HBSE Class 11 Sanskrit रचना निबंध-लेखनम्

Download Haryana Board Solutions for Class 11 Sanskrit Composition: Essay Writing

Access comprehensive textbook solutions for Composition: Essay Writing using the official curriculum guides for Class 11 Sanskrit. Designed to align with the 2026-27 Haryana Board standards, these detailed answers help students reinforce core academic concepts.

Access Haryana Board Solutions and Answers

Navigate directly to the solved Sanskrit textbook exercises using the digital viewer below. Each solution includes detailed step-by-step explanations, allowing students to instantly cross-check their work and identify areas requiring further revision.

Question 1: प्रातःकालीन भ्रमणम्

Answer:

प्रातःकालः भ्रमणाय सर्वोत्तमः कालः भवति। यथा जीवनाय भोजनस्य आवश्यकता भवति तथैव जीवनाय भ्रमणस्य अपि आवश्यकता भवति। प्रातःकाले भ्रमणेन शरीरं स्वस्थं नीरोगं च भवति। सर्वेषु व्यायामेषु भ्रमणं सर्वोत्तमः व्यायामः भवति। एतत् तनुं नवीं करोति, मस्तिष्कं च शीतलं करोति। भ्रमणानन्तरं मानवः सर्वदा प्रसन्नः तिष्ठति। अहं नियमितरूपेण प्रातःभ्रमणं करोमि। अहं चतुर्दशवर्षीयः बालः स्व चत्वारः मित्रैः सह प्रतिदिनं भ्रमणाय गच्छामि।

मार्गे अनेके गोपालाः मम दृष्टिपथम् आयान्ति। ते दुग्धस्य पात्राणि द्विचक्रिकाभिः आनयन्तः दृश्यन्ते। भ्रमणं कुर्वन्तः अहम् एकस्मिन् उद्याने गच्छामि। तत्र प्रकृतेः सौन्दर्यं मनः मोहयति। अभिनवानि विकसितानि पुष्पाणि दृष्ट्वा मनसि आनन्दः उत्पद्यते।

वृक्षाणां शाखासु मधुरं मधुरं कूजन्तः पक्षिणः कर्णयोः अमृतरसं सिञ्चन्ति। दूर्वाङ्कुरेषु पतिताः जलकणिकाः मौक्तिकवत् प्रतीयन्ते। अहं द्वादश मिनिट पर्यन्तं हरितघासे नग्नपादाभ्यां सञ्चरामि। एतत् सञ्चरणं मम शरीरे स्फूर्तिं जनयति, दृष्टिं च आनन्दयति। अस्मिन् उद्याने अनेके अन्येऽपि भ्रमणप्रियाः जनाः दृश्यन्ते। उद्यानं परितः एका नदी अपि प्रवहति। केचित् जनाः नद्याः तटे भ्रमणं कुर्वन्ति, केचित् च व्यायामं कुर्वन्ति। निजस्वास्थ्यरक्षायै सर्वेषां जनानां बालानां वा प्रातःभ्रमणम् अवश्यं कुर्वीरन्।

Exam Tips:

a) निबंध में भ्रमण को सर्वोत्तम व्यायाम बताने वाला वाक्य मध्य भाग में अवश्य रखें।
b) प्रातः भ्रमण का वर्णन प्रथम पुरुष में करें, क्योंकि लेखक स्वयं प्रतिदिन टहलने जाता है।
c) गोपाल, पक्षी, पुष्प और नदी जैसे दृश्यों से निबंध को सजीव बनाएँ।
d) नंगे पैर घास पर चलने से स्फूर्ति मिलने का उल्लेख निबंध को रोचक बनाता है।

 

Question 2: स्वच्छतायाः महत्त्वम्

Answer:

'स्वच्छता' एका क्रिया अस्ति। यस्मात् अस्माकं शरीरं, मस्तिष्कं, वस्त्राणि, गृहाणि, कार्यक्षेत्राणि च शुद्धानि पवित्राणि च भवन्ति। अस्माकं शारीरिक-मानसिक-स्वास्थ्याय स्वच्छता अत्यावश्यकम् अस्ति। अस्माभिः स्वच्छतां निजस्वभावे जीवने च स्थापयित्वा अस्वच्छतायाः सर्वथा परित्यागः कर्तव्यः। यतोहि अस्वच्छता सर्वेषां रोगाणां मूलाधारम् अस्ति।

