचित्रं सारल्येन निर्मातुं शक्यते। व्यापारक्षेत्रे वित्तीयसंस्थानां कृते च संगणकयन्त्रस्य बहूपयोगः दृश्यते। अधुना वयं यत् किंचिद् ज्ञानं प्राप्नुमः तत् सर्वमेव संगणकमाध्यमेन विधीयते। संगणकः जीवनस्य प्रत्येकं क्षेत्रे क्रान्तिम् आनयति।
In simple words: संगणकम् आधुनिके युगे महत्त्वपूर्णं साधनम् अस्ति। शिक्षा-परीक्षादिषु व्यापार-वित्तीयक्षेत्रेषु च अस्य उपयोगः भवति।
🎯 Exam Tip: Focus on the versatile applications of computers across various sectors. Mention specific examples like education, business, and daily knowledge acquisition.
Question 9. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 9. संकेतपदानि: मानवजीवनस्य, विज्ञानस्य, आविष्कारेण, प्रभावितः, युवा, युवतिः, यापयितुं न शक्नोति, ग्रामेष्वपि, साधनं, ज्ञानवर्द्धकम्, विविधकार्यक्रमाः, लोकसभायाः, राज्यसभायाः, बौद्धिकविकासाय।।
Answer: दूरदर्शनम् अधुना मानवजीवनस्य अभिन्नम् अङ्गं वर्तते। दूरदर्शने प्रातःकालादारभ्य मध्यरात्रिं यावत् विविधकार्यक्रमाः चलन्ति। वर्तमानसमये न केवलं संगीतानि अपितु भजनानि, विविधधारावाहिकाश्च वयं दूरदर्शने पश्यामः। लोकसभायाः राज्यसभायाश्च कार्यक्रमाणां प्रसारोऽपि दूरदर्शने वयं पश्यामः। एवं युवकयुवतीनां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते। अस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः। दूरदर्शनं शिक्षायाः मनोरञ्जनस्य च उत्तमं साधनम् अस्ति।
In simple words: दूरदर्शनं मानवजीवनस्य महत्त्वपूर्णं भागः अस्ति। एतत् विविधकार्यक्रमान् दर्शयति, शिक्षां च ददाति। युवकानां विकासाय अपि उपयोगी अस्ति।
🎯 Exam Tip: Explain the role of television (Doordarshan) in modern life, highlighting its entertainment, educational, and informational value, and its impact on intellectual development.
Question 10. प्रश्नः-प्रdत्तसंकेतानुसारं वर्णनं लिखत: 10. संकेतपदानि: सताम् आचारः, सज्जनाः, आचरन्ति, सर्वैः, व्यवहार, विनयः, अक्रोधः, क्षमा, सद्गुणाः, सत्तयैव, उन्नतिं, देशस्य, राष्ट्रस्य, जनस्य, महती आवश्यकता, ब्रह्मचारिणो, शरीरं परिपुष्टं बुद्धिः वर्धते
Answer: सदाचारः। सताम् आचारः सदाचारः इति कथ्यते। सज्जनाः यथा आचरन्ति तथैव आचरणं सदाचारो भवति। ते सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति। तेषु सत्याचरणं, वाक्संयमः, विनयः, अक्रोधः, क्षमा, धर्माचरणमित्यादयः सद्गुणाः दृश्यन्ते। सदाचारस्य सत्त्वेनैव संसारे जनः उन्नतिं करोति। देशस्य, राष्ट्रस्य, समाजस्य, जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति। सदाचारेणैव शरीरं परिपुष्टं भवति, सदाचारेण बुद्धिः वर्धते। सदाचारः समाजस्य स्तम्भः अस्ति।
In simple words: सदाचारः सज्जनानां व्यवहारः अस्ति। एतत् सत्यं, विनयम्, अक्रोधं च धारयति। सदाचारः देशस्य, समाजस्य, जनस्य च उन्नत्यै आवश्यकः अस्ति।
🎯 Exam Tip: Define good conduct (Sadachar), list its virtues, and explain how it leads to individual and societal progress. Emphasize its role in character building.
