Solutions for Class 12 Sanskrit: Essay writing (Nibandh Lekhan)
Review structured textbook solutions for Class 12 Sanskrit Essay writing (Nibandh Lekhan). Built according to Haryana Board guidelines for the 2026-27 academic year, these downloadable answers support daily revision and problem-solving accuracy.
Practice Class 12 Sanskrit Solutions: Essay writing (Nibandh Lekhan)
Access the complete solution PDF for Class 12 Sanskrit below. Regular practice with these targeted textbook answers builds familiarity with standard question patterns and helps secure higher marks in final school evaluations.
निबन्धलेखनम्
Question 1: अनुशासनम्
Answer:
नियमपालनम् आज्ञापालनं वा अनुशासनं भवति। अनुशासनं जीवने परमम् आवश्यकम् अस्ति। परिवारे, समाजे, राष्ट्रे च अस्य आवश्यकता वर्तते। अस्य पालनेन उन्नतिः भवति। यत्र अनुशासनं न भवति, तत्र कार्येषु अवनतिः भवति। नियमपालनस्य अभावे जीवनं दुष्करं भवेत्। यथा राजमार्गेषु यातायातनियन्त्रणाय वामतः चलनम् आवश्यकः नियमः वर्तते। यदि अस्य पालनं न भवेत्, तदा अनेकाः दुर्घटनाः भविष्यन्ति। यदि सर्वे जनाः स्वच्छन्दाः स्युः, तदा समाजस्य स्थितिः अस्तव्यस्ता स्यात्।
परिवारे एकः मुख्यः भवति। स एव परिवारे अनुशासनं रक्षति। कस्य किं कार्यं करणीयम् इति परिवारे मुख्यः जनः एव निर्दिशति। यदि सर्वे सदस्याः अनुशासनं पालयन्ति, तदा सर्वाणि कार्याणि सुचारुरूपेण सम्पन्नानि भवन्ति। अस्य अभावे अव्यवस्था भवति। सत्यं कथ्यते—
सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः।
सर्वे महत्त्वमिच्छन्ति तत् कुलमवसीदति॥
अद्य छात्रेषु अनुशासनस्य अभावः अस्ति। ते न गुरोराज्ञां पालयन्ति, न च पित्रोः आदेशं स्वीकुर्वन्ति। अनुशासनाभावे च प्रतिदिनं हट्टतालं कुर्वन्ति। अद्य सर्वत्रैव अनुशासनस्य अभावः एव दृश्यते। भारतीय-राजनीतौ, धार्मिक-सामाजिकसंस्थासु च न कोऽपि अनुशासनम् इच्छति। एवमेव वीथीनां नगरस्य च नियमाः भवन्ति, यथा—सार्वजनिकं स्थानं विकृतं न कुर्यात्, अपशब्दं न वदेत्। नियमानां पालनेन सुविधा भवति, नियमानां भङ्गेन च कलहाः जायन्ते। अतः अनुशासनस्य सर्वस्मिन् क्षेत्रे, विशेषतः छात्रजीवने, महती आवश्यकता वर्तते।
Exam Tips:
a) निबंध में परिवार, समाज और राष्ट्र, तीनों स्तरों पर अनुशासन की आवश्यकता अलग-अलग लिखें।
b) वामपक्ष (बायीं ओर) चलने का उदाहरण यातायात नियम से जोड़ें, यह उदाहरण स्पष्ट लगता है।
c) उद्धृत श्लोक का भाव अपने शब्दों में समझाएँ, इससे उत्तर मौलिक लगता है।
d) समापन में छात्र जीवन में अनुशासन की आवश्यकता पर बल दें।
Question 2: प्रातः काले भ्रमणम्
Answer:
प्रातःकाले सूर्योदयात् पूर्वं जागरणं प्राचीनकालतः एव स्वास्थ्यप्रदं मन्यते। प्रातःकाले वातावरणं शान्तं, शुद्धं, स्वच्छं, प्राणप्रदं, शीतलम् ऊर्जाकरं च भवति। प्रातःकालस्य स्वच्छवायौ भ्रमणेन शरीरं रोगमुक्तं भवति। अथवा यैः रोगैः वयं ग्रस्ताः स्मः, तेभ्यः काचित् अपि रोगमुक्तता अवश्यम् अनुभूयते। बालः स्यात् वृद्धः वा, महिला स्यात् पुरुषः वा, प्रातःभ्रमणं सर्वेभ्यः सञ्जीवनीव जीवनकरं भवति। उत्तमस्वास्थ्याय दीर्घजीवनाय च प्रातःभ्रमणं सर्वथा सरलः सुविधाजनकः च उपायः अस्ति। अस्मिन् उपाये किमपि धनम् अपि न व्ययीक्रियते।
प्रातःकालः सर्वोत्तमः कालः भवति, यतः अस्मिन् काले वायुः शुद्धः, प्रदूषणरहितः, प्राकृतिकसौन्दर्येण परिपूर्णः, सूर्योदयस्य रक्ताभया मनोहारी शान्तिमयः च भवति। अस्मिन् काले भ्रमणात् बहवः लाभाः भवन्ति।
प्रातःकाले नियमित-भ्रमणेन शरीरं हृष्टं पुष्टं बलिष्ठं च भवति। शरीरस्य स्थूलता क्षीयते। रोगप्रतिरोधशक्तिः वर्धते, येन रोगाः प्रायशः आक्रमणं न कुर्वन्ति, यदि कदाचित् आक्रमन्ति अपि, तर्हि तथा अनिष्टकराः न भवन्ति यथा तेभ्यः जनेभ्यः भवन्ति ये प्रातःभ्रमणं न कुर्वन्ति। श्वसनप्रक्रिया रक्तसञ्चारप्रक्रिया च सन्तुलिते सशक्ते च भवतः। येन हृदयरोगः, रक्तचापः, स्नायुरोगः, मधुमेहः इत्यादयः रोगाः प्रायशः न आक्रमन्ते। चिकित्सकाः अपि एतैः पीडितान् रुग्णान् प्रातःभ्रमणाय उपदिशन्ति। प्रातःभ्रमणेन शरीरम् एव स्वस्थं न भवति, मनः अपि स्वस्थं तिष्ठति। प्रातःभ्रमणेन मनुष्यस्य मानसिकक्षमता वर्धते, अतएव सः अनावश्यकमानसिकद्वन्द्वेन मुक्तः तिष्ठति।
किमधिकम्, प्रातःभ्रमणं सर्वेभ्यः सर्वथा स्वास्थ्यकरं दीर्घायुष्यप्रदं च वर्तते। अतः प्रातःभ्रमणं सर्वैः नियमितरूपेण कर्तव्यम्।
Exam Tips:
a) प्रातःभ्रमण के लाभों को शारीरिक और मानसिक, दो भागों में बाँटकर लिखें।