यः जनः प्रतिदिनं स्नानं न करोति, निजवस्त्राणि न प्रक्षालयति, गृहं निकषा पर्यावरणं मलेन प्रदूषितं करोति, सः तु सर्वदा रुग्णः भूत्वा दुःखी भवति। मलयुक्तक्षेत्रेषु अनेके कीटाणवः प्रादुर्भवन्ति, ये अनेकान् रोगान् जनयन्ति। एतस्मात् कारणात् स्वच्छतायाः विशेषं महत्त्वम् अस्ति। भोजनात् पूर्वं हस्तौ प्रक्षाल्य भोजनं कुर्वीत। शारीरिक-मानसिक-स्वच्छतायै अस्माकम् आत्मविश्वासं वर्धते। सम्पूर्णे भारतवर्षे स्वच्छतायाः प्रचारप्रसारणाय भारतसर्वकारेण अनेकानि कार्यक्रमाणि सामाजिकनियमाश्च निर्मितानि।

'स्वच्छभारत-अभियानम्' इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्रमोदिमहाभागेन उद्घोषितम्। 2014 तमस्य वर्षस्य अक्टूबरमासस्य द्वितीये (02/10/2014) दिनाङ्के स्वच्छभारत-अभियानस्य आरम्भः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी भारतं न्यवेदयत्— 'सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु' इति। तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहल्यां महानगरस्य मन्दिरमार्गे स्वच्छताकार्यं प्रारभत।

Exam Tips:

a) स्वच्छता की परिभाषा से आरम्भ करने पर निबंध की भूमिका स्पष्ट बनती है।
b) स्वच्छ भारत अभियान का आरम्भ 2 अक्टूबर 2014 को हुआ था, यह तिथि अवश्य लिखें।
c) स्वच्छता के लाभों को शारीरिक, मानसिक और सामाजिक रूप से अलग-अलग अनुच्छेद में लिखें।
d) प्रधानमन्त्री द्वारा स्वयं मार्जनी (झाड़ू) से सफ़ाई करने का प्रसंग निबंध का सशक्त उदाहरण है।

 

Question 3: संस्कृतभाषायाः महत्त्वम्

Answer:

संस्कृतभाषा विश्वस्य अत्यन्तप्राचीनासु भाषासु अन्यतमा अस्ति। इयं बह्वीनां भारतीयभाषाणां जननी अस्ति। आदिग्रन्थाः अपि संस्कृते सन्ति। पुरा इयं लोकव्यवहारस्य भाषा आसीत्। सर्वे जनाः संस्कृते वार्तालापम् अकुर्वन्। भारतस्य बह्व्यः आर्यभाषाः संस्कृतात् उद्भूताः सन्ति। अस्य साहित्यम् अतिविशालम् अस्ति। वेदाः, गीता, रामायणं, महाभारतं च संस्कृतस्य गौरवं वर्धयन्ति। कालिदास-भास-भवभूति-महाकविभिः रचितानि काव्यानि समस्ते विश्वे सम्मानितानि सन्ति। अस्माकं भारतीया संस्कृतिः संस्कृतभाषायाम् एव सुरक्षिता। इयं तु अस्माकं संस्कृतेः आत्मा अस्ति। अस्माकं भूतं भविष्यं च सर्वम् अपि अनया सम्बद्धं वर्तते।

इयं वैज्ञानिकी समृद्धा च भाषा अस्ति। सामाजिक-सांस्कृतिकदृष्ट्या अस्याः परं महत्त्वम् अस्ति। अस्माकं अनेकानि आदर्शवाक्यानि, यथा "सत्यमेव जयते" "अहिंसा परमो धर्मः" इत्यादीनि, संस्कृतभाषायाम् एव सन्ति। अतः उक्तम्—

"भारते भाति भारती।"

"सुरभारती विजयते।"

