HBSE Class 11 Sanskrit रचना पत्र-लेखनम्

Solutions for Class 11 Sanskrit: Patra Lekhanam (Letter Writing)

Review structured textbook solutions for Class 11 Sanskrit Patra Lekhanam (Letter Writing). Built according to Haryana Board guidelines for the 2026-27 academic year, these downloadable answers support daily revision and problem-solving accuracy.

Practice Class 11 Sanskrit Solutions: Patra Lekhanam (Letter Writing)

Access the complete solution PDF for Class 11 Sanskrit below. Regular practice with these targeted textbook answers builds familiarity with standard question patterns and helps secure higher marks in final school evaluations.

Question 1: प्रधानाचार्यं प्रति अवकाशार्थं प्रार्थनापत्रम्।

Answer:

सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः,
सनातनधर्मविद्यालयः,
करनालः।

मान्यवर!
सादरं नमोनमः।

सविनयं निवेदनम् इदम् अस्ति यत् अस्य मासस्य चतुर्थ्यां तिथौ मम ज्येष्ठभ्रातुः विवाहसंस्कारः भविष्यति। अतः अहं दिनत्रयं विद्यालयम् आगन्तुं समर्थः न भविष्यामि। कृपया 3.5.20…… तः 5.5.20…… पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय माम् अनुगृह्णातु अत्रभवान्।

धन्यवादः।
भवताम् आज्ञाकारी शिष्यः,
दीपेशः
एकादशकक्षा
अनुक्रमाङ्कः - 25
दिनाङ्कः 2.5.20……

Exam Tips:

a) प्रार्थनापत्र "सेवायाम्" से आरम्भ करें और उसके नीचे पद, विद्यालय का नाम तथा नगर अलग-अलग पंक्तियों में लिखें।
b) प्रार्थनापत्र में दिनाङ्क अन्त में, नाम और कक्षा के नीचे लिखा जाता है।
c) अवकाश की तिथियाँ "…… तः …… पर्यन्तम्" (से ... तक) के प्रयोग से स्पष्ट लिखें और दिनों की संख्या उनसे मेल खाए।
d) "अनुगृह्णातु अत्रभवान्" (आप कृपा करें) प्रार्थनापत्र का मानक विनम्र समापन-वाक्य है।

 

Question 2: शुल्कदण्डक्षमार्थं प्रधानाचार्यं प्रति पत्रम्।

Answer:

सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहाभागाः,
गीता-शिक्षा-निकेतनम्,
कुरुक्षेत्रम्।

मान्यवराः!

भवतां सेवायां मम सविनयं निवेदनम् अस्ति यत् गतसप्ताहस्य गुरुवासरे गृहस्य अत्यावश्यककार्यवशात् अहं विद्यालये अनुपस्थितः आसम्। तस्मिन् दिवसे अहम् अवकाशम् अनादाय एव प्रातः इन्द्रप्रस्थं गतः। तेन अहं पञ्चरूप्यकाणां शुल्कदण्डेन दण्डितः अस्मि। मम विद्यार्थिजीवने अयं प्रथमः एव एतादृशः अवसरः आसीत्।

अतः अत्रभवन्तं प्रार्थये यत् अपरिहार्यकारणात् जाताम् इमां त्रुटिं क्षमताम्, शुल्कदण्डात् च मह्यं मुक्तिं प्रददातु। अहम् अतीव कृतज्ञः भविष्यामि।

सधन्यवादम्।
भवताम् आज्ञाकारी शिष्यः,
पुनीतः
(एकादशकक्षा, अनुक्रमाङ्कः 11)
दिनाङ्कः 19.05.20……