b) "सञ्जीवनी" शब्द का प्रयोग उत्तर को प्रभावी बनाता है, पर अर्थ स्पष्ट करें।
c) निबंध में समय (सूर्योदय से पूर्व) और स्थान (स्वच्छ वायु) दोनों का उल्लेख करें।
d) अंत में नियमितता पर बल देकर निष्कर्ष लिखें।
Question 3: समयस्य सदुपयोगः
Answer:
मनुष्यजीवने समयस्य महत्त्वपूर्णं स्थानं वर्तते। गतः समयः पुनः न आगच्छति, अतः मनुष्यस्य एतत् कर्तव्यं भवति यत् प्राप्तस्य समयस्य सदुपयोगं कुर्यात्। यः जनः समयस्य सदुपयोगं न करोति, तस्य जीवनं नश्यति। मानवस्य उन्नतौ समयस्य सदुपयोगितायाः महत्त्वपूर्णं योगदानं भवति। यतः समयः तु साक्षात् अवसरः एव भवति; यः अवसरं न गणयति, अवसरः अपि तं प्रमादिनं जनं दूरतः एव त्यजति। परिणामतः सः पश्चात्तापात् अन्यत् किमपि हस्तगतं न करोति। अतः समयस्य सदुपयोगः परमावश्यकः।
समयः तु स्वगत्या गच्छति, न सः कस्मैचिदपि तिष्ठति। अतः समयानुसारम् आवश्यकानि उचितानि कार्याणि अवश्यमेव सम्पादनीयानि। एष एव समयस्य सदुपयोगः कथ्यते।
छात्रजीवने एव यः मनुष्यः समयस्य महत्त्वं जानन् तदनुरूपं स्वकार्ययोजनां विधाय परिश्रमं करोति, स एव सुखदं उज्ज्वलं च भविष्यं निर्मातुं शक्नोति। छात्रजीवने यः जनः समयस्य सदुपयोगं न शिक्षते, तस्य भाविजीवनम् अनेकविधसङ्कटमयम्, अस्तव्यस्तं, प्रायः च निष्फलम् एव जायते। अतः विपरीतं यः जनः समयस्य सदुपयोगं करोति, तस्मै सर्वे उन्नतिमार्गाः निर्बाधाः भवन्ति, पदे पदे च विजयः सफलता वा तस्य चरणचुम्बनं करोति। वस्तुतः जीवने सफलतायाः कुञ्चिका समयस्य सदुपयोगिता एव अस्ति। समयस्य सदुपयोगेन कार्यक्षमता वर्धते, मानसिकद्वन्द्वं न जायते, जीवनं च स्वयमेव अनुशासनबद्धं भवति। अनेन प्रकारेण एव मनुष्यः यशस्वी सफलः च भवितुं शक्नोति। अतः छात्रजीवनत एव समयस्य सदुपयोगस्य अभ्यासः करणीयः।
Exam Tips:
a) "गतः समयः पुनः न आगच्छति" जैसी सूक्ति से भूमिका शुरू करने पर उत्तर प्रभावी बनता है।
b) छात्र जीवन का उल्लेख निबंध में अवश्य करें, यही इस विषय का मुख्य बिंदु है।
c) "कार्ययोजना" और "परिश्रम" जैसे शब्द उत्तर को सुसंगठित बनाते हैं।
d) निष्कर्ष में अनुशासन और समय-सदुपयोग का सम्बन्ध जोड़ें।
Question 4: अस्माकं /मम विद्यालयः
Answer:
अस्मिन् देशे बहवः विद्यालयाः सन्ति। यत्र शिक्षकाः छात्रान् विद्यां पाठयन्ति, स एव विद्यालयः अस्ति। ‘विद्यायाः आलयः = विद्यालयः’ भवति। अस्माकं विद्यालयस्य नाम ‘राजकीय उच्चतर माध्यमिक विद्यालयः’ कुरुक्षेत्रम् अस्ति। एतस्य भवनं विशालं सुन्दरं च अस्ति। एतस्मिन् च कुशलाः अध्यापकाः सन्ति। अस्माकं मुख्याध्यापकः सुयोग्यः प्रबन्धकः अस्ति। अध्यापकाः छात्राः च तं सम्मानयन्ति।
अस्माकं विद्यालये पुस्तकालयः अपि अस्ति। अर्धावकाशे वयं तत्र समाचारपत्राणि पठामः। अस्माकं विद्यालये एकः लघुः औषधालयः अस्ति। चिकित्सकः तत्र प्रतिदिनम् आगच्छति।
अस्माकं विद्यालयस्य क्रीडाक्षेत्रं विशालम् अस्ति। तत्र सर्वतः रम्याः वृक्षाः सन्ति। सायंकाले वयं तत्र खेलामः। क्रीडाक्षेत्रे छात्राः विविधाः रोचकाः क्रीडाः च कुर्वन्ति। अस्माकं विद्यालयस्य परीक्षाफलं सदैव श्लाघनीयं भवति। अयं विद्यालयः शतवर्षात् अधिकं देशवासिनां सेवां करोति। एनं विद्यालयं प्राप्य वयं धन्याः स्मः।
Exam Tips:
a) निबंध में विद्यालय का नाम, भवन, पुस्तकालय, औषधालय और क्रीडाक्षेत्र, इन सबका क्रम से वर्णन करें।
b) "विद्यायाः आलयः" जैसी व्युत्पत्ति उत्तर को विशिष्ट बनाती है।
c) अपने विद्यालय के वास्तविक तथ्य (नाम, सुविधाएँ) ही लिखें।
d) अंत में विद्यालय के प्रति कृतज्ञता व्यक्त करके निबंध समाप्त करें।
Question 5: संस्कृतभाषायाः महत्त्वम्
Answer:
संसारे अनेकाः भाषाः सन्ति। तासु भाषासु संस्कृतभाषा सर्वप्राचीना सर्वोत्तमा च अस्ति। इयं भाषा ‘देववाणी’ अपि कथ्यते। इयम् एव प्रायेण सर्वासां भाषाणां जननी अस्ति। भारतस्य सर्वाः एव भाषाः संस्कृतस्य कन्याः सन्ति। विशालम् अस्य साहित्यम्। वेदाः, गीता, रामायणं, महाभारतम् इत्यादयः ग्रन्थाः संस्कृतस्य गौरवं वर्धयन्ति। कालिदास-भास-भवभूति-महाकविभिः रचितानि संस्कृतकाव्यानि समस्ते विश्वे सम्मानितानि सन्ति।