Exam Tips:

a) संस्कृत को विश्व की अत्यन्त प्राचीन भाषाओं में गिनें, "सबसे प्राचीन" लिखने से बचें।
b) वेद, गीता, रामायण और महाभारत का उल्लेख करके भाषा के गौरव को प्रमाणित करें।
c) कालिदास, भास और भवभूति जैसे महाकवियों के नाम लिखने से निबंध विश्वसनीय बनता है।
d) "सत्यमेव जयते" भारत का राष्ट्रीय आदर्श वाक्य है, इसे उदाहरण के रूप में दें।

 

Question 4: मम विद्यालयः

Answer:

अहं हरियाणाप्रान्तस्य सर्वकारी विद्यालये पठामि। अयं विद्यालयः मम गृहस्य समीपे एव अस्ति। अस्य भवनम् अत्यन्तं सुन्दरं सुविशालं च अस्ति। अस्मिन् विद्यालये द्वादश कक्षाः सन्ति। वस्तुतः अयं विद्यामन्दिरम् अस्ति, यत्र सरस्वती पूज्यते। अस्मिन् विद्यालये विज्ञानप्रयोगशाला, पुस्तकालयः, जलपानगृहं चापि अस्ति। विद्यालयस्य परिसरः रमणीयः अस्ति। छात्राणां कृते विशालं क्रीडाक्षेत्रम् अपि अस्ति।

अस्य विद्यालयस्य छात्राः अध्ययने निष्णाताः सन्ति। अध्ययने सहक्रीडायाम् अपि छात्राः निपुणाः सन्ति, यतोहि अत्र समये समये क्रीडाप्रतियोगिता भवति। अस्य विद्यालयस्य परीक्षाफलम् अपि शतप्रतिशतं भवति। अत्र छात्राः अनुशासनप्रियाः सन्ति। नगरवासिनः अस्मिन् विद्यालये स्वशिशून् पाठयितुं स्वगौरवम् अनुभवन्ति। अतः एव मम विद्यालयः समस्ते हरियाणाप्रान्ते सुप्रसिद्धः विद्यालयः अस्ति।

Exam Tips:

a) विद्यालय की सुविधाएँ, जैसे प्रयोगशाला, पुस्तकालय और खेल-मैदान, क्रम से लिखें।
b) मम विद्यालयः विषय पर प्रथम पुरुष में लिखें, क्योंकि लेखक स्वयं उसी विद्यालय का छात्र है।
c) खेल-प्रतियोगिता और अनुशासन का उल्लेख करने से विद्यालय का समग्र चित्र बनता है।
d) निबंध का समापन विद्यालय की प्रसिद्धि के कथन से करें।

 

Question 5: मम प्रियः कविः

Answer:

महाकवेः वाल्मीकेः नाम संस्कृतवाङ्मये सहृदयान् आह्लादयति। महर्षिः वाल्मीकिः एव तादृशः विश्रुतः, लोकभावाभिज्ञः, मानवमनोविज्ञानविदग्धः कविः आसीत्, यः रामचरितम् आश्रित्य नैतिकादर्शानाम् उपस्थापकः सर्वजनग्राह्यं महाकाव्यं प्रणीतवान्। पुण्यसलिलायाः तमसायाः तटे रोदनं कुर्वन्तं क्रौञ्चम् अवलोक्य तस्य महाकवेः कारुण्यपूर्णा वाक् प्रास्फुरत्—

"मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकम् अवधीः काममोहितम्॥"

तस्मिन्नेव काले ब्रह्मणः वचनात् भारतीयवाङ्मये लौकिकभावोपेता रामकथा मूला रामायणसरित् प्रसृता। इदं महाकाव्यं भाषायाः माधुर्येण, माधुर्य-ओज-प्रसादगुणसमन्वितत्वेन, रचनाशैल्याः मधुरतया, सर्वेषां रसानां यथास्थानम् उपन्यासात्, आचारसंहितायाः संकलनेन, अलङ्काराणां सुनियोजनेन संस्कृतसाहित्ये उपजीव्य महाकाव्यरूपे प्रसिद्धः अस्ति।