Question 11. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 11. संकेतपदानि: मेवाडराज्यं, शूराणां जन्मभूमिः, राजा, सिंहासनम् आरूढवान्, हस्तच्युतानां, प्रतिप्राप्तिः, विचिन्त्य, पुरप्रमुखाणां सभाम्, प्रतिज्ञां, सुवर्णपात्रे, राजप्रासादे, वासं न करिष्यामि, मृदुतल्पे शयनम्, अवदन्, त्यक्ष्यामः, दास्यामिः, सैन्यं।
Answer: राणाप्रतापः मेवाडराज्यं बहूनां शूराणां जन्मभूमिः अस्ति। तस्य राजा राणाप्रतापः सिंहासनम् आरूढवान्। 'हस्तच्युतानां भागानां प्रतिप्राप्तिः कथम्?' इति विचिन्त्य सः पुरप्रमुखाणां सभाम् आयोजितवान्। तत्र सः प्रतिज्ञां कृतवान्- 'चित्तौड़स्थानं यावत् न प्रतिप्राप्स्यामि तावत् सुवर्णपात्रे भोजनं न करिष्यामि, राजप्रासादे वासं न करिष्यामि, मृदुतल्पे शयनम् अपि न करिष्यामि।' इति। तदा पुरप्रमुखाः अवदन्- 'वयम् अपि सुखसाधनानि त्यक्ष्यामः। देशाय यथाशक्ति धनं दास्यामः। अस्मत्पुत्रान् सैन्यं प्रति प्रेषयिष्यामः' इति। राणाप्रतापस्य प्रतिज्ञा देशप्रेमस्य प्रतीकम् अस्ति।
In simple words: राणाप्रतापः मेवाडस्य राजा आसीत्। तेन स्वराज्यं पुन प्राप्तुं प्रतिज्ञा कृता। तेन प्रतिज्ञा कृता यत् सः सुखसुविधाः त्यक्ष्यति यावत् राज्यं न प्राप्नोति।
🎯 Exam Tip: When narrating historical events or figures, include key details like the region, the person's role, their significant actions or vows, and the impact of their decisions. Use direct quotes if available and relevant.
Question 12. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: दीपावली-महोत्सवः
Answer: दीपावली-महोत्सवः अस्माकं राष्ट्रियोत्सवः वर्तते। अस्मिन् उत्सवे सर्वे जनाः परस्परं भेदभावं विस्मृत्य आनन्दमग्नाः भवन्ति। श्रीरामः वनात् अस्मिन् एव दिने सीतालक्ष्मणाभ्यां सह अयोध्यां प्रत्यावर्तितवान्। तान् स्वागतं व्याहर्तुम् अयोध्यावासिनः नगरे सर्वत्र दीपान् प्रज्वलितवन्तः। तदा आरभ्य अद्यावधि प्रतिवर्षं कार्त्तिकमासे अमावस्यायां तिथौ भारते दीपावली-महोत्सवः महता उत्साहेन आयोज्यते। दीपावल्यां जनाः गृहाणि परिष्कुर्वन्ति। अस्मिन् अवसरे ते स्वमित्रेभ्यः बन्धुभ्यश्च उपहारान् यच्छन्ति, परस्परम् अभिनन्दन्ति च। बालकेभ्यः मिष्टान्नं यच्छन्ति, पितरः स्वसन्ततिभ्यः स्फोटनकानि ददति। अस्मिन् महोत्सवे सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभेच्छाः प्रकटयन्ति। दीपावली महोत्सवः सर्वेभ्यः आनन्दं ददाति।
In simple words: दीपावली भारतस्य प्रमुखः उत्सवः अस्ति। श्रीरामस्य प्रत्यागमनेन एषः आरब्धः। जनाः गृहाणि स्वच्छीकुर्वन्ति, उपहारान् ददति च।
🎯 Exam Tip: Describe the cultural and religious significance of the festival, including its origin story, the way it is celebrated, and the emotions it evokes. Mention key traditions like cleaning, exchanging gifts, and lighting lamps.