भारतीया संस्कृतिः संस्कृतभाषायाम् एव सुरक्षिता अस्ति। संस्कृतं तु अस्माकं संस्कृतेः आत्मा अस्ति। अस्माकं धर्मः, अस्माकम् इतिहासः, अस्माकं भूतं भविष्यच्च सर्वमपि संस्कृतेन सम्बद्धं वर्तते। अस्माकानि सर्वाणि आदर्शवाक्यानि, यथा ‘सत्यमेव जयते’ तथा ‘अहिंसा परमो धर्मः’, संस्कृतभाषायाम् एव सन्ति। अस्यामेव भाषायाम् अस्माकं सर्वे संस्काराः सम्पन्नाः भवन्ति। संस्कृतम् इति प्राचीना भाषा वर्तते। इयं च हिन्दीभाषायाः प्रमातामही अस्ति। संस्कृतम् इति शब्दस्य अर्थः परिष्कृतं शुद्धम्, सम्यक् प्रकारेण कृतम् इति भवति। देववाणी, गीर्वाणवाणी, देवभाषा एते संस्कृतस्य पर्यायवाचिनः शब्दाः सन्ति। अस्माकं प्राचीनाः ऋषयः मुनयश्च अस्यामेव निजग्रन्थान् अलिखन्। वेदाः, उपनिषदः, स्मृतयः, रामायणं, महाभारतं च संस्कृतभाषायाम् एव सन्ति। गुप्तसाम्राज्यकाले संस्कृतं राज्यभाषा आसीत्। विदेशेषु अद्यापि संस्कृतस्य गौरवं वर्तते। संस्कृतस्य प्रचारेण एव हिन्दीसाहित्यस्य उत्तरोत्तरं वृद्धिः भवति।
इयं भाषा अतिमधुरा सरसा च अस्ति। प्राचीनकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत्। जनाः संस्कृतभाषायाम् एव वार्तालापं कुर्वन्ति स्म। राजकार्याणि अपि संस्कृतभाषायाम् एव भवन्ति स्म। सम्प्रति अस्याः भाषायाः उपेक्षा भवति। केचन जनाः इमां मृतभाषां कथयन्ति, तेषां विचारः अनुचितः। संस्कृतभाषा तु जीवन्तभाषा अस्ति। भारतीयभाषाणां समृद्धिः संस्कृतभाषां विना न भवितुं शक्नोति। इयं वैज्ञानिकी समृद्धा च भाषा अस्ति। अस्याः शब्दकोषः विशालः अस्ति। एवं संस्कृतस्य धार्मिक-सामाजिक-सांस्कृतिकदृष्ट्या परमं महत्त्वम् अस्ति।
Exam Tips:
a) "देववाणी", "गीर्वाणवाणी" और "देवभाषा" को संस्कृत के पर्यायवाची के रूप में लिखें।
b) संस्कृत को हिन्दी की "प्रमातामही" (परदादी) कहना निबंध में विशेष बिंदु बनता है।
c) धर्म, इतिहास, साहित्य और विज्ञान, चारों क्षेत्रों का उल्लेख करें।
d) "सत्यमेव जयते" और "अहिंसा परमो धर्मः" जैसे आदर्श-वाक्यों के उदाहरण दें।
Question 6: दायजस्य कुप्रथा
Answer:
‘दहेज’ इति हिन्दीशब्दस्य दायजः इति संस्कृतरूपः वर्तते। भारते अस्य दायजस्य प्रथा प्राचीना अस्ति। एतस्य दायजस्य विशेषः सम्बन्धः कन्यादानात् वर्तते। प्राचीनकाले जनाः कन्यादानेन सह वराय रूप्यकाणि, आभूषणानि, अन्यानि च बहूनि वस्तूनि दक्षिणारूपेण यच्छन्ति स्म। तस्मिन् समये दायजस्य किमपि बन्धनं लोभो वा नासीत्। जनाः हर्षेण स्वआर्थिकस्थित्यनुसारं कन्यायै यच्छन्ति स्म। अस्य दायजस्य एतदपि लक्ष्यम् आसीत्, यत् कन्या स्वश्वसुरालये किमपि कष्टं नानुभवेत्।
परन्तु अद्य तु विवाहसमये एव वरपक्षीयाः जनाः रूप्यकाणि वस्तूनि च याचन्ते। अद्य इयं प्रथा तिरस्करणीया सञ्जाता। अद्यत्वे भारतीयसमाजे इयं कुप्रथा प्रतिदिनं वर्धते। इयं प्रथा अद्य हिन्दूनां समाजे कलङ्करूपा वर्तते।
अस्मिन् युगे तु सर्वासु जातिषु इयं कुप्रथा प्रचलिता अस्ति। अद्य कन्यानां जनकाः अनया कुप्रथया भयभीताः त्रस्ताः च सन्ति। अस्याः कुप्रथायाः कारणात् नवोढाः करुणचीत्कारं कुर्वन्ति। अतः साम्प्रतम् इयं कुप्रथा भारतीयसमाजाय अभिशापः वर्तते।
अद्यत्वे यदि काचित् कन्या विवाहसमये दायजस्य पुष्कलां सामग्रीं न आनयति, तदा वरपक्षीयाः ताम् कन्यां घृणादृष्ट्या तिरस्काररूपेण च पश्यन्ति। सा कन्या च विविधैः दण्डैः दण्ड्यते। दण्डम् असहमानाः कन्याः आत्महत्यां कुर्वन्ति। अहो! धिक् इमां कुप्रथाम्, या समाजम् अवनतेः गर्ते प्रक्षिपति।
अद्य समाजस्य, युवकानां युवतीनां च सहयोगस्य आवश्यकता अस्ति। यदि अद्य युवकाः युवत्यश्च मिलित्वा प्रतिज्ञां कुर्युः यत् दायजं न याचितव्यम्, न च गृहे नेतव्यम्; तदा एव एषा कुप्रथा विनष्टा भवेत्। यावत्कालं समाजे जागृतिः नैव आगच्छति, तावत् अस्याः कुप्रथायाः समूलः विनाशः असम्भवः वर्तते। अद्य इमां प्रथां समाजात् अपनेतुं सहयोगस्य परमावश्यकता अस्ति।
Exam Tips:
a) प्राचीन दायज (स्वेच्छा से दिया गया उपहार) और आधुनिक दहेज (माँग) का अंतर स्पष्ट करें।
b) "दायज" शब्द का संस्कृत रूप और उसका कन्यादान से सम्बन्ध लिखें।
c) समाधान के रूप में युवकों और युवतियों की प्रतिज्ञा का उल्लेख करें।
d) निबंध में किसी जाति या समुदाय पर दोषारोपण न करें, केवल कुप्रथा की आलोचना करें।
Question 7: पुस्तकालयः
Answer:
पुस्तकानाम् आलयः इति पुस्तकालयः। सर्वेषां पठनाय यत्र पुस्तकानां सङ्ग्रहः क्रियते, सः पुस्तकालयः कथ्यते। पुस्तकालयेन शिक्षायाः अत्यधिकः प्रचारः भवति। साम्प्रतं स्थाने-स्थाने जनतायाः राज्यस्य च पुस्तकालयाः स्थापिताः सन्ति। पुस्तकालये विभिन्नविषयाणां बहूनि पुस्तकानि भवन्ति। सर्वेषां पठने समानः अधिकारः भवति। स्वल्पेन व्ययेन छात्राः साधारणाः जनाः वा तत्र विविधविषयाणां ज्ञानं प्राप्तुं शक्नुवन्ति। पुस्तकालये दैनिकपत्राणि, पाक्षिकपत्राणि, मासिकपत्राणि अपि च भवन्ति। ये जनाः तानि क्रेतुं न शक्नुवन्ति, ते तत्र पठितुं शक्नुवन्ति। अद्य तु जनेषु शिक्षाप्रसाराय ग्रामेषु पुस्तकालयानाम् आवश्यकता वर्तते।