Exam Tips:

a) महर्षि वाल्मीकि को आदिकवि और रामायण को आदिकाव्य कहा जाता है, यह तथ्य अवश्य लिखें।
b) क्रौञ्च-वध की घटना से वाल्मीकि के मुख से पहला श्लोक निकलने का प्रसंग निबंध का केन्द्र है।
c) श्लोक "मा निषाद..." को उद्धृत करके उसका भावार्थ संक्षेप में लिखें।
d) रामायण के माधुर्य, ओज और प्रसाद गुणों का उल्लेख निबंध को विषयानुकूल बनाता है।

 

Question 6: गीतायाः महत्त्वम्
अथवा
मम प्रियं पुस्तकम्

Answer:

'श्रीमद्भगवद्गीता' विश्वस्य सर्वप्रियं पुस्तकम् अस्ति। गीता सर्वशास्त्रमयी वर्तते। महर्षिवेदव्यासेन सर्वेषां धर्मग्रन्थानां साररूपेण गीता प्रणीता आसीत्। अत एव सर्वेषां धर्मग्रन्थानाम् उदात्ताः सिद्धान्ताः अस्याम् एकत्र उपलभ्यन्ते। उक्तं च— 'गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।' श्रीमद्भगवद्गीतायां कर्मयोगस्य, ज्ञानयोगस्य, भक्तियोगस्य च त्रिवेणी प्रवहति।

गीता निराशजनानां मनसि आशासञ्चारं करोति। एषा मानवम् उद्योगम् आश्रयितुं वारं वारं प्रेरयति। यथा अभिहितम्— "कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।" गीतायाः अयम् एव उपदेशः अस्ति यत् नरः आसक्तिं स्वार्थं च विहाय कर्म कुर्यात्। गीतानुसारेण मानवस्य शरीरं नश्वरम् अस्ति, परम् आत्मा अजरः अमरः च अस्ति। अतः शरीरस्य विनाशं विलोक्य मनुष्येन शोकः न कर्तव्यः। कर्तव्यरक्षणेन मानवेन जीवनत्यागे अपि संकोचः न कर्तव्यः।

Exam Tips:

a) गीता के कर्मयोग, ज्ञानयोग और भक्तियोग, तीनों मार्गों का उल्लेख अवश्य करें।
b) "कर्मण्येवाधिकारस्ते" श्लोक भगवद्गीता के दूसरे अध्याय का है, इसका सन्दर्भ दें।
c) निष्काम कर्म के उपदेश को निबंध का केन्द्रीय भाव बनाएँ।
d) आत्मा को अजर और अमर बताने वाला भाव शोक-निवारण के सन्दर्भ में लिखें।

 

Question 7: सत्यमेव जयते

Answer:

अयं संसारः सत्येन सञ्चरति संवर्धते वा। सर्वेषां गुणानां सारभूतं सत्यम् एव अस्ति। भारतीयधर्मशास्त्रेषु सत्यस्य महती प्रशंसा विद्यते। सर्वोत्कृष्टः धर्मः सत्यम् एव अस्ति। असत्यं सर्वाधिकं महत् पापम् अस्ति। सत्यम् एतत् कथ्यते—

"न हि सत्यात् परो धर्मो नानृतात् पातकं महत्। सर्वं सत्ये प्रतिष्ठितम्॥"

सत्यपालनेन मनुष्यः संसारे सर्वत्र पूज्यते। सत्यस्य सर्वत्र जयः भवति, न च असत्यस्य। सत्येन एव जनः यशः, सुखं सफलतां च प्राप्नोति। सत्यवादी हरिश्चन्द्रः सत्यात् विचलितः नाभवत्, अतः एव सः अद्यापि संसारे पूज्यते। सत्यपालकाः दशरथ, युधिष्ठिर, अशोकादयश्च अद्यापि विश्ववन्दनीयाः सन्ति। महात्मा गान्धी सत्येन एव राष्ट्रपिता अभवत्।

जीवने सदा सत्यम् एव वक्तव्यम्, सत्यम् एव आचरणीयम्, सत्यम् एव करणीयम्, सत्यम् एव च पालनीयम्। मनः सत्येन एव शुध्यति, न तु जलेन। सत्यवादिने जने सर्वे विश्वासं कुर्वन्ति। प्राचीनकाले भारतं सत्याय विश्वप्रसिद्धम् आसीत्। अद्यापि भारतीयानां राष्ट्रीय-उद्घोषणा "सत्यमेव जयते" इति अस्ति। अतः मनसा, वाचा, कर्मणा वा सत्यस्यैव आचरणं कर्तव्यम्, यतो हि—