Exam Tips:

a) अनुपस्थिति का कारण (अत्यावश्यक गृहकार्य) और दिन (गुरुवासरः) स्पष्ट लिखें।
b) "शुल्कदण्डः" का अर्थ है जुर्माना; "शुल्कदण्डेन दण्डितः अस्मि" में करण अर्थ में तृतीया विभक्ति है।
c) क्षमा माँगते समय यह अवश्य लिखें कि ऐसी भूल पहली बार हुई है (अयं प्रथमः एव अवसरः)।
d) आज्ञार्थक विनम्र रूप "क्षमताम्", "प्रददातु" का प्रयोग आदरणीय व्यक्ति के लिए प्रथम पुरुष में करें।

 

Question 3: पितरं प्रति परीक्षापरिणामसूचकं पत्रम्।

Answer:

परीक्षाभवनम्
दिनाङ्कः 20.04.20……

आदरणीयाः पितृचरणाः!
सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। समाचारः अयं यत् अद्य मम वार्षिकपरीक्षायाः परिणामः उद्घोषितः। भवान् एतत् ज्ञात्वा प्रसन्नः भविष्यति यत् अहं परीक्षायां न केवलं प्रथमश्रेण्याम् उत्तीर्णः अभवम्, अपितु प्रथमं स्थानम् अपि लब्धवान्। मत्कृते विशिष्टा छात्रवृत्तिः अपि प्रदास्यते। समाचारपत्रेषु मम छायाचित्रम् अपि प्रकाशितम्। इदं सर्वं भवतोः मातापित्रोः आशीर्वादेन एव सञ्जातम्। अहं शीघ्रमेव भवतां दर्शनानि करिष्ये। पूज्यमातृचरणेषु मम प्रणामाः।

भवताम् आज्ञाकारी पुत्रः,
महेशः

Exam Tips:

a) पारिवारिक पत्र में स्थान ("परीक्षाभवनम्") और दिनाङ्क पत्र के आरम्भ में दाईं ओर लिखे जाते हैं।
b) पिता के लिए सम्बोधन "आदरणीयाः पितृचरणाः" और अभिवादन "सादरं प्रणामाः" लिखें।
c) "अत्र कुशलं तत्रास्तु" पारिवारिक पत्र का प्रचलित आरम्भिक वाक्य है।
d) "न केवलं ... अपितु ..." (न केवल ... बल्कि ...) का प्रयोग दो उपलब्धियाँ एक साथ बताने के लिए करें।

 

Question 4: मित्रं प्रति पत्रम् (विद्यालयस्य वार्षिकोत्सववर्णनम्)।

Answer:

परीक्षाभवनम्
दिनाङ्कः 25.4.20……

प्रियमित्र सोहन!
सप्रेम नमोनमः।

भवतः पत्रं प्राप्तम्। अत्र अहं निजविद्यालयस्य वार्षिकोत्सवस्य वर्णनं करोमि। सप्ताहद्वयात् पूर्वम् एव विद्यालये सर्वे अध्यापकाः छात्राः च वार्षिकोत्सवस्य कार्येषु व्यस्ताः आसन्। हरियाणाप्रान्तस्य शिक्षानिदेशकः कार्यक्रमस्य अध्यक्षः आसीत्। सः कार्यक्रमम् अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च पारितोषिकाणि अयच्छत्। पितृभ्यां मम प्रणामाः।

भवतः सुहृद्,
दीपेशः

Exam Tips:

a) मित्र के लिए सम्बोधन "प्रियमित्र" के साथ नाम सम्बोधन रूप में लिखें (सोहन!) और अभिवादन "सप्रेम नमोनमः" लिखें।
b) "करोमि" उत्तम पुरुष एकवचन है; "अहं" के साथ "करोषि" (मध्यम पुरुष) लिखना अशुद्ध है।
c) "योग्येभ्यः छात्रेभ्यः ... अयच्छत्" में देने के अर्थ में चतुर्थी विभक्ति प्रयुक्त है।
d) मित्र को लिखे पत्र के अन्त में "भवतः सुहृद्" या "भवदीयं मित्रम्" लिखकर नाम लिखें।

 

Question 5: दीपमालाविषयकं मित्रं प्रति पत्रम्।

Answer:

अम्बालानगरम्
दिनाङ्कः 10.11.20……

प्रियमित्र महेश!
सप्रेम नमोनमः।

अहम् अद्य दीपमालायाः विषये लिखामि। मित्र! कुटुम्बमध्ये स्थित्वा मया सहर्षं दीपमालोत्सवः आचरितः। अस्माकं गृहस्य अन्तः बहिः च प्रकाशस्य पुञ्जः एव उद्गतः आसीत्। वीथीमध्ये बहुविधानां स्फोटकानां विस्फोटनं महत् कुतूहलम् अजनयत्। अस्माभिः विविधानि मिष्टान्नानि स्वयम् अपि खादितानि, प्रियमित्राणां गृहेषु च प्रेषितानि। मन्ये भवता अपि परिजनैः सह सोल्लासं दीपमालोत्सवः आचरितः भवेत्। पत्रोत्तरं देयम्।

भवतः मित्रम्,
रमेशकुमारः

Exam Tips:

a) पत्र में दीपमाला की मुख्य बातें क्रम से लिखें: परिवार के साथ उत्सव, घर की सजावट, आतिशबाजी और मिठाइयाँ।
b) "मया ... आचरितः" कर्मवाच्य का प्रयोग है; इसमें कर्ता तृतीया विभक्ति में और क्रिया कर्म के अनुसार होती है।
c) "अन्तः बहिः च" (अन्दर और बाहर) अव्ययों का प्रयोग वर्णन को संक्षिप्त बनाता है।
d) मित्र से उत्तर माँगने के लिए अन्त में "पत्रोत्तरं देयम्" लिखें।

 

Question 6: मित्रं प्रति पत्रम् (जन्मदिवसवर्णनम्)।

Answer:

परीक्षाभवनम्
दिनाङ्कः 25.07.20……

प्रियमित्र सलिल!
सप्रेम नमोनमः।

अत्र कुशलं तत्रास्तु। यद्यपि वार्षिकपरीक्षायां व्यस्ततया भवान् मम जन्मदिवसोत्सवस्य आनन्दं न अलभत, तथापि आशासे यत् तस्य वर्णनं पठित्वा अपि भवान् कमपि आनन्दम् अवश्यमेव लप्स्यते। मया केककर्तनस्य पाश्चात्यरीतिं विहाय यज्ञहोमादिकस्य भारतीयपद्धतिम् अवलम्ब्य अयम् उत्सवः आचरितः। सर्वेषाम् आगन्तुकानां पक्षतः पुरोहितमहोदयेन मह्यम् आशीर्वचनैः शुभकामनाः प्रदत्ताः। तदनन्तरं हास्यरसपूर्णम् अभिनयं दृष्ट्वा वयं सर्वे आनन्दम् अन्वभवाम। इति अलम्।

भवतः मित्रम्,
तरुणः

Exam Tips:

a) "यद्यपि ... तथापि ..." (यद्यपि ... फिर भी ...) का युग्म एक साथ प्रयोग करें।
b) "अवलम्ब्य" (अव + √लम्ब् + ल्यप्) उपसर्ग सहित धातु से बना है, इसलिए यहाँ ल्यप् प्रत्यय है।
c) "वयं ... अन्वभवाम" में कर्ता बहुवचन है, इसलिए क्रिया भी उत्तम पुरुष बहुवचन में है।
d) पत्र को "इति अलम्" (बस इतना ही) लिखकर समाप्त करें, फिर "भवतः मित्रम्" और नाम लिखें।

 

Important Questions

Question 1: अवकाशार्थं प्रधानाचार्यं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयित्वा लिखत
श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-विद्यालयः, फरीदाबाद।
(i) …………!
अहम् अद्य (ii) ………… शीतज्वरेण पीडितः अस्मि। ज्वरकृततापेन भृशं (iii) ………… उपगतः अस्मि। अतः विद्यालयम् आगन्तुं न प्रभवामि। कृपया दिनद्वयस्य (iv) ………… स्वीकृत्य माम् अनुग्रहीष्यन्ति श्रीमन्तः।
भवताम् (v) ………… शिष्यः,
तुषारः।
मञ्जूषा - आज्ञाकारी, अवकाशं, कार्श्यम्, मान्यवर, दिनद्वयात्