अस्माकं महाविद्यालयस्य पुस्तकालयः सुमहान् वर्तते। अत्र अनेकानि अनुपलब्धानि पुस्तकानि अपि विद्यन्ते। अस्माकं पुस्तकालये महती सुव्यवस्था अस्ति। तत्र शान्तेः वातावरणं पूर्णम्, अनुशासनं च भवति। प्रातः निर्धारिते समये पुस्तकालयः उद्घाटितो भवति, निश्चिते सायंसमये च तस्य पिधानं भवति। एवं पुस्तकालयानां महती उपयोगिता वर्तते। वस्तुतः साम्प्रतिके युगे प्रत्येकं गृहे एकः लघुः पुस्तकालयः उपयोगी वर्तते।
Exam Tips:
a) "पुस्तकानाम् आलयः" से शब्द की व्युत्पत्ति लिखकर भूमिका आरंभ करें।
b) पत्र-पत्रिकाओं (दैनिक, पाक्षिक, मासिक) के प्रकार का उल्लेख उत्तर को स्पष्ट बनाता है।
c) पुस्तकालय की उपयोगिता को स्वल्प व्यय और समान अधिकार से जोड़ें।
d) अपने विद्यालय या महाविद्यालय के पुस्तकालय का उदाहरण दें।
Question 8: स्वतन्त्रतादिवसः
Answer:
अद्य अगस्तमासस्य पञ्चदशतारिका अस्ति। अस्मिन् दिवसे एव भारतदेशः आङ्ग्लशासनात् स्वतन्त्रः अभवत्। अत एव एषः दिवसः भारतदेशे ‘स्वतन्त्रतादिवसः’ इति रूपेण सोल्लासं मान्यते। अस्मिन् दिवसे भारतीयाः राजनैतिकरूपेण स्वतन्त्रतां प्राप्नुवन्तः। एषा स्वतन्त्रता सरलतया न अलभत, अपितु असंख्याः देशभक्ताः आङ्ग्लशासकानां भीषणान् अत्याचारान् सहमानाः स्वबलिदानं कृत्वा एतां स्वतन्त्रतां अलभन्त। असंख्यैः देशभक्तैः आङ्ग्लकारागारेषु स्वयुवावस्था जीर्णीकृता। असंख्यैः देशभक्तैः स्वरक्तेन स्वतन्त्रतायज्ञः कृतः। ते आत्मानम् आहुतवन्तः। तदा वयं स्वतन्त्रताफलं प्राप्नुवन्तः।
अद्य वयं स्वतन्त्राः स्मः, परन्तु तां बिभीषिकां न जानीमः, या अस्माकं पूर्वजैः अनुभूता। नैव च तां सवृत्तिं ध्यायामः, यया प्रेरिताः ते निःस्वार्थभावेन स्वप्राणदानं कृतवन्तः। अद्य नासौ महात्मा गान्धी, नासौ सुभाषः, चन्द्रशेखरः, बिस्मिलः वा दृश्यते, येभ्यः भारतदेशः एव सर्वोपरि आसीत्। अद्य तु वयं सर्वथा स्वार्थलिप्ताः अभवाम, न कथमपि राष्ट्रहितं पश्यामः। अस्मभ्यं तु आत्महितम् एव सर्वोपरि अभवत्। देशहितं विस्मृत्य अनेके राजनेतारः अपि स्वार्थेषु निमग्नाः दृश्यन्ते। राजनेतृभ्यः राजनीतिः अपि व्यापारः अभवत्। लोकहितं तेषां वचनेषु एव दृष्टिगोचरं भवति, न वास्तविकव्यवहारे। भ्रष्टाचारः सर्वेषु विभागेषु व्याप्तः। तेषां कृते स्वतन्त्रतायाः अर्थः भ्रष्टाचारं कर्तुं स्वतन्त्रता एव प्रतीयते। परन्तु ते एतत् तथ्यं विस्मरन्ति—यदि देशः एव स्वतन्त्रः न भविष्यति, देशः एव प्रतिवेशिराष्ट्रेभ्यः भौगोलिकरूपेण, आर्थिकरूपेण, राजनैतिकरूपेण च सुरक्षितः आत्मनिर्भरः च न भविष्यति, तदा भ्रष्टाचाराय अपि अवकाशः न भविष्यति।
अतः अस्माभिः स्वतन्त्रतादिवसे केवलं लोकाकर्षकान् समारोहान् एव न सम्पाद्य, वस्तुतः प्रत्येकं भारतीये देशनिष्ठायाः, देशभक्तेः, देशपरायणतायाः भावः यथा उद्दीप्तः स्यात् तथा आचरणीयम्, येन अस्माकं देशस्य स्वतन्त्रता शाश्वती भवेत्। जयतु भारतम्, जयतु भारतदेशः।
Exam Tips:
a) 15 अगस्त 1947 की तिथि और "आङ्ग्लशासन" का उल्लेख भूमिका में करें।
b) स्वतन्त्रता सेनानियों के नाम (गांधी, सुभाषचन्द्र बोस, चन्द्रशेखर आज़ाद, बिस्मिल) उदाहरण में दें।
c) निबंध में राजनीतिक समालोचना संयमित भाषा में रखें।
d) अंत में देशभक्ति और राष्ट्रनिष्ठा पर निष्कर्ष लिखें।
Question 9: महात्मा गान्धी (प्रियः राष्ट्र नेता)
Answer:
‘महात्मा’, ‘बापू’ इति लोके प्रसिद्धस्य मोहनदासगान्धिमहोदयस्य नाम कस्य न विदितम्? सः जगद्वन्दनीयेषु महापुरुषेषु सर्वश्रेष्ठः नेता आसीत्। चिरकालाद् दासत्वं गतस्य भारतस्य पुनरपि स्वतन्त्रतायाः नायकः अयमेव आसीत्। अनेन सत्यस्य अहिंसायाः बलेन पराधीना भारतभूमिः स्वतन्त्रीकृता।
अयं महापुरुषः 1869 तमे ख्रीष्टाब्दे गुजरातप्रान्तस्य पोरबन्दरनामके नगरे वणिग्वंशे अजायत। अस्य पिता कर्मचन्द गान्धी माता च पुतलीबाई आसीत्। जन्मजातसंस्कारैः प्रभावितः अयं बालः बाल्यादेव सत्यवादी, ईश्वरभक्तः च आसीत्। अस्य विवाहः त्रयोदशवर्षे कस्तूरबा कन्यया सह सञ्जातः। विवाहानन्तरं दशमकक्षाम् उत्तीर्य अयं बैरिस्टरी शिक्षाग्रहणार्थं इङ्गलैण्डदेशं गतः। तत्र सः स्वाध्यायं कुर्वन् ‘बाइबल’ धर्मपुस्तकं श्रीमद्भगवद्गीतां च अपि अधीतवान्। स्वदेशम् आगत्य अयं वकालतकार्यं प्रारभत।
गान्धी एकदा आफ्रिकादेशं गतः। तत्र भारतीयानां दुर्दशा आसीत्। भारतीयानाम् ईदृशम् अपमानम् अवलोक्य तेन तत्प्रतीकारार्थं नेटालप्रदेशे ‘इण्डियन कांग्रेस’ (भारतीय महासभा) नाम्नी संस्था संस्थापिता। अयं गान्धिनः राजनीतौ प्रथमः प्रवेशः आसीत्।