"सत्यमेव जयते नानृतम्।"

Exam Tips:

a) "सत्यमेव जयते" मुण्डकोपनिषद् का वाक्य है, इसका स्रोत लिखने से उत्तर प्रभावी होता है।
b) भारत का राष्ट्रीय आदर्श वाक्य "सत्यमेव जयते" अशोक-स्तम्भ के नीचे अंकित है।
c) हरिश्चन्द्र का उदाहरण सत्यनिष्ठा के लिए प्रसिद्ध है, इसे निबंध में अवश्य लिखें।
d) "न हि सत्यात् परो धर्मः" श्लोक को उद्धृत करके उसका भावार्थ लिखें।

 

Question 8: मम मित्रम्

Answer:

जीवने मित्रस्य सर्वाधिकं महत्त्वपूर्णं स्थानं भवति। मित्रं विना जीवनं नीरसं जायते। या घनिष्ठता मित्रेण सह भवति, न सा मात्रा, पित्रा, पत्न्या वा सह भवति। ममापि मित्रं सुरेशः वर्तते। सः अतीव आस्तिकः अस्ति। सः हृष्टपुष्टः गौराङ्गश्च अस्ति। सेवाभावः, अध्ययनशीलता, स्नेहशीलता च तस्य विशिष्टाः गुणाः सन्ति। तस्य जनकः चिकित्सकः अस्ति। तस्य जननी अध्यापिका अस्ति। सुरेशः स्वविद्यालयस्य आदर्शः छात्रः अस्ति। सः तु सदैव मया सह निवसति। छायेव सदा मम पार्श्वं न त्यजति। आपत्काले सम्प्राप्तेऽपि मां त्यक्त्वा न गच्छति। सः सर्वेषामपि गुरुजनानां प्रियः वर्तते। तस्य कोमलः स्वभावः आकर्षकं व्यक्तित्वं च अस्ति। सः पठने, क्रीडने, भाषणे च अति प्रवीणः अस्ति।

सदैव मम विषये चिन्तयति। प्रतिदिनं रात्रौ मम कार्याणि चरितं च प्रत्यवेक्षते—कानि मे सत्कर्माणि कानि च दुष्कृतानि? आवां परस्परम् आलपन्तौ अन्योन्यस्य सुखदुःखानि श्रुत्वा तस्य प्रतिकारं चिन्तयावः। अनुशासनप्रियता, आत्मसंयमः, आज्ञापालनं च तस्य गुणाः सन्ति। आवयोः मैत्री दिनस्य परार्धस्य छायेव क्षणिकपरिचयमात्रं न, प्रारब्धा सततं वर्धते एव। यदि कदाचित् कार्यवशात् दूरमपि गच्छावः, तथापि तस्यां मैत्र्यां न्यूनता न जायते, यतो हि दूरस्थितानाम् अपि मैत्री न विचलति। एवंविधं मम मित्रं तु आत्मा एव। आत्मा एव मां पापात् निवारयति। सः सदैव मम प्रेरणास्रोतः वर्तते। अहं तं कदापि विस्मर्तुं न शक्नोमि।

Exam Tips:

a) मित्र का वर्णन करते समय उसके गुण, परिवार और विद्यालय के बारे में क्रम से लिखें।
b) मित्र के साथ बीते अनुभव और परस्पर सहयोग के उदाहरण से निबंध व्यक्तिगत बनता है।
c) "छायेव" उपमा का प्रयोग मित्रता की निरन्तरता दर्शाने के लिए करें।
d) निबंध का समापन मित्र को प्रेरणा-स्रोत बताने वाले वाक्य से करें।

 

Question 9: गणतन्त्र दिवसः

Answer:

कस्यापि देशस्य जीवने राष्ट्रीयपर्वाणां विशेषं महत्त्वं भवति। अस्माकं राष्ट्रीयपर्वेषु स्वतन्त्रतादिवसः, गणतन्त्रदिवसः चेति उभौ प्रसिद्धौ स्तः। '15 अगस्त' इति दिवसः अस्माकं स्वतन्त्रतादिवसः अस्ति, यतोहि 15 अगस्त 1947 ईसवीये भारतवर्षः स्वतन्त्रः अभवत्। '26 जनवरी' अस्माकं 'गणतन्त्रदिवसस्य' राष्ट्रीयपर्व अस्ति। अस्मिन् एव शुभदिवसे 1950 ईसवीये अस्माकं देशः 'पूर्णगणतन्त्र-राष्ट्र'रूपे उद्घोषितोऽभवत्। दिसम्बरमासस्य एकत्रिंशत् दिवसे सन् 1929 ईसवीये रावीनद्याः तटे लाहौरनगरे काङ्ग्रेसस्य अधिवेशनम् अभवत्। अस्य अधिवेशनस्य अध्यक्षता पण्डित जवाहरलाल नेहरू महोदयः अकरोत्।

निजाध्यक्षीयभाषणे तेन अभिहितं यत्—काङ्ग्रेसस्य प्रमुखलक्ष्यः पूर्णस्वराज्यस्य प्राप्तिः अस्ति। 1950 तमे वर्षे जनवरीमासस्य षड्विंशतितारिकायां भारतीयसंविधानस्य उद्घोषणा अभवत्। तस्मिन् अवसरे डॉ. राजेन्द्रप्रसादः देशस्य प्रथमः राष्ट्रपतिः नियुक्तः। भारतीय इतिहासे गणतन्त्रदिवसस्य अत्यधिकं महत्त्वम् अस्ति। अस्मिन् दिवसे जनेषु देशभक्तिभावनायाः प्रेरणार्थं भिन्नभिन्नराज्यसरकारेषु आनन्दवर्धकाः कार्यक्रमाः भवन्ति।

अस्मिन् दिवसे देशस्य राजधानी दिल्लीनगरे विशेषकार्यक्रमः भवति। विजयचौके इति स्थाने राष्ट्रपतिमहोदयः जल-थल-वायुसेनानां सलामीं स्वीकरोति। निजनिजप्रान्तानां वेशभूषया लोकनर्तकाः नृत्यप्रदर्शनैः निजप्रान्तीयसंस्कृतेः परिचयं यच्छन्ति। निष्कर्षरूपेण वक्तुं शक्यते यत् गणतन्त्रदिवसस्य पर्वः भारतीयनागरिकाणां हृदयेषु अलौकिकोत्साहस्य आत्मचिन्तनस्य च प्रेरणादायकः उत्सवः अस्ति।

Exam Tips:

a) 26 जनवरी 1950 को भारतीय संविधान लागू हुआ और इसी दिन गणतन्त्र घोषित हुआ।
b) 15 अगस्त 1947 (स्वतन्त्रता) और 26 जनवरी 1950 (गणतन्त्र) की तिथियाँ अलग-अलग लिखें।
c) दिसम्बर 1929 के लाहौर अधिवेशन की अध्यक्षता पण्डित जवाहरलाल नेहरू ने की थी।
d) विजय चौक पर राष्ट्रपति द्वारा सलामी लेने का उल्लेख निबंध के अन्तिम भाग में करें।

 

Question 10: समयस्य सदुपयोगः

Answer:

समयस्य सदुपयोगः जीवनसफलतायाः प्रथमं सोपानम्, समुन्नतेः मूलमन्त्रम्, आत्मनिर्माणस्य च परमं साधनम् अस्ति। प्रकृतिरपि इयमेव शिक्षां ददाति यत् नहि केनापि समयस्य दुरुपयोगः कर्तव्यः इति। ये जनाः कदापि समयस्य दुरुपयोगं न कुर्वन्ति, सदैव कार्यसंलग्नाः भवन्ति, ते सुखेनैव तिष्ठन्ति। तादृशाः एव कर्मवीराः सर्वत्र श्रेष्ठपदं लभन्ते। संसारस्य सर्वेषु वस्तुषु समयः अधिकं महत्त्वपूर्णः अधिकं च मूल्यवद् वस्तु वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धुं शक्यन्ते, परं समयः विनष्टः केनापि उपायेन पुनः प्रत्यवर्तयितुं न शक्यते। यस्य आयुषः यावान् अंशः निरर्थकं गतः सः गतः एव।