Question 13. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 13. संकेतपदानि: संसारे एकतायाः, कलियुगे, संहतिः, सामाजिकं राष्ट्रियं च, निर्माणाय रक्षणाय, अभावः, सद्य एव परमावश्यकम्, अद्यत्वे. परतन्त्रतापाशबद्धं, अनया, सहयोगेन, विच्छिन्नं, गान्धिमहोदयेन, देशभक्तैः, छेदनं विहितम्, राष्ट्र, स्वोन्नतिं विदधाति।
Answer: एकतायाः महत्त्वम्। संसारे एकतायाः अतीव आवश्यकता वर्तते, विशेषतः कलियुगेऽस्मिन्। संहतिः कार्यसाधिका यतो हि। वर्तमाने काले यादृशं सामाजिकं राष्ट्रियं च जीवनमस्ति, तस्य निर्माणाय रक्षणाय च संगठनं परमावश्यकम्। अद्यत्वे संसारे यस्मिन् राष्ट्रे एकतायाः अभावोऽस्ति, तत् राष्ट्रं सद्य एव परतन्त्रतापाशबद्धं भवति। अस्माकं देशस्य पारतन्त्र्यम् अनया एव एकतया सहयोगेन वा विच्छिन्नं जातम्। महात्मना गान्धिमहोदयेन तथैवान्यैश्च देशभक्तैः भारतीयसमाजे सर्वत्र एकत्वभावनोदयेन पराधीनतापाशस्य छेदनं विहितम्। अधुना लोकतन्त्रात्मकस्माकं राष्ट्रं संघटनबलेनैव स्वोन्नतिं विदधाति। एकता राष्ट्रस्य शक्तिः अस्ति।
In simple words: संसारे एकतायाः महत्त्वं बहु अस्ति। एकतया एव समाजः राष्ट्रं च सुरक्षितं भवति। एकता विना राष्ट्रं परतन्त्रं भवति।
🎯 Exam Tip: Emphasize unity's role in society and nation-building. Explain how it helps overcome challenges and achieve progress, possibly citing historical examples like India's freedom struggle.
Question 14. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 14. श्रमस्य महत्त्वम्
Answer: श्रमस्य महत्त्वम्। मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्ति। मानवः श्रमम् आश्रित्यैव सुखसमृद्धिं प्राप्नोति। जनः सुखं वाञ्छति, मनोरथं कर्त्तव्यः। श्रमः एव स्वाभिमानं, शारीरिक-शक्तिं, दक्षतां च आपादयति। श्रममेव साफल्यं मिलति। कर्तव्यः सम्पत्तेः उद्भवः। प्रज्ञाः तुर्येऽपि वयसि न त्यजेयुः। वसुन्धरा उन्नतये। श्रमः एव जीवने सफलतां ददाति।
In simple words: मानवजीवने श्रमस्य महत्त्वं बहु अस्ति। श्रमं विना सुखं समृद्धिं च न लभ्यते। श्रमः एव स्वाभिमानं, शक्तिं, सफलतां च ददाति।
🎯 Exam Tip: Highlight the fundamental role of labor in human life. Explain how hard work leads to success, prosperity, self-reliance, and physical strength, emphasizing its universal importance.
Question 15. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 15. संकेतपदानि: पुण्यः, भौगोलिकदृष्ट्या, सांस्कृतिकदृष्ट्या, महत्त्वपूर्ण स्थानं, भारतीयसंस्कृतिः विश्ववन्द्याः, सर्वग्राह्याः, सम्प्रदायानां, देवानाम्, 'भिन्नत्वे एकत्वम्', वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्र, वन्दनीयः, सुखदा, रत्नाकरत्वं, वृणीते।।
Answer: भारतदेशस्य महत्त्वम्। पुण्योऽस्माकं देशः भारतवर्षः न केवलं भौगोलिकदृष्ट्या अपितु सांस्कृतिकदृष्ट्या अपि अस्य देशस्य महत्त्वपूर्णं स्थानं वर्तते। विश्वेऽस्मिन् भारतीयसंस्कृतिः विश्ववन्द्याः, सर्वग्राह्या च अस्ति। भारतदेशे विभिन्नसम्प्रदायानां विविधभाषाणाम्, अनेकदेवानाम्, भिन्नभिन्नानां दर्शनानां च प्रचारः प्रचलत्येव। तथापि भारतीयानां भिन्नत्वे एकत्वमिति' कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते। भारतदेशः विश्वस्य सर्वोत्कृष्टं वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्रं वर्तते। अत्र देवस्वरूपः हिमालयः मुकुटमणिरिव शोभते। भारते मधुरजलयुक्ताः गङ्गायमुनासरयूकृष्णादयः नद्यः वहन्ति। अयं देशः नानातीर्थैः रमणीयः, मुनिजनदेवैः च वन्दनीयोऽस्ति। भारतस्य भूमिः अध्यात्ममयी, गौरवपूर्णा, शान्तिवहा, सुखदा, शस्यश्यामला, हिरण्यरूपा, अतिकमनीया चास्ति। रत्नाकरोऽपि स्वस्य रत्नाकरत्वं पुनरपि प्राप्तुं। भारतं विश्वे शान्तेः प्रतीकम् अस्ति।
In simple words: भारतं पुण्यं, भौगोलिक-सांस्कृतिकदृष्ट्या च महत्त्वपूर्णं राष्ट्रम् अस्ति। अत्र 'भिन्नत्वे एकत्वम्' अस्ति। हिमालयः नद्यः च अस्य शोभां वर्धयन्ति।
🎯 Exam Tip: To describe the importance of India, highlight its unique geographical features, rich cultural heritage, spiritual significance, and democratic values. Mention its diversity and unity.