Answer:

श्रीमन्तः प्रधानाचार्यमहोदयाः,
राजकीय-विद्यालयः, फरीदाबाद।
(i) मान्यवर!
अहम् अद्य (ii) दिनद्वयात् शीतज्वरेण पीडितः अस्मि। ज्वरकृततापेन भृशं (iii) कार्श्यम् उपगतः अस्मि। अतः विद्यालयम् आगन्तुं न प्रभवामि। कृपया दिनद्वयस्य (iv) अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति श्रीमन्तः।
भवताम् (v) आज्ञाकारी शिष्यः,
तुषारः।

Exam Tips:

a) सम्बोधन के स्थान (i) पर "मान्यवर" आएगा, क्योंकि उसके बाद विस्मयादिबोधक चिह्न (!) है।
b) "दिनद्वयात्" (दो दिन से) में समय की अवधि बताने के लिए पञ्चमी विभक्ति है।
c) "कार्श्यम्" का अर्थ दुर्बलता है; "कार्श्यम् उपगतः" अर्थात् ज्वर से बहुत दुर्बल हो गया हूँ।

 

Question 2: प्रदत्तपत्रं पठित्वा मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत
रा०व०मा०वि० छात्रावासः,
हिसारतः।
पूज्यपितृचरणयोः प्रणामः।
अत्र (i) ………… तत्रास्तु। अद्यैव (ii) ………… एकादशकक्षायाः परिणामः आगतः। अहं कक्षायाम् (iii) ………… स्थानं प्राप्तवान्। अग्रिमे सप्ताहे मम द्वादशकक्षायाः (iv) ………… प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् (v) …………। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु।
मातृचरणेषु प्रणामाः।
भवतां प्रियः सुतः,
रमेशः।
दिनाङ्कः 08.04.20……
मञ्जूषा - इच्छामि, अध्ययनं, उत्तमं, कुशलं, मम

Answer:

रा०व०मा०वि० छात्रावासः,
हिसारतः।
पूज्यपितृचरणयोः प्रणामः।
अत्र (i) कुशलं तत्रास्तु। अद्यैव (ii) मम एकादशकक्षायाः परिणामः आगतः। अहं कक्षायाम् (iii) उत्तमं स्थानं प्राप्तवान्। अग्रिमे सप्ताहे मम द्वादशकक्षायाः (iv) अध्ययनं प्रारप्स्यते। अहं पुस्तकानि क्रेतुम् (v) इच्छामि। एतदर्थं भवन्तः सहस्रमेकं रूप्यकाणि प्रेषयन्तु।
मातृचरणेषु प्रणामाः।
भवतां प्रियः सुतः,
रमेशः।
दिनाङ्कः 08.04.20……

Exam Tips:

a) "अत्र कुशलं तत्रास्तु" एक निश्चित वाक्यांश है, इसलिए (i) में "कुशलं" ही आएगा।
b) "उत्तमं स्थानम्" में विशेषण "उत्तमं" नपुंसकलिङ्ग "स्थानम्" के अनुसार है।
c) "क्रेतुम्" (खरीदने के लिए) तुमुन्-प्रत्ययान्त है, इसके बाद इच्छा-सूचक क्रिया "इच्छामि" उपयुक्त है।

 