अतः तथा प्रयतितव्यं यथा एकस्यापि क्षणस्य दुरुपयोगः न स्यात्, सर्वोऽपि च समयः समुचितरूपेण व्यतीतः भवेत्। समयः कस्यापि प्रतीक्षां न करोति। अनेके जनाः निरर्थकं समयं यापयन्ति। ते द्यूते, नृत्यदर्शने, कलहे, वृथाभ्रमणे, पिशुनतायां, चाटुकारितायां च समस्तं समयं नयन्ति। निजजीवनस्य च बहुमूल्यम् अंशं वृथा यापयन्ति। उत्तमाः छात्राः सदा समयस्य महत्त्वं जानन्ति, ते समये उत्तिष्ठन्ति, स्वकार्यं च तत्परतया कुर्वन्ति। अतः ते उन्नतिं सफलतां च प्राप्नुवन्ति। परं प्रमादी छात्रः कदापि उन्नतिं नाधिगच्छति। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः। एकमपि क्षणं वृथा न यापनीयम्। सत्यमुच्यते—"न कार्यकालमतियातयेत्।"

Exam Tips:

a) गया हुआ समय पुनः लौटाया नहीं जा सकता, यह मुख्य भाव निबंध में स्पष्ट करें।
b) द्यूत, कलह और चाटुकारिता जैसी समय नष्ट करने वाली आदतों की सूची निबंध में दें।
c) उत्तम छात्र और प्रमादी छात्र की तुलना से निबंध संतुलित बनता है।
d) निबंध का समापन "न कार्यकालमतियातयेत्" सूक्ति से करें।

 

Sanskrit Class 11 Curriculum Solutions: Composition: Essay Writing

Official Haryana Board Solutions for Composition: Essay Writing

Access structured Haryana Board textbook solutions for Composition: Essay Writing. Designed in alignment with the latest academic curriculum for Class 11 Sanskrit, these answers cover all end-of-chapter exercises to support daily learning and homework completion.

Step-by-Step Explanations for Composition: Essay Writing

Each solution includes detailed reasoning to foster genuine comprehension of Composition: Essay Writing concepts. Reviewing these step-by-step breakdowns allows learners to master both analytical and descriptive questions expected in school evaluations.

Next Steps in Your Sanskrit Revision

Consistent practice with these solution guides cultivates faster problem-solving habits and clearer logical structuring. For a complete preparation experience, pair these textbook answers with our dedicated revision notes and sample papers for Class 11 Sanskrit.

FAQs

Where can I find the latest HBSE Class 11 Sanskrit रचना निबंध-लेखनम् for the 2026-27 session?

The complete and updated HBSE Class 11 Sanskrit रचना निबंध-लेखनम् is available for free on StudiesToday.com. These solutions for Class 11 Sanskrit are as per latest Haryana Board curriculum.

Are the Sanskrit Haryana Board solutions for Class 11 updated for the new 50% competency-based exam pattern?

Yes, our experts have revised the HBSE Class 11 Sanskrit रचना निबंध-लेखनम् as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.

How do these Class 11 Haryana Board solutions help in scoring 90% plus marks?

Toppers recommend using Haryana Board language because Haryana Board marking schemes are strictly based on textbook definitions. Our HBSE Class 11 Sanskrit रचना निबंध-लेखनम् will help students to get full marks in the theory paper.

Do you offer HBSE Class 11 Sanskrit रचना निबंध-लेखनम् in multiple languages like Hindi and English?

Yes, we provide bilingual support for Class 11 Sanskrit. You can access HBSE Class 11 Sanskrit रचना निबंध-लेखनम् in both English and Hindi medium.

Is it possible to download the Sanskrit Haryana Board solutions for Class 11 as a PDF?

Yes, you can download the entire HBSE Class 11 Sanskrit रचना निबंध-लेखनम् in printable PDF format for offline study on any device.