आफ्रिकातः निवृत्य भारतीय-कांग्रेस-सभायां सम्मिलितो भूत्वा गान्धी 1920 तमे वर्षे ‘असहयोग-आन्दोलनम्’ अचालयत्। ततः 1930 तमे वर्षे ‘डाण्डी’ यात्रा (नमक सत्याग्रह) इतिहासे सुप्रसिद्धा विद्यते। 1942 तमे संवत्सरे ‘भारत छोड़ो’ आन्दोलनं तेन चालितम्, यत्कारणात् गान्धी आङ्ग्लैः कारागारे पातितः। गान्धेः सत्याग्रहेण पराधीनं भारतं 1947 तमे संवत्सरे स्वतन्त्रम् अभवत्।
गान्धिनः सत्याग्रह-अहिंसाबलेन या स्वतन्त्रता अस्माभिः प्राप्ता, सा मानवेतिहासस्य अद्वितीया घटना वर्तते। राजनीतिककार्येभ्यः अतिरिक्तम्, अस्पृश्यतानिवारणाय, हरिजनोद्धाराय, शिक्षाप्रसाराय, खादीग्रामोद्योगप्रवर्तनाय, वैदेशिकवस्तुपरित्यागाय, सामाजिककुरीतीनां निवारणाय च या क्रान्तिः गान्धिना विहिता, सा विश्वेतिहासस्य पृष्ठेषु स्वर्णाक्षरेषु लिखितास्ति। स्वल्पकायः अपि दिव्यशक्तिसम्पन्नः नूतनयुगप्रवर्तकः च गान्धी आसीत्। अस्मिन् भयावहे परमाणुयुगेऽपि तस्य शिक्षाः सत्याहिंसासिद्धान्ताः च मानवमात्रस्य कल्याणं विधातुं समर्थाः सन्ति।
Exam Tips:
a) जन्म (1869, पोरबन्दर), शिक्षा और दक्षिण अफ्रीका के अनुभव को क्रम से लिखें।
b) असहयोग (1920), डांडी यात्रा (1930) और भारत छोड़ो (1942) की तिथियाँ सही लिखें।
c) अहिंसा और सत्याग्रह के सिद्धान्त को उदाहरण सहित समझाएँ।
d) अस्पृश्यता-निवारण और खादी जैसे सामाजिक कार्यों का उल्लेख करें।
Question 10: स्वामी विवेकानन्दः
Answer:
भारतभूमिः ऋषिमहर्षीणां सन्तमहात्मनां देशभक्तानां वीराणां कलाविदां विदुषां च जन्मस्थली अस्ति। अस्याम् एव पुण्यभूमौ स्वामी विवेकानन्दः जन्म अलभत। एषः महापुरुषः रामकृष्णपरमहंसस्य सुयोग्यः शिष्यः आसीत्। विवेकानन्दस्य गृहनाम नरेन्द्रनाथदत्तः आसीत्। अस्य जन्म 12 जनवरी 1863 ख्रीष्टाब्दे कलकत्तानगरे अभवत्। अस्य पिता श्रीविश्वनाथदत्तः पाश्चात्यसभ्यतायाः पोषकः आसीत्। सः च स्वपुत्रं नरेन्द्रम् अपि तादृशः एव भवितुम् इच्छति स्म। नरेन्द्रः जन्मना एव परममेधावी प्रतिभासम्पन्नः तार्किकः च आसीत्। बाल्यकाले एव अस्य पिता परलोकं गतवान्। पितुः मृत्योः पश्चात् नरेन्द्रः रामकृष्णपरमहंसस्य शिष्यतां प्राप्तवान्। सद्यः एव गुरुमुखात् वेदान्तशिक्षां प्राप्य सः संन्यासदीक्षां गृहीतवान्। संन्यासी भूत्वा च सः ‘स्वामी विवेकानन्दः’ इति नाम्ना प्रसिद्धः अभवत्।
स्वामी विवेकानन्दः भारतीयसंस्कृतेः वेदान्तस्य च समर्थकः आसीत्। सः सम्पूर्णभारतदेशस्य पदयात्रां कृत्वा जनजागरणं कृतवान्। सः 1893 ख्रीष्टाब्दे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मपरिषद्-सम्मेलने भारतस्य प्रतिनिधित्वम् अकरोत्। तत्र सः ओजस्विभाषणं कृतवान्, स्ववक्तृतामाध्यमेन च सर्वान् मन्त्रमुग्धान् अकरोत्। स्वामी विवेकानन्दः वर्षत्रयं यावत् अमेरिकादेशे अवसत्, तत्र वेदान्तप्रचारं च अकरोत्। विवेकानन्दस्य दृढविश्वासः आसीत्—“अध्यात्मविद्यां भारतीयदर्शनं च विना संसारः अनाथ इव अस्ति।” सः अमेरिकादेशात् भारतम् आगत्य रामकृष्णमिशनसंस्थायाः स्थापनाम् अकरोत्। 4 जुलाई 1902 ख्रीष्टाब्दे एषः सांस्कृतिकगुरुः महासमाधौ लीनः अभवत्।
Exam Tips:
a) जन्म तिथि (12 जनवरी 1863, कलकत्ता) और गृहनाम नरेन्द्रनाथ दत्त अवश्य लिखें।
b) 1893 के शिकागो विश्वधर्म परिषद् का उल्लेख निबंध का मुख्य बिंदु है।
c) रामकृष्ण मिशन की स्थापना और मृत्यु-तिथि (4 जुलाई 1902) को क्रम में लिखें।
d) वेदान्त और भारतीय दर्शन के प्रचार को उनके योगदान के रूप में समझाएँ।
Question 11: मम प्रियः कविः (कालिदासः)
Answer:
संस्कृतसाहित्यस्य रचयितारः बहवः कवयः सन्ति। परं तेषु सर्वेषु कविषु कालिदासः मम प्रियः कविः अस्ति। एषः कविः न केवलं भारते एव प्रसिद्धः अस्ति, अपितु सर्वस्मिन् विश्वे प्रसिद्धः अस्ति। आङ्ग्लदेशवासिनस्तु एनं भारतस्य शेक्सपीयर इति कथयन्ति। जर्मनवासिनश्च कालिदासं विश्वकविं स्वीकुर्वन्ति।
एषः कविः कदा कुत्र च अजायत, एतत् सम्यक् न ज्ञायते। परम् एतत् श्रूयते, यत् अयं महाराजस्य विक्रमादित्यस्य नवरत्नेषु सर्वश्रेष्ठः आसीत्। अस्य महाकवेः विषये एका जनश्रुतिः श्रूयते, यत् अयं प्रारम्भे महामूर्खः आसीत्। तस्य विवाहः छलेन विदुष्या राजकन्यया सह अभवत्। पश्चात् अयं कालीदेवीं ध्यात्वा अपठत् पण्डितश्च अभवत्।
कालिदासः संस्कृतभाषायाः भारतस्य कवीनां च गौरवम् अस्ति। अस्य वैशिष्ट्यं, व्यक्तित्वं कवित्वं च नाटकेषु, गीतिकाव्येषु, महाकाव्येषु च प्रस्फुटितम्। मम प्रियकवेः कालिदासस्य चत्वारि काव्यानि, त्रीणि नाटकानि च उपलभ्यन्ते। नाटकेषु अभिज्ञानशाकुन्तलम् अस्य कवेः सर्वोत्तमं नाटकम् अस्ति। जर्मनकविः गेटेमहोदयः अभिज्ञानशाकुन्तलं मुक्तकण्ठेन प्रशशंस। अस्य काव्येषु अलङ्काराणां प्रयोगः बाहुल्येन दृश्यते। उपमालङ्कारः अस्य कवेः प्रियः अलङ्कारः वर्तते। अस्य विषये कथितमस्ति—“उपमा कालिदासस्य।” कालिदासेन रचितानि काव्यानि, नाटकानि च पाठकानां चेतांसि हरन्ति, आनन्दयन्ति च। अतः संस्कृतसाहित्यस्य प्रसिद्धः अयं कविः मम प्रियः कविः अस्ति।