Question 3: विद्यालये प्रवेशार्थं निवेदनपत्रं मञ्जूषायां प्रदत्तैः शब्दैः पूरयत
श्रीमन्तः प्राचार्यमहोदयाः!
दयानन्द वरिष्ठ माध्यमिक विद्यालयः,
अम्बालानगरम्।
महाभागाः!
सविनयम् इदं निवेदनं यत् अहम् अस्मिन् वर्षे (i) ………… डी.ए.वी. विद्यालयतः सेकेण्डरीपरीक्षायां प्रथमश्रेण्यां सफलतां प्राप्तवान् अस्मि। मम पितुः अत्र (ii) ………… जातम्। इदानीं भवतः लब्धप्रतिष्ठविद्यालये पठितुम् इच्छामि। अहं जानामि यत् भवतः विद्यालयः (iii) ………… अतिप्रतिष्ठितः विद्यालयः अस्ति। अहम् अस्य विद्यालयस्य गुरुजनानां (iv) ………… उपविश्य शिक्षां ग्रहीतुम् इच्छामि।
आशासे भवान् मम (v) ………… स्वीकृत्य अकिञ्चनं माम् अनुग्रहीष्यति।
भवदीयः,
शैलेन्द्रः।
दिनाङ्कः 12.04.20……
मञ्जूषा - हरियाणा-प्रान्ते, प्रार्थनां, स्थानान्तरणं, चरणेषु, पानीपतस्थः

Answer:

श्रीमन्तः प्राचार्यमहोदयाः!
दयानन्द वरिष्ठ माध्यमिक विद्यालयः,
अम्बालानगरम्।
महाभागाः!
सविनयम् इदं निवेदनं यत् अहम् अस्मिन् वर्षे (i) पानीपतस्थः डी.ए.वी. विद्यालयतः सेकेण्डरीपरीक्षायां प्रथमश्रेण्यां सफलतां प्राप्तवान् अस्मि। मम पितुः अत्र (ii) स्थानान्तरणं जातम्। इदानीं भवतः लब्धप्रतिष्ठविद्यालये पठितुम् इच्छामि। अहं जानामि यत् भवतः विद्यालयः (iii) हरियाणा-प्रान्ते अतिप्रतिष्ठितः विद्यालयः अस्ति। अहम् अस्य विद्यालयस्य गुरुजनानां (iv) चरणेषु उपविश्य शिक्षां ग्रहीतुम् इच्छामि।
आशासे भवान् मम (v) प्रार्थनां स्वीकृत्य अकिञ्चनं माम् अनुग्रहीष्यति।
भवदीयः,
शैलेन्द्रः।
दिनाङ्कः 12.04.20……

Exam Tips:

a) "पानीपतस्थः" (पानीपत में स्थित) विद्यालय का विशेषण है, इसलिए यह विद्यालय के नाम से ठीक पहले आएगा।
b) "स्थानान्तरणं जातम्" (तबादला हो गया) में नपुंसकलिङ्ग "स्थानान्तरणम्" के साथ क्रिया "जातम्" भी नपुंसकलिङ्ग है।
c) "गुरुजनानां चरणेषु उपविश्य" में स्थान बताने के लिए सप्तमी विभक्ति (चरणेषु) का प्रयोग है।

 

Question 4: निजाध्ययनस्य प्रगतिविषये अग्रजं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयत
परीक्षाभवनम्
दिनाङ्कः 10.12.20……
पूजनीय (i) …………!
सादरं नमस्कारः।
नम्रनिवेदनम् अस्ति यत् सम्प्रति मम अध्ययनं नियमितम् अस्ति। अहं प्रातः (ii) ………… उत्थाय सप्तवादनं यावत् अध्ययनं करोमि। गतमासिकपरीक्षायां गणितविषये शतप्रतिशतम् अङ्कान् गृहीत्वा अहं निजकक्षायां (iii) ………… प्राप्तवान्। संस्कृते मया 98% (iv) ………… प्राप्ताः। वार्षिकपरीक्षायां भवत्कृपया अतः अपि (v) ………… सफलतां प्राप्स्यामि।
पितृभ्यां मम प्रणामाः।
भवदीयः अनुजः,
क. ख. ग.।
मञ्जूषा - अधिकां, अङ्काः, पञ्चवादने, प्रथमं स्थानं, अग्रजः