Question 16. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 16. अस्माकं पुस्तकालयः
Answer: अस्माकं पुस्तकालयः। मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्णं स्थानं वर्तते। पुस्तकालयेषु विविधपुस्तकानां सङ्ग्रहो भवति। अत्र विविधभाषाणां पत्रपत्रिकादयोऽपि प्रतिदिनं आयान्ति। अस्माकं पुस्तकालयः नगरस्य रमणीये स्थाने वर्तते। अस्मिन् दशसहस्राणि पुस्तकानि सन्ति। अस्माकं पुस्तकालये हिन्दी-आंग्लसंस्कृतभाषाणां पत्र-पत्रिकाः प्रतिदिनं आयान्ति। अस्य समीपे एकः वाचनालयः वर्तते, यत्र बहवः जनाः, छात्राः, युवतयश्च प्रतिदिनं आगत्य स्वाध्यायं कुर्वन्ति। पुस्तकालयः ज्ञानस्य मन्दिरम् अस्ति।
In simple words: पुस्तकालयः ज्ञानं वर्धयति। अत्र अनेकानि पुस्तकानि पत्रपत्रिकाः च सन्ति। छात्राः जनाः च अत्र पठनाय आगच्छन्ति।
🎯 Exam Tip: When describing a library, focus on its purpose (knowledge and intellectual development), the variety of resources it offers, and its utility for different sections of society like students and adults.
Question 17. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 17. संकेतपदानि: भूमिः वीराणां, वीरांगनानाम्, जननी, महाराणा प्रतापः, सांगा, दुर्गादास, अत्रैव पमिनी पन्ना, समुत्पन्नाः, देशसेवायां तत्पराः, विदुषां जन्मस्थली कार्यस्थली, विद्वान्सः, जयपुरं, लघुकाशी, विविधखनिजद्रव्याणि, संगमरमर पाषाणस्य, प्रसिद्धिः, ताम्रोत्पादने, प्रमुखः, ताम्रनिधिः।
Answer: राजस्थान-प्रदेशः। राजस्थानप्रदेशस्य भूमिः वीराणां वीराङ्गनानां च जननी वर्तते। अत्र महाराणा प्रतापः, महाराणा सांगा-वीरवर दुर्गादास सदृशाः वीराः समुत्पन्नाः। अत्रैव पमिनी पन्ना सदृश्यः वीराङ्गनाः समुत्पन्नाः। अद्यापि राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः वर्तन्ते। अयं प्रदेशः न केवलं वीराणां भूमिः अपितु विदुषां जन्मस्थली कार्यस्थली च वर्तते। अत्र अनेके विद्वान्सः काले-काले समुत्पन्नाः। राजस्थानस्य राजधानी जयपुरं तु लघुकाशी मन्यते। अत्र संस्कृतस्य अनेके विद्वान्सः अभवन्। राजस्थानप्रदेशे विविधखनिजद्रव्याणि प्राप्यन्ते। अत्रत्य 'संगमरमर' इत्याख्यस्य पाषाणस्य तु प्रसिद्धिः सर्वत्र वर्तते। ताम्रोत्पादनेऽपि राजस्थानप्रान्तो देशस्य प्रमुखः ताम्रनिधिः। राजस्थानं वीरतायाः प्रतीकं अस्ति।
In simple words: राजस्थानं वीराणां वीराङ्गनानां च भूमिः अस्ति। अत्र महाराणा प्रतापः दुर्गादासः च प्रसिद्धौ स्तः। जयपुरं लघुकाशी इति ज्ञायते। अत्र खनिजाः संगमरमरपाषाणश्च प्रसिद्धौ स्तः।
🎯 Exam Tip: When describing a state or region, include its historical significance, famous personalities, major cities, natural resources, and cultural identity. Emphasize what makes it unique.