Exam Tips:
a) "भारत का शेक्सपीयर" और "विश्वकवि" जैसे विशेषण उत्तर को प्रभावी बनाते हैं।
b) चार काव्य (मेघदूत, कुमारसम्भव, रघुवंश, ऋतुसंहार) और तीन नाटक लिखें।
c) "अभिज्ञानशाकुन्तलम्" और गेटे की प्रशंसा का उल्लेख विशेष बिंदु है।
d) उपमा अलंकार के लिए कालिदास की प्रसिद्धि को उदाहरण सहित लिखें।
Question 12: मम प्रियं पुस्तकम् (रामायणम्)
Answer:
संस्कृतसाहित्ये बहूनि पुस्तकानि सन्ति। परं तेषु सर्वेषु पुस्तकेषु ‘रामायणम्’ मम प्रियं पुस्तकम् अस्ति। एकदा आदिकविः वाल्मीकिः तमसा-नद्यां स्नात्वा स्वाश्रमम् आगच्छत्। सः मार्गे केनचित् व्याधेन क्रौञ्चयुगलात् एकं पक्षिणं बाणेन विद्धम् अपश्यत्। तदा तस्य आदिकवेः वाल्मीकेः मुखात् अयं श्लोकः निःसृतः—
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
अस्य श्लोकस्य निर्माणं दृष्ट्वा कविः स्वयं चकितः अभवत्। तदनन्तरं सः रामायणं (रामचरितम्) लिखितवान्। तदेव रामायणं महाकाव्यं मम प्रियं पुस्तकं वर्तते।
इदं पुस्तकं संस्कृतसाहित्यस्य आदिकाव्यम् अस्ति। अस्य रचनाकालं पुरातत्त्वगवेषकाः बौद्धकालादपि प्राचीनं मन्यन्ते। अस्य पुस्तकस्य कथानकं रामचरित्रम् अस्ति। अस्मिन् महाकाव्ये रघुवंशीयस्य रामस्य जन्मनः आरभ्य निर्वाणपर्यन्तं सम्पूर्णा कथा विद्यते। रामायणे अतीव सरलसंस्कृतस्य प्रयोगः अस्ति, यः श्रोतॄणां मनांसि हरति। अलङ्कारशैली अपि अतीव रमणीया अस्ति।
भगवतः श्रीरामस्य कथा अस्मान् सर्वान् शिक्षयति—
1. यत् जीवने रामवत् वर्तितव्यम्, न रावणवत्।
2. जीवने अन्यायस्य विरोधः कर्तव्यः।
3. संसारे जनाः रामवत् पितृभक्ताः, लक्ष्मणवत् भ्रातृभक्ताः, हनुमतः तुल्यं च स्वामिभक्ताः भवेयुः।
4. सर्वाः नार्यः सीतावत् पतिव्रताः धर्मपरायणाः भवन्तु।
5. यथा रामेण स्वधर्मरक्षणार्थं रावण-कुम्भकर्ण-मेघनादादीनां वधः कृतः, पत्नीरक्षाव्रतं च पालितम्, तथैव अस्माभिः स्वधर्मरक्षायै, स्वभार्यारक्षायै च शत्रवः हन्तव्याः, धर्मस्य च स्थापना कर्तव्या।
वस्तुतः रामायणं न केवलं धार्मिकम् एव पुस्तकम्, अपितु भारतीयसभ्यतायाः संस्कृतेश्च प्रतीकम् अपि अस्ति। अत एव रामायणस्य विषये अयं श्लोकः प्रसिद्धः अस्ति—
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद् रामायणकथा लोकेषु प्रचरिष्यति॥
Exam Tips:
a) रामायण को आदिकाव्य और वाल्मीकि को आदिकवि के रूप में लिखें।
b) क्रौञ्च-वध की घटना से श्लोक की उत्पत्ति का वर्णन करें।
c) श्रीराम की शिक्षाएँ क्रम से लिखें, इससे उत्तर व्यवस्थित लगता है।
d) मूल श्लोक को शुद्ध रूप में लिखें और उसका भाव समझाएँ।
Question 13: स्वच्छतायाः महत्त्वम्
Answer:
स्वच्छतायाः स्वास्थ्येन सह घनिष्ठः सम्बन्धः अस्ति। आरोग्यस्य मूलं स्वच्छता एव अस्ति। यत्र मलिनता राजते, तत्र रोगाः अपि स्वयमेव आगच्छन्ति। स्वच्छतायाः क्षेत्रम् अतिविस्तृतम् अस्ति। सर्वप्रथमं शारीरिकस्वच्छता अपेक्षिता भवति। प्रतिदिनं नियमपूर्वकं दन्तधावनम्, स्नानम्, स्वच्छवस्त्रधारणम्, भोजनात् पूर्वं हस्तप्रक्षालनम् इत्यादीनि शारीरिकस्वच्छतायाः अङ्गानि सन्ति। स्वच्छतया मनुष्यः सुरूपः भवति, सर्वे तेन सह स्थातुम्, आलपितुं, व्यवहर्तुं च इच्छन्ति।
दुर्गन्धियुक्तं मलिनं मनुष्यं रोगकारणं मत्वा सर्वे तस्मात् दूरे एव तिष्ठन्ति। स्वच्छतया मानवतायाः विकासः भवति, यतः स्वच्छे सति कोऽपि जनः कमपि घृणां न करोति। माता अपि मलिनं शिशुं कष्टेन स्पृशति, अतएव तं सर्वथा स्वच्छं कर्तुं यत्नशीला दृश्यते। स्वस्थशरीरे एव स्वस्थं मनः तिष्ठति। मलिनमनसि मलिनविचाराः एव उद्भवन्ति, मलिनविचारैः च मनुष्यः मलिनानि कर्माणि करोति। मलिनकर्माणं जनं च कोऽपि आदरेण न पश्यति। अतः सर्वेषाम् आदरपात्रं भवितुम् आरोग्यकारणात् शारीरिकस्वच्छता तथैव मानसिकस्वास्थ्यं च आवश्यकम् अस्ति।
शारीरिकस्वच्छतायाः अनन्तरं स्थानिकस्वच्छताऽपि ध्यातव्या। स्थानिकस्वच्छतायां प्रतिदिनं गृहस्य स्वच्छता तु आवश्यकी अस्ति एव, गृहस्य निकटस्थमार्गाः अपि च स्वच्छाः भवितव्याः। मलमूत्रादिकं शौचालयेष्वेव कर्तव्यम्। यदि इतस्ततः अवकराः विकीर्यन्ते, तर्हि वसतिषु मशकमक्षिकादयः कीटाः जायन्ते, सम्पूर्णं वातावरणं च दुर्गन्धेन परिपूर्णं भवति। तेन च हैजा-मलेरिया-प्लेग-चेचक-प्रभृतयः संक्रामकरोगाः जायन्ते। केवलम् औषधसेचनेन अथवा औषधसेवनेनैव रोगाः विनष्टाः न भवन्ति, अपितु रोगाणां मूलकारणस्य अस्वच्छतायाः निवारणम् अपि परमावश्यकम् अस्ति।