Answer:

परीक्षाभवनम्
दिनाङ्कः 10.12.20……
पूजनीय (i) अग्रज!
सादरं नमस्कारः।
नम्रनिवेदनम् अस्ति यत् सम्प्रति मम अध्ययनं नियमितम् अस्ति। अहं प्रातः (ii) पञ्चवादने उत्थाय सप्तवादनं यावत् अध्ययनं करोमि। गतमासिकपरीक्षायां गणितविषये शतप्रतिशतम् अङ्कान् गृहीत्वा अहं निजकक्षायां (iii) प्रथमं स्थानं प्राप्तवान्। संस्कृते मया 98% (iv) अङ्काः प्राप्ताः। वार्षिकपरीक्षायां भवत्कृपया अतः अपि (v) अधिकां सफलतां प्राप्स्यामि।
पितृभ्यां मम प्रणामाः।
भवदीयः अनुजः,
क. ख. ग.।

Exam Tips:

a) "पञ्चवादने" (पाँच बजे) में समय बताने के लिए सप्तमी विभक्ति है; इसका जोड़ "सप्तवादनं यावत्" से बनता है।
b) "मया ... अङ्काः प्राप्ताः" कर्मवाच्य है, इसलिए "प्राप्ताः" के अनुसार पुंल्लिङ्ग बहुवचन "अङ्काः" आएगा।
c) सम्बोधन में "अग्रजः" का रूप "अग्रज" लिखें, क्योंकि उसके बाद "!" चिह्न है।

 

Step-by-Step Textbook Answers: Class 11 Sanskrit Patra Lekhanam (Letter Writing)

Textbook Solutions for Class 11 Sanskrit Patra Lekhanam (Letter Writing)

Explore reliable textbook solutions for Patra Lekhanam (Letter Writing) tailored for Class 11 learners. Utilizing these complete exercise answers ensures your preparation aligns exactly with official Haryana Board standards for Sanskrit.

Mastering Theoretical and Practical Questions

Beyond providing final answers, these guides offer step-by-step breakdowns for complex queries in the Class 11 Sanskrit module. This approach helps students balance theoretical depth with practical problem-solving skills required for Haryana Board exams.

Effective Self-Study and Homework Assistance

Frequent review of these structured answers builds strong analytical capabilities and response efficiency. Maximize your academic readiness by combining these textbook solutions with our curated study materials and mock evaluations for Class 11 Sanskrit.

FAQs

Where can I find the latest HBSE Class 11 Sanskrit रचना पत्र-लेखनम् for the 2026-27 session?

The complete and updated HBSE Class 11 Sanskrit रचना पत्र-लेखनम् is available for free on StudiesToday.com. These solutions for Class 11 Sanskrit are as per latest Haryana Board curriculum.

Are the Sanskrit Haryana Board solutions for Class 11 updated for the new 50% competency-based exam pattern?

Yes, our experts have revised the HBSE Class 11 Sanskrit रचना पत्र-लेखनम् as per 2026 exam pattern. All textbook exercises have been solved and have added explanation about how the Sanskrit concepts are applied in case-study and assertion-reasoning questions.

How do these Class 11 Haryana Board solutions help in scoring 90% plus marks?

Toppers recommend using Haryana Board language because Haryana Board marking schemes are strictly based on textbook definitions. Our HBSE Class 11 Sanskrit रचना पत्र-लेखनम् will help students to get full marks in the theory paper.

Do you offer HBSE Class 11 Sanskrit रचना पत्र-लेखनम् in multiple languages like Hindi and English?

Yes, we provide bilingual support for Class 11 Sanskrit. You can access HBSE Class 11 Sanskrit रचना पत्र-लेखनम् in both English and Hindi medium.

Is it possible to download the Sanskrit Haryana Board solutions for Class 11 as a PDF?

Yes, you can download the entire HBSE Class 11 Sanskrit रचना पत्र-लेखनम् in printable PDF format for offline study on any device.