Question 18. प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत: 18. संकेतपदानि: देशाटनस्य, गुणाः, नानादेशजलवायुप्रभावेण, स्वास्थ्यलाभो, कलाकौशल, नागरिकाः, पर्यटनप्रियाः, ब्रिटिशशासनकाले, रुचिं नोत्साहयन्ति स्म, प्रेरणां विना, परतन्त्राः, आपद्यते, प्रोत्साहयेयुः, अमरीका, देशेषु, गताः, स्वदेशमागत्य, ज्ञानेन, उन्नमयिष्यन्ति।
Answer: देशाटनस्य महत्त्वम्। देशाटनस्य बहवो गुणाः भवन्ति। नानादेशजलवायुप्रभावेणास्माकं स्वास्थ्यलाभो भवति। देशान्तरकला-कौशलज्ञानेन वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः। अधिकोन्नतस्य देशस्य नागरिकाः प्रायः पर्यटनप्रियाः भवन्ति। ब्रिटिशशासनकाले शासकाः भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्म। भारतीयाश्च प्रेरणां विना न किमपि कुर्वन्तीति सर्वविदितम्। परमधुना न वयं परतन्त्राः, अतः शासकानामेतत् कर्तव्यम् आपद्यते यत्ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुः। अधुना बहवो भारतीयाश्छात्रा अमरीका-इङ्गलैण्डरूसप्रभृतिदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति। स्वदेशमागत्य ते स्वोपार्जितज्ञानेन देशम् अवश्यमेवोन्नमयिष्यन्तीति जानीमः। पर्यटनं मनसे नवीनताम् ददाति।
In simple words: देशाटनस्य बहवो गुणाः सन्ति। एतत् स्वास्थ्यं, ज्ञानं, कलाकौशलं च वर्धयति। पर्यटनं देशस्य प्रगतिं च करोति।
🎯 Exam Tip: Discuss the multi-faceted benefits of travel, including health, cultural exchange, skill development, and national progress. Compare historical attitudes towards travel with modern ones.
Free study material for Sanskrit
RBSE Solutions Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम्
Students can now access the RBSE Solutions for रचनाकार्यम् सङ्केताधारित-वर्णनम् prepared by teachers on our website. These solutions cover all questions in exercise in your Class 12 Sanskrit textbook. Each answer is updated based on the current academic session as per the latest RBSE syllabus.
Detailed Explanations for रचनाकार्यम् सङ्केताधारित-वर्णनम्
Our expert teachers have provided step-by-step explanations for all the difficult questions in the Class 12 Sanskrit chapter. Along with the final answers, we have also explained the concept behind it to help you build stronger understanding of each topic. This will be really helpful for Class 12 students who want to understand both theoretical and practical questions. By studying these RBSE Questions and Answers your basic concepts will improve a lot.
Benefits of using Sanskrit Class 12 Solved Papers
Using our Sanskrit solutions regularly students will be able to improve their logical thinking and problem-solving speed. These Class 12 solutions are a guide for self-study and homework assistance. Along with the chapter-wise solutions, you should also refer to our Revision Notes and Sample Papers for रचनाकार्यम् सङ्केताधारित-वर्णनम् to get a complete preparation experience.
FAQs
The complete and updated RBSE Solutions Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् is available for free on StudiesToday.com. These solutions for Class 12 Sanskrit are as per latest RBSE curriculum.
Yes, our experts have revised the RBSE Solutions Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.
Toppers recommend using RBSE language because RBSE marking schemes are strictly based on textbook definitions. Our RBSE Solutions Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् will help students to get full marks in the theory paper.
Yes, we provide bilingual support for Class 12 Sanskrit. You can access RBSE Solutions Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् in both English and Hindi medium.
Yes, you can download the entire RBSE Solutions Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम् in printable PDF format for offline study on any device.