अतः यदि वयम् इच्छामः यत् सर्वेषां प्रेमपात्राणि भवेम, आदरपात्राणि भवेम, शारीरिकरूपेण मानसिकरूपेण च रोगरहिताः स्वस्थाः च भवेम, कोऽपि अस्मान् घृणया न व्यवहरेत्, तर्हि अद्य एव स्वच्छतायाः महत्त्वं जानन्तः सर्वविधस्वच्छाः भवितुं प्रयत्नं कुर्वेम।
Exam Tips:
a) शारीरिक, स्थानिक और मानसिक स्वच्छता, तीनों पक्षों का उल्लेख करें।
b) हैजा, मलेरिया, प्लेग और चेचक जैसे रोगों का स्वच्छता से सम्बन्ध लिखें।
c) "केवल औषधि से नहीं, मूल कारण दूर करना भी आवश्यक" वाला बिंदु उत्तर को गहरा बनाता है।
d) समापन में स्वच्छता अपनाने का संकल्प लिखें।
Question 14: महाविद्यालयस्य वार्षिकोत्सवः
Answer:
मम महाविद्यालये अनेके उत्सवाः भवन्ति, परं तेषु वार्षिकोत्सवः सर्वाधिकः महत्त्वपूर्णः भवति। अयं पुरस्कारवितरणोत्सवः भवति। सम्पूर्णवर्षस्य गतिविधिः अस्मिन् उत्सवे प्रस्तूयते। पठने, क्रीडने, भाषणे, सांस्कृतिककार्यकलापे ये विशिष्टाः छात्राः भवन्ति, ते अस्मिन्नेव दिने पुरस्कारं प्राप्नुवन्ति। वार्षिकोत्सवः परमानन्दायकः भवति। छात्राः महाविद्यालयस्य वार्षिकोत्सवस्य उत्सुकतया प्रतीक्षां कुर्वन्ति। अस्मिन् शुभदिने छात्राः उज्ज्वलानि वस्त्राणि धारयन्ति, प्रसन्नाः च दृश्यन्ते।
अस्माकं महाविद्यालयस्य वार्षिकोत्सवः प्रतिवर्षं मार्चमासे भवति। एकः विशिष्टः महानुभावः अस्मिन् दिने आमन्त्र्यते। नगरस्य सुप्रतिष्ठिताः नागरिकाः अपि सम्मिलिताः भवन्ति। सम्पूर्णः मण्डपः सुसज्जितः भवति। विद्यार्थिषु अध्यापकेषु च नवोत्साहः स्फूर्तिश्च भवति। अभ्यागतानां सम्मुखे विद्यालयस्य छात्राः मनोरञ्जकं कार्यक्रमं प्रस्तुवन्ति। आचार्यः महाविद्यालयस्य वार्षिकं प्रतिवेदनं (रिपोर्ट) पठति। मुख्यः अतिथिः सर्वमपि कार्यक्रमं दत्तावधानः पश्यति। मुख्यातिथिः विशिष्टेभ्यः छात्रेभ्यः अध्यापकेभ्यश्च पुरस्कारान् ददाति।
अस्मिन् वर्षे अस्माकं महाविद्यालयस्य वार्षिकोत्सवे भारतस्य शिक्षामन्त्री आगच्छत्। तस्य अभिनन्दनम् अस्माकं छात्राः स्वागतगीतेन अकुर्वन्। जनैः तस्य सम्मानः करतलध्वनिना कृतः। सः स्वाध्यक्षीयभाषणे महाविद्यालयस्य अनुशासनस्य महतीं प्रशंसाम् अकरोत्। शिक्षामहत्त्वविषये च सारगर्भितं भाषणम् अयच्छत्। सः प्रसन्नो भूत्वा महाविद्यालयस्य विकासाय राजकोषतः पञ्चाशत्सहस्राणि रूप्यकाणि अपि अददात्।
अन्ते च आचार्यः सर्वेषां धन्यवादम् अकरोत्। ‘जनगणमन’ इति राष्ट्रगानेन सह कार्यक्रमः समाप्तः अभवत्। सर्वे अभ्यागताः मुख्यातिथिना सह जलपानम् अकुर्वन्। एवं विद्यालयस्य वार्षिकोत्सवः निर्विघ्नं सम्पन्नः अभवत्।
Exam Tips:
a) वार्षिकोत्सव को पुरस्कार-वितरण उत्सव के रूप में परिचित कराएँ।
b) कार्यक्रम का क्रम (स्वागत, प्रतिवेदन, अध्यक्षीय भाषण, पुरस्कार, धन्यवाद) लिखें।
c) "जनगणमन" को राष्ट्रगान कहें, राष्ट्रीय गीत (वन्देमातरम्) नहीं।
d) अतिथि के भाषण और योगदान का उल्लेख अलग अनुच्छेद में करें।
Question 15: गणतन्त्र-दिवसः
Answer:
गणतन्त्र-दिवसः भारतदेशस्य राष्ट्रीयं पर्व अस्ति। एतत् पर्व प्रतिवर्षं जनवरीमासस्य 26 तारिकायां सोत्साहं मान्यते। 26 जनवरी 1950 ख्रीष्टाब्दः भारतीयेतिहासे सर्वाधिकं महत्त्वपूर्णं दिनम् अस्ति। अस्मिन् दिने स्वतन्त्रभारतस्य प्रथमं संविधानं लागू अभवत्। अस्मिन् दिने एव भारतं सम्प्रभुतासम्पन्नराज्यरूपेण प्रतिष्ठितम् अभवत्। ततः आरभ्य अस्मिन् एव उपलक्ष्ये प्रतिवर्षं सम्पूर्णे भारतदेशे राष्ट्रियः अवकाशः भवति, गणतन्त्रदिवसः च मान्यते। विद्यालयेषु महाविद्यालयेषु च प्रतियोगिताः समायोज्यन्ते। आधिकारिकरूपेण प्रतिनगरं ध्वजारोहणं गणतन्त्रदिवससमारोहाः च समायोजिताः भवन्ति। समारोहेषु भारतस्य स्वतन्त्रतायै सुरक्षायै च बलिदानिनां वीराणां श्रद्धापूर्वकं स्मरणं क्रियते।
अस्मिन् दिने भारतदेशस्य राजधान्यां नवदिल्ल्यां कर्तव्यपथे (पूर्वं राजपथे) गणतन्त्रदिवस-समारोहः भव्यरूपेण समायोज्यते। राष्ट्रपतिः राष्ट्राय सन्देशं ददाति। विभिन्नराज्यानां सांस्कृतिकं प्रदर्शनं भवति। स्थलसेना-नौसेना-वायुसेनानां च भव्यगणवेषे शौर्यप्रदर्शनं भवति। युद्धेषु असाधारणसाहसाय वीरतायै च सैनिकेभ्यः पदकानि पुरस्काराणि च प्रदीयन्ते। विविधक्षेत्रेषु विशिष्टयोगदानाय कलाकारेभ्यः नागरिकेभ्यश्च अपि पदकानि पुरस्काराणि च प्रदीयन्ते। अद्भुतसाहसप्रदर्शनाय प्रत्येकं राज्यस्य बालक-बालिकाः पुरस्कृताः भवन्ति। सम्पूर्णदृश्यस्य प्रदर्शनस्य च प्रसारणम् आकाशवाण्या दूरदर्शनेन च भवति। लक्षाधिकाः जनाः सम्पूर्णदृश्यस्य प्रदर्शनस्य च साक्षात् अवलोकनाय कर्तव्यपथं गच्छन्ति। अस्मिन् दिने सम्पूर्णदेशस्य वातावरणम् अतीव उत्साहपूर्णं भवति।
Exam Tips:
a) 26 जनवरी 1950 को संविधान लागू होने की तिथि लिखें।
b) स्वतन्त्रता दिवस (15 अगस्त) और गणतन्त्र दिवस (26 जनवरी) के अन्तर को स्पष्ट करें।
c) परेड का स्थान कर्तव्यपथ (पूर्व राजपथ) लिखें, लाल किला नहीं।
d) पदक और पुरस्कार पाने वाले वर्गों (सैनिक, कलाकार, बालक-बालिकाएँ) का उल्लेख करें।
Question 16: यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवताः
Answer:
अद्यत्वे नारीणां दशा शोभना न वर्तते। तासाम् उपरि अनवरतं क्रियमाणैः अत्याचारैः समाचारपत्रपृष्ठानि प्रतिदिनं रञ्जितानि वर्तन्ते। तासाम् आदरः न क्रियते, अवहेलना क्रियते। कारणम् अस्ति यत् समाजे अनादरस्य वातावरणं वर्तते, यत्र नारीः पूजयन्ते तत्र देवाः रमन्ते। यत्र नार्याः आदरं लभन्ते, तत्र सुखं समृद्धिः च भवति; यत्र च अवहेलना भवति तत्र अशान्तिः स्पष्टतया दृश्यते।
नारी शरीरेण कोमला, स्वभावेन उदारा, चरित्रेण च पुरुषापेक्षया अत्युदात्ता भवति। तस्याः सर्वं दिनं परिवारचिन्तया, सेवया, शुश्रूषया च व्यत्येति। सा स्वयं क्षुधां पिपासां च सोढ्वा सर्वेषां क्षुधां पिपासां च शमयितुं यतते। परन्तु सा एतस्य प्रतिकारे सर्वस्य उपेक्षायाः एव पात्रं भवति। सभ्यसमाजे नारीणां दशा एतादृशी न भवति। सा तत्र साम्राज्ञी इव तिष्ठति। ‘न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते’ इत्यस्य भावः नार्याः गृहे उच्चस्थितिः स्यादिति। विद्वांसो हि देवाः। पुरुषाः विद्वांसः तदैव भवितुम् अर्हन्ति यदा तेषां माता, गृहिणी च विदुषी स्याताम्। विद्वांसः एव जानन्ति यत् कुले नार्याः प्रतिष्ठा अत्यपेक्षिता अस्ति।
अतः मनुना सत्यमेव उक्तम्—
“यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।”
Exam Tips:
a) मनुस्मृति का श्लोक "यत्र नार्यस्तु पूज्यन्ते..." उद्धृत करके उत्तर आरम्भ या समाप्त करें।
b) "न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते" का भाव नारी की भूमिका से जोड़ें।
c) नारी के सम्मान के पक्ष में सामाजिक उदाहरण दें, किसी वर्ग पर आरोप न लगाएँ।
d) निष्कर्ष में परिवार और समाज में समान आदर पर बल दें।
Free study material for Sanskrit
Sanskrit Class 12 Curriculum Solutions: Essay writing (Nibandh Lekhan)
Textbook Solutions for Class 12 Sanskrit Essay writing (Nibandh Lekhan)
Review comprehensive exercise answers for Class 12 Sanskrit Essay writing (Nibandh Lekhan). Fully updated to match current Haryana Board syllabus guidelines, these textbook solutions help students verify their work and maintain accurate study notes.
Mastering Theoretical and Practical Questions
Each solution includes detailed reasoning to foster genuine comprehension of Essay writing (Nibandh Lekhan) concepts. Reviewing these step-by-step breakdowns allows learners to master both analytical and descriptive questions expected in school evaluations.
Effective Self-Study and Homework Assistance
These resources act as an effective roadmap for daily homework tasks and independent study. Supplement your review of Essay writing (Nibandh Lekhan) with official sample papers and interactive practice tests available on our platform free of charge.
FAQs
The complete and updated HBSE Class 12 Sanskrit व्याकरणम् रचना निबंध-लेखनम् is available for free on StudiesToday.com. These solutions for Class 12 Sanskrit are as per latest Haryana Board curriculum.
Yes, our experts have revised the HBSE Class 12 Sanskrit व्याकरणम् रचना निबंध-लेखनम् as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.
Toppers recommend using Haryana Board language because Haryana Board marking schemes are strictly based on textbook definitions. Our HBSE Class 12 Sanskrit व्याकरणम् रचना निबंध-लेखनम् will help students to get full marks in the theory paper.
Yes, we provide bilingual support for Class 12 Sanskrit. You can access HBSE Class 12 Sanskrit व्याकरणम् रचना निबंध-लेखनम् in both English and Hindi medium.
Yes, you can download the entire HBSE Class 12 Sanskrit व्याकरणम् रचना निबंध-लेखनम् in printable PDF format for offline study on any device.